गुप्तवत्युपोद्घातः
मूलम्
दन व्यक्ताकार ⟨…⟩ यत । इदृशानामरूपोपाधिकस्य शक्तिरूपब्रह्मण उपासनाप्रकाशकेषु बहुषु मन्त्रेषु द्वावत्युत्तमौ । नवार्णः सप्तशती चेति । तत्राद्यस्य चतुर्विंशतिवर्णात्मत्वेऽपि व्यञ्जनानां स्वराङ्गत्वेन स्वातन्त्र्येणाक्षरसंख्या व्यवहारानुपयोगित्वेन 'एष व सप्तदशः प्रजापतियेऽऽन्वायत्त' इत्यादाविव स्वरसंख्ययैव नवर्णता । अर्णशब्दोऽपि वर्णपरः सुवर्णे स्वर्णव्यवहारदर्शनात् । वर्णशब्द एव च्युतकालङ्कारेण वकारप्रतीकारादेशप्रयोगस्तन्त्रेष्वेवेति कश्चित् । तदुद्धारस्तु देव्यथर्वशीर्षोपनिषदि । तत्रहि—'सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवि' इति देवानां प्रश्ने सति साब्रवीत् 'अहं ब्रह्मस्वरूपिणी' इत्यादिना बहुप्रकारः सगुणनिर्गुणस्वरूपभेदाभ्यां देवोत्तरिते सति 'ते देवा अब्रुवन्नित्युपक्रम्य नमो देव्यै महादेव्यै" इति श्लोकमन्त्रेण ऋग्भिश्च नमस्कारादिकं निर्वर्ण्य श्रीविद्यामुद्धृत्य तन्नित्यकूटत्रयस्यैव रूपान्तरेषु वाक्कामशक्तिबीजेषु श्रुत्यन्तरेव ⟨…⟩ ालः । घटकत्वेन प्रसिद्धेषु शक्तिबीजमात्रं प्रकारान्तरेण 'वियदीकारसंयुक्तम्' इत्यादिना । ह्ल्लेखात्मकत्वेनोद्धृत्य । तादृशबीजत्रयघटितो नवार्णो मन्त्र उद्धृतः । तथा ' वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुसंयुक्ताष्टात्तृतीयकः । नारायणं सामिश्रो वायुश्चाधरयुक्ततः । विच्चे नवार्णकोऽणुः स्यान्महदानन्ददायकः' इति । 'वाक्' वाग्भवबीजम् । ( ऐं ) । 'माया' शक्तिः हृल्लेखैव ( ह्रीं ) । 'ब्रह्मसूः' कामः ( क्लीं ) । 'तस्मात्' कामबीजात् तत्र प्रथमोपस्थितात् ककारात् 'षष्ठ'मक्षरं च्चकारः त‘द्वक्त्रेण’ मुखवृत्तेन आकारेण समन्वितं ( चा ) । ‘सूर्यो’ मः 'अवाम श्रोत्रं' पञ्चमस्वरः 'बिन्दु'रनुस्वारः ( सुं ) । ‘टात्’ टकारात् ‘तृतीयको’ वर्णो ङकारः स च ‘नारायणेना’ऽऽकारेण संमिश्रः ( डा ) 'वायु'र्यंकारः स ,चा'धरेणा'ऽधरोष्ठेन द्वादशस्वरेण युक्तः ( यै ) । ‘विच्चे’ इति स्वरूपम् ‘अणु’मन्त्रः महतामुपासकानामानन्ददायकः ब्रह्मसायुज्यप्रद इति तदर्थः । ध्याये चित्सदानन्दरूपिणि । अनुसंदध्महे नित्यं वयं त्वां हृदयाम्बु ⟨…⟩ जे । इत्थं त्रिशाद्यत्येषा या कल्याणी नवाक्षरी । अस्या एतन्महिमातिशयो डामरादितन्त्रेषु द्रष्टव्यः । मन्त्रार्थश्च तत्रैव 'निर्धूतनिखिलध्वान्ते नित्यमुक्ते परात्परे । अखण्डब्रह्मविध्याये चित्सदानन्दरूपिणि । अनुसंदध्महे नित्यं वयं त्वां हृदयाम्बुजे । इत्थं त्रिशाद्यत्येषा या कल्याणी नवाक्षरी । अस्या महिमलेशोऽपि गदितुं केन शक्यते । बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात् । एतमर्थं गुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम् । आशिषं च परां लब्ध्वा मन्त्रसिद्धिमवाप्नुयात्’ इत्यादि । अत्र प्रथमश्लोके सम्बुद्धित्रयं ततः चतुर्थ्यन्तं ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः पदानां तत्तद्विभक्त्यन्तता तत्तदर्थाश्चेति कथितम् । तदुत्तरार्धेनाकाङ्क्षितपदानामध्याहार उक्तः इतरत्स्पष्टम् । सच्चिदानन्दात्मकपरब्रह्मधर्मत्वादेव शक्तेरपि त्रिरूपत्वम् । तत्र चिद्रूपा महासरस्वती वाग्बीजेन सम्बोध्यते । ज्ञानेनैवाज्ञाननाशान्निर्धूतनिखिलध्वान्तपदेन तद्विवरणं युक्तमेव । नित्यत्वं त्रिकालावाध्यत्वम् अत एव मुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम् । एतेन सद्रूपात्मकमहालक्ष्मीरूपस्य हृल्लेखया सम्बोधनमिति व्याख्यातम् । पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव तस्यैव पुरुषार्थत्वात् ‘आत्मनः कामाय सर्वं प्रियं भवति’ इति श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्वशेषितया परत्वात् स च मानुषानन्दमारभ्योत्तरोत्तरं शतगुणाधिक्येन श्रुतौ बहुविधो वर्णितः तेषु परमातिशायी 'स एको ब्रह्मण आनन्द' इति परमावधित्वेनाम्नात एव परात्परः, ‘स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः’ इति पुराणे च । तेन आनन्दप्रधानेन महाकालीस्वरूपस्य कामबीजेन सम्बोधनमुक्तम् । चामुण्डाशब्दो हि मोक्षकारणीभूतानिविकल्पकवृत्तिविशेषपरः । तादर्थ्ये चतुर्थी । चमुं सेनां वियदादिसमूहरूपां डाति डलयोरैक्या ⟨…⟩ ति आदत्ते स्वात्मसात्कारेण नाशयतीति व्युत्पत्तेः । पृषोदरादित्वात् सर्वं सुस्थमित्याहुः । ‘मया तवात्रोपहृतौ चण्डमुण्डौ महापशू’ इत्यत्र पशूपद ⟨…⟩ वचनयोः स्वारस्थेन तूलमूलभेदेनाविद्याद्वयकथनेन 'यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि' इत्यत्रापि तूलमूलाविद्ययोरादानमेव गृहीत्वेति पदेनानूद्य निर्वचनकथनादण्डब्रह्मविद्येत्येव चामुण्डापदस्यार्थो वर्णित इति सूक्ष्मदशां रहस्यम् । विच्चे इति तु वित् च इ इति पदत्रयात्मकं बीजक्रमेणोक्तानां चित्सदानन्दानां वाचकं संबुद्ध्यन्तम् । अस्य स्त्री ई इत्यस्य ह्रस्वे सति 'इ' हे आनन्दब्रह्ममहिषि इत्यर्थः । चित्पदं ज्ञानपरं प्रसिद्धमेव । चकारोऽपि नपुंसकः सत्यपर इति योज्यम् । अनुसंद ⟨…⟩ महं इत्यादि शेषः । इत्थं च हि महासरस्वत्यादिरूपं चिदादिरूपे चण्डिके त्वां ब्रह्मविद्याप्राप्त्यर्थं वयं सर्वदा ध्यायाम इति मन्त्रार्थः फलितः । तस्यायं संग्रहः ‘महासरस्वति चिते महालक्ष्मि सदात्मके । महाकाल्यानन्दरूपं त्वत्तत्त्वज्ञानसिद्धये । अनुसंदध्महे चण्डि वयं त्वां हृदयाम्बुजे' इति । यद्यपि श्रीमित्येव बीजं महालक्ष्म्याः प्रसिद्धं न ह्येखा तथापि हकारशकारयोरूष्मत्वेन साजात्यान्नातीव भेदः । अत एव 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति श्रुतौ । शास्त्रान्तरे ह्रीपदस्थाने श्रीपदस्य पाठः । एवं स कामबीज एव लकारस्य स्थाने रेफयोजनेन कालीबीजतारस्तयोश्चान्तस्वत्वेनैक्यान्नात्यन्तं भेदः । तन्त्रान्तरेषु कालीसरस्वत्योर्वास्तविकाभेदमभिप्रेत्य बीजयोर्वैपरीत्याद्भेदव्यवहारोऽपि दृश्यत इति द्रष्टव्यम् । अयं चार्थः प्राचीनैर्वर्णितप्राय एव सम्यक्परिष्कृतयोक्ताः । वस्तुतस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्पनया च समाधानस्याविशेषादन्योऽपि प्रकारः सुवचः । चमु अदन इति धातोश्चामुरदनीयः पदार्थः । स च ब्रह्मातिरिक्तः सर्वोऽपि अत्ताचराचरग्रहणादित्यधिकरणे तथा निर्णयात् । तं डापयति उड्डापयति न विषयीकुरुते ब्रह्ममात्रवि ⟨…⟩ यिणीति यावत् । अथवा चकार एकाक्षरनिघण्टुरीत्या चन्द्रवाचक आह्लादप्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन् ब्र ⟨…⟩ व वक्ति । तदासमन्तान्मुण्डयतीति चामुण्डा । मुण्डनं नामाधारापेक्षया न्यूनसत्ताकवस्तुनिरासः । शिरश्शर्मापेक्षया ाहम्यवतामेव केशानां वपने प्रयोगात् । गौडपादीयभाष्ये तु शरीरराहित्यलक्षणमुण्डताया मुण्डकोपनिषत्प्रोक्तशेषवत्ताया अमुण्डतायाश्च सत्वाचामुण्डात्वमित्यर्थ इत्युक्तम् । अथवा चानां बुद्धीनां सुखानां वा मुण्डमिव शीर्षधता, सर्वोत्तमा चरमवृत्तिरूपा ब्रह्मविदेति यावत् । अथवा । चण्डिकारूपदेवतापर एव चामुण्डाशब्दः । अत एव वह्निजायायोजनेन होमे चामुण्डाया इदमित्येव त्यागो विधिशब्दस्य मन्त्रत्वमित्यधिकरणन्यायसिद्धो युज्यते । ल्लाच्च नमः शब्दस्यैवाध्याहारः । बीजत्रयमप्यव्ययरूपं चतुर्थ्यन्तमेव ह्यष्टिदेवतात्रयवाचकमभेदद्योतकम् । तद्विशेषणं यप्यखण्डमव्ययं मोचनार्थकम् । स्वरादेराकृतिगणत्वात् । मन्त्रस्य पदखण्डशो न्यासप्रकरणे अस्य युगलस्य विभजनं यासविधानात् । भगमालिनी नित्या मन्त्रादिषु बहुषु तस्य प्रयोगसत्वेन तन्त्रोक्तार्थरीत्या निर्वाहाभावाच्च । ततश्च वन्धनकारणीभूतामिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति स्त्रीसम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः । यदापि ूर्तिसंहितायां भगमालिनीति मन्त्रस्थदेवतागणनावसरे 'अमोघां चैव विद्यां च तथेशीं क्लिन्नदेवताम्' इति पाठात् मिका काचिद्देवतैवेत्यालोच्यते तदापि परिकरालङ्कारेण साभिप्रायं चामुण्डाविशेषणम् । मोचयतीत्येव तदर्थः । तस्मिकर्णाटभाषाविद्भिरान्ध्रभाषाविद्भिश्च शिष्टैः प्रयोगेण शक्तिग्रहसम्भवात् । 'पृणीयादिन्नाधमानायतव्यानिति' श्रुतौ स्य सूपादिभक्ष्यपरतायाः । नुवन्तं याच्ञयामुपेति श्रुतौ नौतेर्दुःखपरतायाः । तासां वायुः पृष्ठे व्यवर्ततेति श्रुतौ य योनिपरतायाः । पढमच्ची हंसपदमिति प्राकृतपिङ्गलसूत्रे मर्व्वीत्यस्य सुन्दरपरताया अन्यत्र च कर्णाटद्रविडान्ध्रसिद्धैव । शक्तिनिर्णयस्य बहुशोऽङ्गिकृतत्वात्, पिकनेमाधिकरणस्यैतदर्थमेव विशिष्य प्रवृत्तेर्भट्टिचन्द्रोदयेऽस्माभिर्वर्णि। भाषाणां संस्कृतापभ्रंशत्वेनापेक्षितार्थे विरोधाभावे निर्णायकत्वसम्भवाच्च, तन्त्रोद्धृतमन्त्रेषु भाषामिश्रणस्यापि वहुशो चरणायुधादिदैवत्यमन्त्रेषु पुंकोल्यादिशब्दानां कुक्कुटादिष्विव प्रवृत्तेश्चेति द्रष्टव्यम् । 'काल्यै लक्ष्म्यै सरस्वत्यै चनमोऽस्तु ते । अविद्यापाशहृदयग्रन्थिं विस्रंस्य मुञ्च माम्' इति तु मन्त्रार्थसंग्रहः । रहस्यतन्त्रे तु महावाक्यस्यैव णोरभेद एव मन्त्रस्यार्थ इत्युक्तं तन्निर्वाहे गुरुचरणावेव शरणमिति दिक् ॥ अत्र प्राञ्चः । तिसृणामपि देवीनां तुरीहाभेदाऽविशेषेऽपि महालक्ष्म्या एव प्राधानिकरहस्ये 'सर्वस्याद्या महालक्ष्मीः' इत्यादिना तुर्यंस्थाने गणनादितरयोः ज्जन्यत्वस्य कथनात् । महालक्ष्मीजननस्य पा थैक्येनाकथनाच्चोपास्यदेवतायास्तुरीयत्वेपि तस्यां रजःप्राधान्येनेतरगुप्रभावेनैव भावनमावश्यकमित्याहुः । तामेव च रीतिमाश्रित्य महालक्ष्मीवोधकह्ल्लेखाया एव नवार्णे प्रधानबीजत्वार्थं तावन्मात्रेण पुनः स्वातन्त्र्येणोद्धारस्यापि प्राधान्यध्वननार्थत्वात् । सप्तशतीतन्त्रेऽपि प्रथमश्लोके बिन्दुरहिताया अपि उद्धारेण समष्टिव्यष्टिभेदाच्चत्वारोऽपि मन्त्रा उद्धृतप्राया इति वदन्तष्टीकाकारास्तदुद्धारप्रकारं देवीचन्द्रकलास्तवे दीक्षितैः गेव लिखन्ति । यथा—'सावर्णिः सूर्यंतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्वदतो मम' । यंः । यः यकारादष्टमो हकारः सूर्यंतनयोऽ ⟨…⟩ निः रेफः दिनान्ते सवितृतेजसोऽसौ निक्षेपेण पित्र्यस्य धनस्य पुत्रे निनेन तत्सादृश्यादं ⟨…⟩ ौ सूर्यपुत्रत्वम् । वर्णैः सहिता सवर्णा 'अजामेकां लोहितशुक्लकृष्णाम्' इति श्रुतिप्रसिद्धा मूलप्रकृतिः, वाचकत्वेन पुत्रत्वोपचारादिप्रत्यये सति सावर्णिरीकारः तेन निर्बिन्दुको हींकारः सिद्धः, स मनुमन्त्रः कथ्यते नयोरभेदात् । तदुत्पत्तिं तदवतारान् गदतो मम मुखान्निशामयेति वर्णयन्ति । आर्षवाक्यानां सर्वंतोमुखत्वादस्तु कथक्तमेवैतत् । वयं तु ब्रूमः अम् गत्यादिष्विति धातोर्निशामयतीति व्युत्पत्त्या निशाम् चन्द्रो बिन्दुः, अयेत्येतावानेव इट्टकिट्टूकटी गतावित्यत्र प्रश्लिष्टस्येकारस्य रूपं, सूर्यतनयशब्द एव वाऽवृत्त्याविन्दुपरोऽपि; जलमण्डले सूर्यकिरणान व चन्द्रात्मतयां परिणामेन 'पतिर्जायां प्रविशती' ति न्यायेन चन्द्रस्य सूर्यपुत्रत्वात् 'नवो नवो भवति जायमानः' ⟨…⟩ मृचि योऽह्नां केतुरुषसामग्र उदेति स एव देवेभ्यो भागं विदधत् पुनः पुनर्जायमानश्चन्द्रमा भवतीति कथनाच्च । व चतुर्थस्वरस्य वर्णे वाच्ये स्त्रीलिङ्गाभावेन नदीसंज्ञाभावात्पञ्चम्यां य इत्येवंरूपम् ईकारादिल्यर्थः । दिग्योगपञ्चम्य' परत इत्यर्थः । परित्यज्येति ल्यब्लोपे वा पञ्चमी । तेन तत्परतो ऽष्टमो द्वादशस्वरः । बिन्दुः पूर्ववत् इति वाग्भवो॥ अपि च । यः अष्टम इत्येतयोरन्यतरस्य द्विरावृत्त्येकारात्परो ऽष्टम ईकारात्पूर्वः कार्य इति वा । ईकारादष्टमः तस्माविलोमाष्टम इति वा व्याख्येयम् । ततो मनुश्चतुर्दशस्वरः औकारः । तेनेयं त्र्यक्षरी त्रिपुरकंदाख्या विद्या । एतां प्रकृत्य जे 'एषा त्रैपुरकंदा स्यात्' इति वचनात् । तन्त्रान्तरे त्वस्या एव चेतनीति नाम । एतदुद्धारो योगिनीतन्त्रे 'शिवाष्टमं ादिबीजं भगस्य पूर्वाष्टमबीजमन्यत्। परं शिवान्तं मनुयुक् त्रिवर्णां संकेतविद्या गुरुवक्त्रगम्या' इति । 'शिवा' ईकारः शिव इति वा तस्या 'अष्टमं' तत्परतस्तमारभ्य वाष्टमं द्वादशस्वरात्मकं 'केवलं' बिन्दुरहितं 'भगस्य' ऐकारस्य एकारस्य वा मं' ततः पूर्वेषु तमारभ्य वा विलोमाष्टमं चतुर्थस्वरात्मकम् । शिवोनुस्वारोऽन्ते यस्य तत् । ततो 'मनुयुक्' चतुर्दशस्वरयक्षरीविद्या श्रीदेवत्या 'संकेतगम्या' गोपनीयेति तद्व्याख्यातारः । तेन 'ऐं ईं ओं' इति विद्यासिद्ध्यति । अपिच ः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः । हकारोऽन्त्यकलारूपो विशर्माख्यः प्रकीर्तितः । अकारादि हकारान्तं मातृकामण्डलं ' इत्यादिव्यवहाराल्लकारस्य लकारेन्तर्भावेन क्षकारस्य संयुक्तत्वेन पार्थक्याभावादूनपञ्चाशद्वर्णं मातृकामण्डलमिति पक्षे व्युत्क्रमेण गणनाथा चतुर्थंस्वरादष्टमः शकारः रेफेकारबिन्दवः पूर्ववदिति रमाबीजोद्धारः ॥ अपिच यो मनुः यकाराच्चतुर्दश ईकारो बिंदुश्चेति कामकलोद्धारः । अष्टम इति कादिनवकादिपरि रभाषयैकपञ्चाशदक्षरम् । स च क्षकारः रेफौकारबिन्दुभिर्योगे नारसिंहोद्धारः ॥ गदतो ममेत्यत्र गकारः स्वरूपम् । दतो दकारं पारित्यज्य ‘नम’ पञ्चकद्वयं दशमो लकारः ओंकारबिन्दुयोगे ाराहीबीजोद्धारः ॥ यो मनुरीकाराच्चतुर्देशः ककारः तस्य लकारेकारबिन्दुयोगे कामबीजोद्धारः । ग इति स्वरूपस्य बिन्दुयोगे गणपतिबीजोद्धारः सवर्णः सकारः । आत्मन एव पुत्रत्वविवक्षायां स्वार्थे पर्यवसन्न इण् । सूर्यतनयो यमो हकारः मनुरोकारः । तत्परतो विसर्गान्तस्याऽनचि चेति प्रश्लेषेण परायाः प्रासादस्य तयोर्योगयोरप्युद्धारा द्रष्टव्याः ॥ एवमन्यत्रापि'मेधासि देवि विदिताखिलशास्त्रसारा' इत्यत्र पादभेदेन वाक्-सर्व मङ्गला-लक्ष्मीणामुद्धारः । शास्त्रशब्दो वेदपरः । शास्त्रयोनित्वादिति ( वे॰ सू॰ २।३ अ॰ १ पा॰ १ ) व्याससूत्रादिषु व्यवहृतः । अखिलशब्देन त्रयी कथ्यते । तत्र व्यञ्जनानामदिवक्षितत्वादाद्यन्तयोरकारद्वयं मध्य इकारः सिद्धः । वेदत्रयाद्याक्षराण्यपि क्रमेण तथैव । तेषां मध्ये द्वयोः क्रमेण सन्धौ गुणे सत्येकारः अवशिष्टयोर्व्युत्क्रमेण सन्धौ वृद्ध्या ऐकारः । एवं सावस्क्रियपशुत्रयालम्भसाहित्यन्यायेन मध्यभागे मिलितैर्वेदत्रयाद्याक्षरैरेव वाग्भवबीजोत्पत्तेस्तन्त्रराजे स्पष्टं कथनात् । तदिदमा खिलशास्त्रसारत्वम् । एतेन ‘ऋक्सामयोर्यजुषि सन्निधिवशानवद्विदितत्रयीका आथर्वणादिकमवाप्य सुखीभवन्ति' इति वेदचतुष्टयमङ्गानि चाधिगतवानिति भगवतीपुराणकमित्यस्य शमिति । तत्प्रथमाक्षरमित्यर्थः । सुखीभवन्तीति इति तद्द्वितीयचरणे भवः शिवः । सकारः सागरो इति सर्वमङ्गलाह्वया दुर्गा । तदुत्तरार्द्धे 'श्रीः कैटभारिहृद्कण्ठरवेणैवोद्धृत्य तद्देवताख्यानस्थं विशेषणद्वयं कैटभारीपद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये नः ।' बिन्दुयोगं तन्त्रेणाह शशिमौलीति स्पष्टोऽर्थः ॥ अपिच । सह रः रेफः । स्वरादिमका स्वरेषु चतुर्थवर्ती आ च प्रसिद्धत्वात् ॥ 'स्वधा त्वमक्षरे नित्ये' इत्यत्र इति प्रणवमुक्त्वा अर्धमात्रस्थितानित्येत्यनेन कालीबीजप्रणइत्यनेन तदन्ते नादोऽप्युद्धृतः ॥ अपिच 'यस्याः प्रभावमतुलं भगवानन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिका' इत्यत्र नवार्णमन्त्रगतानां चतुर्विंशतिवर्णानामुद्धारः । मन्त्रे हि आकाराद्याश्चत्वारः स्वरा एकारादिद्वयं च । एतेष्वाकार ईकार ऐकारश्च द्विरावृत्ता इति नव स्वराः । चत्वारो बिन्दवः । कचडतामादिपञ्चकं हकारश्चेति दश व्यञ्जनानि । तत्र चकारो द्विरावृत्तः । विच्चे इति प्रथमचकारस्य तकाररूपत्वात् संहृत्य चतुर्विंशतिः । तेषु वमतुल्भिरित्यनेन व्यञ्जनचतुष्टयं पञ्चमस्वरो बिन्दुश्चेति षण्णां निर्देशः । अकारा उच्चारणार्थाः । भग एकारः वातीति वान् शत्रन्तः । तेन वायुर्यैकारः । अनन्त आकारः । ब्रह्मा ककारः । ह र इति स्वरूपम् । चकारोऽपि स्वरूपम् । वक्तुं वाग्भवम् ऐकारः तस्य द्विरन्वयः । आचण्डिकैः 'आकारादि द्भिरिकारान्तैः पञ्चभिरीकाराभ्यां च' संहिता सा चण्डिका, चण्डिकापदद्वयस्य तुर्यस्वरवाचकस्य विरूपैकशेषः इपदात् । स्वार्थे कप्रत्ययेनेकार एक एव । लं चं इति बिन्दुद्वयस्य द्विर्द्विरन्वयः । इत्थं चतुर्विंशतिवर्णाः । अनन्तादिपदत्रयस्य नवार्णम न्त्रद्रष्टृऋषिपरत्वेनापि पुनरन्वयादक्षराणि ऋषयश्च यस्या देव्याः प्रभा किरणसमूहः । बलं तत्त्वं च वक्तुं नालं वाचामगोचरः । साखिलजगत्परिपालनाय आसुरभयनाशाय च मतिं करोतु इत्यन्वयः । एवं तृतीयचरित्रे त्रिपाद्गायत्रीमन्त्रा विभागानु तुषङ्गोद्भवान्त्रिस्त्रिरावर्त्यमाना वक्ष्यन्ते ते च कात्यायनीतन्त्ररीत्या द्वाविंशतिरेव । तन्त्रान्तरेषु धृतिपुष्ट्योरधिकयोराम्नानाच्चतुर्विंशतिः । ते प्रकृतमन्त्रवर्णानामेकैकस्योद्धारकाः । परन्तु बहुकोशालेखनादिक्लेशसापेक्षत्वान्नेह तदायासः प्रदर्श्यते ॥ एवमन्यत्राप्यम्ब वानुग्रहपात्रतातारतम्येन सर्वमिदं स्तोत्रं मन्त्रोद्धारगर्भितमेव दृश्यते। उक्तं च वेदागमे 'निर्विशेषपरा मन्त्राः सविशेषपराश्च ये । प्रत्यध्यायं निगूढास्ते तेनेयं सर्वतः परा' इति । ईदृशाबह्वाशयेनैव 'चक्षुष्मन्तोऽनुपश्यन्ति नेतरेऽतद्विदो जनाः' इति रहस्योक्ति कितर्दृष्टव्येति दिक् ॥ अयं च मन्त्रः स्वतन्त्रोपास्यः सप्तशत्यङ्गं चेति विप्रकारोपास्तिमस्य केचिदाहुः वैपरीत्यात् । सप्तशत्यैव तु तद्विद्योपास्येति स्पष्टीकरिष्यतेऽनुपदमेव । उभयथापि नवाणस्य संक्षेपेण साधनप्रकार इह वक्तव्य एवेत्युच्यते ॥ 'नवाक्षरस्य ऋषयो ब्रह्मविष्णुमहेश्वराः । छन्दांस्युक्तानि मुनिभिर्गायत्र्युष्णिगनुष्टुभः ॥ देव्यः प्रोक्ता महापूर्वाः काली लक्ष्मीः सरस्वती। नन्दाशाकम्भरीभीमाःशक्तयोऽस्य मनोः स्मृताः ॥ स्याद्रक्तदन्तिकादुर्गाभ्रामर्यों बीजसन्ततिः । अग्निर्वायुः सूर्यस्तत्त्वं फलं वेदत्रयोद्भवम् ॥ सर्वाभीष्टप्रसिद्ध्यर्थे विनियोग उदाहृतः । ऋषिच्छन्दोदेवतानि शिरो-मुख-हृदि न्यसेत् ॥ शक्तिबीजानि स्तनयोस्तत्त्वानि हृदये पुनः । ह्रीं चण्डिकायै व्यस्तेन सर्वेण च षडङ्गकौ' ॥ एते पञ्चवर्णाः समस्तश्चैक इति षड्भिरङ्गुष्ठादिन्यासो हृदयादिन्यासश्च कार्यं इत्यर्थः। 'खड्गिनी शूलिनीत्यादि पठित्वा श्लोकपञ्चकम् ष्ण ⟨…⟩ रं बीजं ध्यात्वा सर्वाङ्गके न्यसेत्' ॥ 'आद्यं' वाग्भवं, श्लोकास्तु सप्तशतीस्तोत्रस्थाः । 'विश्वातीतमहामन्त्रात् प्रोच्य तुष्यम् । ध्यात्वा सूर्यनिभं बीजं द्वितीयं सर्वतो न्यसेत्' । 'द्वितीयं' ह्ल्लेखा । क्वचित्तु चरणत्रयस्यान्यथा पाठः 'शूलिन ी देवि' इत्यादिश्लोकचतुष्टयं पठित्वा सूर्यसदृशमिति तेन तदेव विश्वातीतमहामन्त्रपदस्य व्याख्यारूपम् । सूर्यस्य द्वादस्तापिन्याद्यः । तासु ककारादीनां क्रमेण द्वादशानां भकारादीनां ं व्युत्क्रमेण द्वादशानां च वर्णानां युग्मशो योगस्तन्त्रेषु ः । तासु नवम्यां विधानाख्यां कलायां ज्ञकारतकारयोर्योगसत्त्वेपि प्रकृते विश्वापदेन तकार एव विवक्षितः । तेन तयं श्लोकमारभ्येत्यर्थः । कयापि विधया सप्तशत्यां तादृशस्य श्लोकमन्त्रान्तरस्याऽभावादेव नातिप्रसक्तिः । 'एकं जग्राह इति श्लोके द्वात्रिंशदक्षरात् परतो व्यञ्जनरूपो वा श्रूयत एव । 'इत्थं निशम्य देवानां वचांसि मधुसूदनः' इति श्लोके थगेन श्रूयते । 'हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् । अभ्यधावन्निशुम्भोऽथ' इत्यत्राभ्यधावदिति पदच्छेददशायां तकाररस्त्येव, 'चुक्षुभुः सकला लोकाः' इति श्लोकस्तु पूर्वोत्तरमन्त्रयोरुत्तरपूर्वार्धरूपत्वादखण्डो मन्त्र एव न भवतीति कयापि रस्त्येव, 'चुक्षुभुः सकला लोकाः' इति श्लोकस्तु पूर्वोत्तरमन्त्रय ⟨…⟩ इत्यर्धसद्भावपक्षे तु चुक्षुभुरित्यस्य निरासः । साम्प्रदायिकतकाराभावः शूलेनेति श्लोकमन्त्र एव, 'ततो देवा ददुस्तस्या' ' इत्यर्धसद्भावपक्षे तु चुक्षुभुरित्यस्य निरासः । साम्प्रदायिकानत एवेति गुप्तं रहस्यम् । 'सर्वस्वरूप इत्यादिश्लोकानां पञ्चकं पुनः । पठित्वा स्फटिकाभासं तृतीयं स्वतनौ न्यसेत्' । ' कामबीजम् । अत्र प्रथमतृतीययोर्बीजयोर्महासरस्वतीमहाकालीरूपयोः श्वेतकृष्णरूपत्वेपि वैपरीत्येन रूपनिर्देशो विकाभेदसत्त्वेन रहस्ये वक्ष्यमाणं सरस्वत्याः कृष्णाङ्गविष्णुजनकत्वं काल्याः श्वेताङ्गशिवजनकत्वं चाभिप्रेत्येति बोध्यम् । षडङ्गं कुर्यात् विभक्तैर्मूलमन्त्रकैः । एकेनैकेन चैकेन चतुर्भिर्युगलेन च । समस्तेन च मन्त्रेण कुर्यादङ्गानि षट् सुधीः' ॥ यानम् । 'खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषाभृताम् । नीलाश्मद्युतिाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥ १ ॥ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं ण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सौरिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २ ॥ घण्टां शूलहलानि शङ्खमुसले चक्रं धनुः सायकान् हस्ताब्जैर्दधतीं घनान्तच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३ ॥' यात्वा मनसांऽतर्यागं कृत्वा बहिर्यागमपि यन्त्रे कुर्यात् । यन्त्रं यथा 'लिखेदष्टदलं पद्मं कुङ्कुमागरुचन्दनैः । पद्ममध्ये लिं षट्कोणं त्रिचण्डिकामयम् । षट्कोणचक्रमध्यस्थमाद्यं बीजत्रयं न्यसेत् । पूर्वादिकोणषट्के तु बीजान्यन्यानि विन्यसेत्' । नित्यनेन अन्येषामपि बिन्दुयोगेनैव लेख उक्तः । लेखस्तु प्रादक्षिण्येन दक्षिणद्वामान्तमिति ज्ञेयम् । 'एवं कृत्वा जपेल्ल ⟨…⟩ कं तद्दशांशतः पायसान्नेन जहुयात्पूजिते हेमरेतसि' । इदमेकं पुरश्चरणम् । अथवा 'आश्विनस्य सिते पक्षे आरभ्याग्निसुधीः । अष्टम्यन्तं जपे ⟨…⟩ दशांशं होममाचरेत्' । अग्नितिथिः प्रतिपत् 'प्रथमां पिबते वह्निर्द्वितीयां पिबते इत्याद्युक्तेः । उभयत्र मन्त्रान्ते स्वाहायोजनेन होमः । तर्पणं तु मन्त्रान्ते चण्डिका तृप्यतीति योजनेन । अयमुभयविपि जपः सप्तशतीस्तोत्रेण संपुटीकृतो विधेयः । तदुक्तं डामरतन्त्रे 'मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठन् । पुटितं न्त्रस्य जपेनाप्नोति वाञ्छितम्' इति । पुटितमिति पाठे क्रियाविशेषणम् । 'पुटितं' स्वसंपुटाकारता । तथा च स्तवो यथा न्त्रजपस्य संपुटाकारो भवति तथा पठनान्मूलजपस्य यद्वाञ्छितं फलं तत्सिध्यतीत्यर्थः । ततश्च स्तवीय ऋष्यादिन्यासचरित्रत्रयं पठित्वा मध्ये स्वसङ्कल्पितसङ्ख्याऽनुसारेण सहस्रादिसङ्ख्याकनवार्णं जपित्वा पुनश्चण्डीस्तवं पूर्ववत् पठेत् । वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्रं जप्त्वा निवेदनादिकं कुर्यात् । अयं जपोऽङ्गभूतो न प्रधानसङ्ख्यायामुपयुज्यत इति ⟨…⟩ ः । तदप्युक्तं तत्रैव चरित्रत्रयस्य ऋष्यादीनुक्त्वा । 'एवं संस्मृत्य ऋष्यादीन् ध्यात्वा पूर्वोक्तमार्गतः । सार्थस्मृतिं पठेच्चतवं स्पष्टपदाक्षरम् । समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम् । जपेद्दशशतं मूलं देवतायै निवेद्येत्' इत्यादि । केचिमूलमन्त्रस्य जपेन पुटितं चण्डीस्तवं पठन्निति प्रथमश्लोकं योजयन्तश्चरमश्लोके पुनर्विधानं संख्यामात्रपरमिति मन्यमानाः तीस्तोत्रस्यैव मूलेन संपुटिताकारो विधीयत इत्यङ्गाङ्गिभाववैपरीत्यमिच्छन्ति । तद्युक्तम् । बहुषु तन्त्रेषु नवार्णं प्रकृत्य करणे सप्तशतीपाठविधानेन नवार्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात् । तत्र विद्यमानाया अपि स्तोत्रफलश्रुतेजफलश्रुतेर्वसन्तमेवर्तुनाम च रुन्ध इत्यस्या इवाविवक्षितार्थकत्वात् । मरीचिकल्पे-'रात्रिसूक्तं जपेदादौ मध्ये चण्डीस्तवं । प्रान्ते तु जपनीयं वै देवीसूक्तमिति क्रमः । एवं संपुटितं स्तोत्रं पूर्वोक्तफलदायकम्' इत्यनेन वैदिकसूक्तद्वयेन तायाः सप्तशत्या विधानाच्च । परन्त्वनारम्भणीयेष्टिवन्नवार्णस्य स्तोत्रजपप्रारम्भमात्राङ्गत्वं जपाधिकारितावच्छेदकत्वं बोध्यम् । रहस्यं तु कीलकाध्याये स्पष्टीभविष्यति । अत्रापेक्षितः सामान्यविधिरन्ये विशेषा अपि कल्पवल्लीकारोक्ता तत एव सर्वमवगन्तव्यम् । इति नवार्णनिर्णयः ॥ ॥ द्वितीयस्तु चारित्रत्रयात्मकः श्लोकसमूहरूपो मन्त्रः । स च वामनदेवीभागवतमार्कण्डेयपुराणादिषु लक्ष्मीतन्त्रादिषु च बहुविध उपलभ्यते । तथापि मार्कण्डेयपुराणस्थ एव त्रिसप्तलक्ष्यारं षडशीतितमाध्यायान्तमभिव्याप्तः 'सावर्णिः सूर्यतनयः' इत्यारभ्य 'सावर्णिर्भविता मनुः' इत्यन्तत्रयोदशभिरध्यायैः च्छिन्नः श्लोकसमूहात्मको मालामन्त्रत्वेन ग्राह्यः । पूर्वोक्तडामरतन्त्रवचनात् । । वाराहीतन्त्र-कात्यायनीतन्त्र-मरीचितन्त्र-हरगौ ⟨…⟩ तन्त्र ⟨…⟩ तन्त्रादीनां बहूनामेक्यकण्ठ्या च तस्यैवात्युत्तमत्वसिद्धेः । [ गुप्तवत्युपोद्घातः द्वादशेऽध्याये प्रदर्शयिष्यते । तन्त्रान्तरेषु च बहवो विधयः तस्य पुरुषार्थत्वेन कृतार्थत्वादिना च पाठादिविधिमूल एव ⟨…⟩ न्यूनत्वात् । नापि कवचादित्रयरहस्यत्रययोर्मेलनेन अस्य सप्तशतीति व्यवहारस्तु न श्लोकसंख्यया । तेषां षट्मानं सतीनां देवीनां प्रतिपादनादेव तथा व्यवहारो नेयः । सङ्ख्याधिक्यापत्तेः । तस्माच्छकारसकारयोरभेदात् ससप्तानामेव प्राधानिकरहस्ये प्रतिपादनादिति केचित् । । तुरीयैका महाकाल्यादित्रयं तन्निर्मितमिथुनत्रये देवीत्रयं चेति तेषामपि सप्तानां रूपाणां मन्त्र एव प्रतिपादनेन विनिगमनाविरहात् तच्चिंत्यम् । नन्दजारक्तदन्तीशताक्षीशाकम्भरीदुर्गाभीमाभ्रामरीत्येमन्त्रस्य ⟨…⟩ सप्तशतधा विभजनाच्छतरुद्रियस्येवैकानेकमन्त्रात्मकत्वे संख्याधिक्यापत्तेः । तस्माज्जपे एकमन्त्रात्मकस्यापि माला ⟨…⟩ ावभागेऽपि द्व्या ⟨…⟩ न्त्ययोरिवैकस्य श्लोकस्यावृत्तेरपि विरोधाभावात्तथा व्यवहारोपपत्तिः । मन्त्रविभजनेऽपि सुरा' इत्यादिना कवचमेलनाभावेऽपि सप्तशतीत्वप्रतीतेः सुवचत्वाद्वा । तथापि 'जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं भावाच्चोक्त एव प्रकारो निर्दोषः । 'कवचं बीजमादिष्टमर्गलाशक्तिरिष्यते कीलकद्वयप्रतिपाद्यस्यार्थस्याङ्गत्वेऽपि तयोरङ्गत्वे रहस्यवदेव मानागौ ⟨…⟩ पादधृतवचनादज्ञत्वेऽप्यदोष इति । यानि तु क्वचिद्देशे । कीलकं कीलकं प्राहुः सप्तशत्या महामनोः' इति कात्यायनी ⟨…⟩ सार्धानि षट्शतानि क्वचित्तदधिकान्यपि श्लोकानां पठ्यन्ते तानि कात्यायनी भगवत्येव जानाति परन्तु तन्त्रत्रयेऽप्यदृष्टानीति दिक् । एतस्यैवोत्तमत्वं तु तन्त्रान्तरे 'यथाऽश्वमेधः क्रतुषु देवानां च यथा हरिः । स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः'। तत्रापि कलावतिप्रशस्तः 'कलौ चण्डीविनायकौ' इति वचनात् । वाराहतन्त्रे सर्वेषां स्तोत्राणां परशुरामशापमुक्त्वा तद्विरहितानि कतिचिद्गणितानि । 'भीष्मपर्वणि या गीता सा प्रशस्ता कलौ युगे । विष्णोर्नामसहस्राख्यं महाभारतमध्यगम् । चण्ड्याः सप्तशतीस्तोत्रं तथा नाम सहस्रकम्' इत्यादि । भार्गवाख्येन रामेण शासन्यन्यानि कारणादित्यन्तेन । यद्यपि तन्त्रान्तरेऽस्यापि स्तोत्रस्य शिवशापः कीलनं चेति सिद्धिनिरोधकावुक्तौ तथापि तत्रैव शापोद्धारोत्कीलनयोः कर्मविशेषयोस्तदज्ञत्वेन सकृत्करणविधानादकरणे सिद्धिविरहोक्त्या तदावश्यकत्वपरौ तावर्थवादौ । तत्र शापोद्धारो यथा । त्रयोदशप्रथमो द्वादशद्वितीयौ एकादशतृतीयौ दशमचतुर्थौ नवमपञ्चमावष्टमषष्ठावऽध्यायौ पठित्वा सप्तममध्यायं द्विःपठेदित्याकारकः प्रयोगः । उत्कीलनं यथा । आदौ मध्यमचरित्रं पठित्वा ततः प्रथमचरित्रं ततस्तृतीयचरित्रं पठेदित्याकारकः । 'अन्त्या १२ चा १ कं १२ द्वि २ रुद्र ११ त्रि ३ दिग १० ध्यं ४ के ९ चि ५ भ ८ स्तवः ६ । अश्वो ७ ऽश्व ७ इति सर्गाणां शापोद्धारे मनोः क्रमः । उत्कीलने चरित्राणां मध्याद्यान्त्यमादि क्रमः' । अङ्को नवकः । इषुः पञ्चमः । इभोऽष्टमः । 'ददाति प्रतिगृह्णाति नान्यथैषा प्रसिद्ध्यति' इति विहितं दानप्रतिग्रहनामकं महाकालेन तु कीलकाध्यायव्याख्यावसरे विशदीकरिष्यते । एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमं कलौ शीघ्रसिद्धिदमिदमिति सिद्धम् । एतद्वाचनिकम ⟨…⟩ वाराहीतन्त्रे 'यावन्न पूर्यतेऽध्यायस्तावन्न विरमेत्पठन् । यदि प्रमादाद्ध्याये विरामो भवति प्रिये । पुनरध्यायमारभ्य पठेत्सर्वं मुहुर्मुहुः । अनुक्रमात्पठेदेव शिरःकम्पादिकं त्यजेत् । न मानसं पठेत्स्तोत्रं वाचिकं तु प्रशस्यते' ॥ कण्ठतः पाठाभावे तु पुस्तकोपर्यपि वाचयेत् । तल्लेखनेऽपि विशेषः 'न स्वयं लिखितं स्तोत्रं नाब्राह्मणलिपिं पठेत्' इति । यत्तु 'आधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः । हस्तसंस्थापनादेव भवेदर्धफलं ध्रुवम्'इति । तस्य व्यवस्थापि तत्रैव 'पुस्त ⟨…⟩ ऽवाचनं हस्ते सहस्रादधिकं यदि । ततो न्यूनस्य तु भवेद्वाचनं पुस्तकं विना' । सहस्रान्न्यूनमन्त्रस्य पाठसत्त्वे तु पुस्तकं विनैव वाचनम् । तदभावे आधारे पुस्तकस्थापनेनैव वाचनम् । सहस्राधिकस्य तु पाठसत्त्वेप्याधारस्थापितपुस्तकोपर्य्येव वाचनमिति वचनार्थः । प्रकृतस्तोत्रस्य सहस्रान्न्यूनत्वात् 'ततः कृताञ्जलिपुटः स्तुवीत चरितैरिमैः' इति वैकृतिकरहस्ये विधानाच्च पाठाभावे पुस्तकस्याधारस्थापनेनैव वाचनम् । कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया पठनमुक्तमिति द्रष्टव्यम् । अत्र सहस्रशब्देन द्वात्रिंशत्स्वरात्मकस्यैकैकानुष्टुत्वकल्पनेन तादृशानुष्टु ष्टुप्छन्दः सहस्रं ज्ञेयमिति स्पष्टम् । शाक्तिसङ्गमतन्त्रराजे-'द्वात्रिंशतः स्वरैर्युक्त एको ग्रन्थो निगद्यते । स एव गदितः श्लोकस्तारानेत्रसमुद्भवः' इत्यादिना तेन गद्यात्मकमालामन्त्रेष्वप्यस्य निय ⟨…⟩ स्य प्रसरो ज्ञेयः । स्तोत्रपूर्वोत्तरभागपाठाभावे निष्फल्यादिवचनानि शाक्तिसङ्गम एव द्रष्टव्यानि ॥ 'ऋषिच्छन्दोदेवतादि पठेत् स्तोत्रं समाहितः । यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत्' । डामरे-'सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः । छन्दो गायत्रमुदितं महाकाली तु देवता ॥ वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् । मध्यमस्य चारित्रस्य मुनिर्विष्णु ⟨…⟩ दाह्रतः ॥ उष्णिक्छन्दो महालक्ष्मीर्देवता वीजमद्रिजा । वायुस्तत्त्वं धनप्राप्त्यै विनियोग उदाहृतः । उत्तमस्य चारित्रस्य क्त्युपोद्धातः ] गुप्तवत्यादिषट्टीकासंवलिता । १५ शङ्कर ईरितः ॥ त्रिष्टुप् छन्दो देवतास्य महापूर्वा सरस्वती । कामो बीजं रविस्तत्त्वं कामार्थे विनियोजनम् ॥ ह्रीं नते व्यस्तेन समस्तेन षडङ्गकौ ।' वाक् अद्रिजा काम इति नवार्णप्रथमबीजत्रयध्यानादिकं नवार्णवत् । अस्य पुरश्चरणस्वरूपं कल्पे—'कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी । वृद्ध्यैकोत्तरया जाप्यं पूर्वसंपुटितं तु तत् । एवं देवि मया प्रोक्ताः णिकः क्रमः । नदन्ते हवनं कुर्यात्प्रतिश्लोकेन पायसम् । रात्रिसूक्तं प्रतिऋचं तथा देव्याश्च सूक्तकम् । हुत्वाऽन्ते तोत्रमादौ पूजादिकं मुने' इति । पूर्वाभ्यां पूर्वोक्ताभ्यां रात्रिसूक्तदेवीसूक्ताभ्यां संपुटितम् । प्रतिश्लोकेनेति मन्त्रविक्षणम् । काल्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादि ⟨…⟩ विधिं प्रति वाक्यशेषत्वेन तेनैव वैधपदस्यार्थनिर्णयावात् । यत्र दुखेनेत्यादेः स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषतास्वीकारेण स्वर्गपदार्थनिर्णयस्य वैदिकसम्मतत्वात् । या तु स्तोत्रस्य त्रिरावृत्तिरूपेति वृद्धाः । रात्रिसूक्तदेवीसूक्ते ऋग्वेदे शाकल्यसंहितायां प्रसिद्धे । तथेत्यनेन जपोक्तष्टाकारो निर्दिश्यते । तच्छब्दस्य पूर्वपरामर्शित्वात् । तस्य श्लोकपूरणमात्रार्थत्वे तु द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तमोत्तरमेव पाठक्रमानुसारेण होमः । 'विश्वेश्वरीं जगद्धात्रीम्'इति स्तवो रात्रिसूक्तम् । ‘नमो देव्यै महादेव्या’ इति स्तवो मिति कश्चित् । तन्न । प्रतिश्लोकेन प्रतिऋचमिति प्रतिनियतनिर्देशविरोधात् । ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव प्रसिद्धेः । मत्स्यसूक्तमित्यादिकाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः । तेन ऋक्पदस्य श्लोके क्तिरपि साहसमात्रम् । समुद्रमनोध्यानादिविधौ बृहद्रथंतरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणाव्यवस्थाया इव । ल्पनाया एव शक्तेर्व्यवस्थादाढर्यस्य कैमुतिकन्यायेनैव सिद्धेः । यदि त्वेवमालोच्यते । 'विश्वेश्वर्यादिकं सूक्तं दृष्टं पुरा । स्तुतये योगिनिद्राया मम देव्याः पुरन्दर । महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तथा । देव्या ययादिकं दिव्यं महर्षिभिः । देवि प्रपन्नार्तिहरे प्रसीदेत्यादिकं तथा । नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् । अमुष्याः स्तुतये द्यैः सकलैः सुरैः ॥ नमो देव्यादिकं सूक्तं सर्वकालफलप्रदम्' इति विशकलितवेषेण । पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारतेषां स्तोत्राणामपौरुषेयत्वसिद्धान्ताच्च सूक्तर्चव्यवहारो युज्यत एवेति । तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति र्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः । तस्य च योगनिद्रात्मकरात्रिदैवरीचितन्त्रे रात्रिसूक्तपदेन निर्देश इति समाधेयम् । परंत्वेत्तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकोऽङ्गहोमदशायां न । स्तोत्रान्तिमश्लोकस्य द्वेधाविभागोऽपि न कार्यः । देवीसूक्तेऽपि त्रेधाविभागोऽङ्गहोमे न विधेयः । प्रधानविविधावन्वयेन प्रतिऋच्चमिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम् । एवं सिद्धमन्त्रस्य क्रोडतन्त्रे । वर्तनं देवि हयमेधेन संमितम् । त्रिरावृत्त्या लभेत्कामान्पञ्चावृत्त्या रिपून् जयेत्' । काम्ये तु प्रयोगे विशेषः । कात्या‘एकावृत्तादिपाठानां प्रत्यहं पठतां नृणाम् । संकल्पपूर्वं संपूज्य न्यस्याङ्गेषु मनून्सकृत् । पश्चाद्वलिप्रदानेन फलं प्राानवः ।’ बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्तः कालिकापुराणे द्रष्टव्यः । तत्राशक्तानामपि तत्रैव कूष्माण्डमिक्षुदण्डं ासवमेव च । एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा’ । छागसमाः पञ्चविंशतिवर्षावस्थायितृप्तिजनकाः । 'अनां रुधिरैः पञ्चविंशतिवार्षिकीम् । तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा' इति तत्रैवोक्तेः । वस्तुतस्तु न हिंस्यादिति संकोचमन्तरेणैव छागसमानतृप्तिसम्भवे छागवलिर्ब्राह्मणैर्न कार्यं एव । एवं मद्यासवे अपि न देये।'वरं प्राणाः प्रगच्छन्तु नार्पयेत् सुराम्’ इति ‘ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते 'इति च बृहत्सङ्गमतन्त्रवचनात् । अत एव तत्प्रतिनिधिरपि पुराणे स्मर्यते ‘अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुन-। नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु' इति । कात्यायनी , ‘उपसर्गोपशान्त्यर्थं त्रिरावृत्तं पठेन्नरः । ग्रहदोषोपशान्त्यर्थं पञ्चावृत्तं वरानने । महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत्' फलभेदेन संख्याभेदाननेकानुक्त्वोपसंहृतम् ‘अथवा बहुनोक्तेन किमनेन वरानने । चण्ड्याः शतावृत्तिपाठात् सर्वाः सिध्ययः’ इति । इतोऽप्यधिकाः सहस्रचण्ड्यादयोऽन्यत्र द्रष्टव्याः । हरगौरीतन्त्रे । 'श्रीकामः पुत्रकामो वा सृष्टिमार्गक्रमेण तु। ादिमारभ्य शुम्भदैत्यवधावधि । आदिमारभ्य प्रजपेत्पश्चाच्छेषं समापयेत् । शान्त्यादिकामः सर्वत्र स्थितिमार्गक्रमेण र्णिः सूर्यतनयः सावर्णिर्भविता मनुः । संकटे चान्त्यमारभ्य पश्चादादिसमापयेत् । इत्यादिकस्य कामनाभेदेन पाठवैचितिपयश्लोकमात्रपाठेन तत्तत्प्रयोगवैचित्र्यस्य च विस्तरो डामरादितन्त्रस्थो ग्रन्थान्तरेभ्य एवावगन्तव्यः । केरलास्तु ान् दिवसे एकैकमेव चरित्रं पठेदिति दिनत्रयेनैकावृत्तिरित्येकः ः पक्षः । चन्द्रा १ ऽक्षि २ भू १ वेद ४ करे २ न्दु १ सङ्ख्याकानध्यायान् क्रमेण दिनभेदेन पठेदिति सप्तभिर्दिनैरेकावृत्तिरित्यन्ये पक्ष इत्याहुः । अत्र द्वितीयमेव पक्षं सङ्ख्याकानध्या यान् क्रमेण दिनभेदेन पठेदिति सप्तभिर्दिनैरेकावृत्तिरित्यन्ये पक्ष इत्याहुः । अत्र द्वितीयमेव पक्षं विप्रकारः' इति सप्ताक्षर्यां संगृह्णन्तो बहवस्तदनुयायिनो ऽनुतिष्ठन्ति च । ‘कटपयवर्गैर्भवैरिह पिण्डान्त्यैरक्षरैरङ्काः । शून्यं ज्ञेयं तथा स्वरे केवले कथितः' इति प्रसिद्धपरिभाषया पकार—यकार—ककारा एकस्मिन् ठफरेफा द्वयोः विशब्द ⟨…⟩ चित इति । तत्र मूलतन्त्राणि त एव जानन्तु सन्त्यपि तानि तन्त्रवचनानि एकदिनेनैकावृत्त्यशक्तपराणि । अस्ति ोऽप्यस्य प्रयोगः कात्यायनीतन्त्रे मन्त्रविभजनान्ते, 'होमे स्वाहान्तिमा एते पूजायां तु नमोऽन्तिमाः । तर्पणे तर्पया ⟨…⟩ ह्नीया बुधैर्मताः' इति वचनात्सप्तसप्तब्राह्मणभोजने प्रतिव्यक्त्यैकैकमन्त्रेण काण्डानुसमयेन षोडशोपचाराणां पदा-