सप्तशतीमन्त्रविभागः

मूलम्

अस्मिन्मासि मया देवि तुभ्यमेतत्समर्पितम् । इति ध्यात्वा ततो देव्याः प्रसादात्प्रतिगृह्य च ॥ १२ ॥ विभज्य पञ्चधा सर्वं ⟨…⟩ यंशान्स्वार्थं प्रकल्पयेत् । देवपित्रातिथीनां च क्रियार्थं त्वेकमादिशेत् ॥ १३ ॥ एकांशं गुरवे दद्यात्तेन देवी प्रसीदति । तस्य राज्यं बलं सैन्यं कोशः साधु विवर्धते ॥ १४ ॥ नानारत्नाकरः श्रीमान्यथा पर्वणि वारिधिः । ज्ञात्वा नवाक्षरं मन्त्रं जीवब्रह्मसमाश्रयम् ॥ १५ ॥ तत्त्वमस्यादिवाक्यानां सारं संसारभेषजम् । सप्तशत्याख्यमन्त्रस्य यावज्जीवमहं जपम् ॥ १६ ॥ कुर्वंस्ततो न ममादं मामुयामिति निश्चयम् । कृत्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ॥ १७ ॥ नाहं ब्रह्म निराकुर्यां मामा ब्रह्म निराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम ॥ १८ ॥ इति वेदान्तमूर्धन्ये छान्दोग्येऽस्य प्रपञ्चनात् । प्रारभ्य तत्परित्यागो न तस्य श्रेयसे मतः ॥ १९ ॥ नाब्रह्मवित्कुले तस्य जायते च कदाचन । न दारिद्र्यं कुले तस्य यावत्स्थास्यति मेदिनी ॥ २० ॥ प्रतिसंवत्सरं कुर्याच्छारदं वार्षिकं तथा । तेन सर्वमवाप्नोति सुरासुरसुदुर्लभम् ॥ २१ ॥ अन्यच्च यद्यत्कल्याणं जायते तत्क्षणे क्षणे । सत्यं सत्यमिदं सत्यं गोपनीयं प्रयत्नतः ॥ २२ ॥ पुत्राय ब्रह्मनिष्ठाय पित्रा देयं महात्मना । अन्यथा देवता तस्मै शापं दद्यान्न संशयः ॥ २३ ॥ अत्रायं भावः । पित्रर्जितं विना स्वेनैव मन्त्रप्राप्त्युत्तरं यद्यनूतनमर्जितं तदर्जनं माससम्बन्धिकृष्णचतुर्दश्यष्टम्यन्यतरदिवसे देवीनिकटे स्थित्वा देशकालौ संकीर्त्य दानप्रतिग्रहाख्येन कर्मणा देवीं प्रीणयिष्य इति सङ्कल्प्य त्वत्प्रसूत इत्यादिश्लोकत्रयमर्थानुसन्धानपूर्वकं पठित्वा राष्ट्रं बलं कोशगृहमिति श्लोकमन्त्रेण देवीचरणयोर्दत्तमिवानुसन्धाय "प्रसन्नया देव्याज्ञप्त इव पुनः प्रतिग्रहं विभाव्य तन्मध्ये पञ्चमं भागं गुरवे तत्पुत्रादिभ्यो वा दत्त्वावशिष्टं चतुर्थांशं स्वेन क्रियमाणपञ्चयज्ञादिधर्मव्ययार्थं निष्कास्येतरत्स्वार्थे यथेच्छं विनियोजयेत् । अत्रामान्तश्चान्द्रमासो ग्राह्यः । अमायामार्जितस्य तूत्तरमासे दानम् । मन्त्रे पूर्वे मासांत्यूहो यथान्यायं मन्त्रेण दानादावप्यूह्यः । इति दानप्रतिग्रह एकः । सर्वमन्त्रसाधारण्येन मन्त्रस्वीकारादि यावदायुषो भागत्रये प्रथमाद्येकैकभागेष्वेवोत्पन्नभक्त्यतिशया उपासकास्त्रिविधा अधममध्यमोत्तमत्वेन तन्त्रेषु गणिताः तद्विदां स्पष्टाः । प्रकृते तदपवादमाह । ज्ञात्वेति । नवार्णमन्त्रं स्वीकृत्य महावाक्यसंवादिनं तदर्थं च गुरोर्बुद्ध्वाधिकृतः सन्नद्यावधि यावज्जीवं सप्तशतांस्तवपाठं प्रमादेन सकृदपि न त्यजेत् इति दृढं सङ्कल्प्य तथैवानुतिष्ठेत् । अयं ज्ञानारम्भात्यागो द्वितीयः । तत्र छान्दोग्यवाक्यं भाणयति । नाहमित्यादिना । आश्विनशुद्धप्रतिपदि चैत्रशुद्धप्रतिपदि च संकल्प्य नवम्यन्तं तत्कल्पोक्तविधिना पूजामहोत्सवो यथाशक्ति वा कर्तव्य इति च द्वयम् । एवं चत्वारि कार्याण्यप्रमादेन कुर्वतश्चण्डिकोपासकस्यैव सर्वाः सिद्धयः अन्यने दप्यन्यथात्वे हानिरेवेति ७ ॥ इति श्रीगुप्तवत्यां रहस्यतन्त्रस्थकीलकविवरणपटलः ॥ सप्तशती मन्त्रविभागः । अथायं सप्तशतीमन्त्रः श्लोकसंख्याभेदेन त्रिविधोऽपि व्यवस्थैषात्र त्रिभिस्तन्त्रैरवलम्बितोऽपि न भिद्यते । शाखान्तराधिकरणन्यायेन कर्मण इव सर्ववेदान्तप्रत्ययन्यायेन विद्याया इवास्य मन्त्रस्याप्यैक्यात् । ईषद्वैलक्षण्यस्याप्रयोजकत्वात् । मनुचन्द्रादिश्रीविद्याभेदानां तन्त्रभेदेन विलक्षणतयोद्धृतानामर्थैक्यस्य मन्त्रविदां समततायाः सेतुबन्धेऽस्माभिर्वर्णनाच्च । अनुष्ठाने परमेच्छिको विकल्पः प्रामाण्याविशेषात् । तथापि यामलादितन्त्रावलम्बितपाठयोर्मध्ये सप्तशतसंख्यापूर्त्यर्थमेकत्र द्वात्रिंशद्वारं नवार्णः शरणीक्रियते । अन्यत्र श्वेताननेत्यादिनामषोडशकं द्विः शरणीक्रियत इति तयोः सकारादिनुकारान्तः सप्तशतभेदो मनुरिति गौण्या सृष्टिन्यायेन व्यपदेशो दुर्वारः । कात्यायनीतन्त्रोक्तपाठावलम्बे तु मुख्य एव ⟨…⟩ एतदन्तर्गतमन्त्रामेलनादित्यादिविशेषमध्यवस्य बहुभिः शिष्टैरयमेव पक्ष आहृतः । सकारादिरिति तु मार्कण्डेयपदादिमकारोपलक्षणम् । प्रधानमन्त्राभिप्रायेण वा । ण्डेयोवाचपदाङ्कितमन्त्राणां तृतीयपटले पाञ्चमिकविभागसंख्यापिण्डकथनावसरेऽङ्गमन्त्राश्च ते नवेति व्यवहारदर्शनात् । गंकारादिरित्येव वा तत्र मुख्यः पाठः । परन्तु तन्त्रोदितमन्त्रविभागाशयं न्यायगर्भितमजानानैः कैश्चित्क्वचित्क्वचिदन्यथापि विभागो वर्णित इति तदपनोदाय तन्त्रार्थनिष्कर्षेण मन्त्रविभागं संग्रहपूर्वकं व्याख्यास्यामः । तत्र कात्यायनीतन्त्रेऽस्मिन्विषये विंशतितमाद्याश्चत्वारः पटलाः षष्टिश्लोकास्तेष्वाद्ये प्रथमाध्यायस्थमन्त्रविभजनपरे पटले त्रयोदशश्लोकाः । ईश्वर उवाच । "मार्कण्डेय उवाचाद्यो मन्त्रः श्लोकात्मकास्ततः । व्योमादिवर्णमारभ्य द्वितीयस्वरसंयुतम् । नृपमित्यन्तिमा मन्त्रा भवन्त्यष्टादश प्रिये ।" व्योम हकारः तस्यादिवर्णः सकारः तं द्वितीयेन आकारस्वरेण संयुतं सावर्णिपदस्थमारभ्य प्रश्रयावनतो नृपमित्यन्तिमो येषां ते मन्त्रा अष्टादश भवन्ति । प्रिये इति शिवकृतं देवीसम्बां नम् । यद्यपि ते सार्धा एव सप्तदश श्लोका भवन्ति न पूर्णा अष्टादश तथापि तेष्वेकोऽर्धश्लोकात्मको मन्त्रोऽस्तीति ध्वननेन संख्याया अविरोधः । 'मध्येऽर्धश्लोकमन्त्रास्तु चतुर्विंशतिरीरिता' इति पटलान्ते निर्देशाच्च । इह श्लोकात्मका अष्टादशानुस्तु सप्तदश ⟨…⟩ रूपधातीतिवद् ⟨…⟩ नेया । श्लोकशब्दस्तु चरणचतुष्टयघटित एव पद्ये रूढत्वात् । द्विचरणादेर्गाथाव्यवहाय मुख्यत्वेऽपि श्लोकव्यवहारस्य तावतैव परस्परान्वितैकार्थप्रतिपादकत्वनिबन्धनस्य तादृशस्थले सतोऽपि गौणत्वात् । अत ब्रह्मोत्तरखण्डे प्रयोगः । 'बहुनात्र किमुक्तेन श्लोकार्धेन वदाम्यहम् । ब्रह्महत्याशतं वापि शिवपूजा विनाशयेत्' इति । ⟨…⟩ भागवतेऽपि । 'वटपत्रशयानाय विष्णवे बालरूपिणे । श्लोकार्धेन तदा प्रोक्तां भगवत्याखिलार्थदम्' इति उपक्रम्य । 'सर्वे ⟨…⟩ विदमेवाहं नान्यदस्ति सनातनम्' इति संक्षिप्तभागवतस्योक्तिः । अत एव तत्पुराणादिमपद्ये शिवचरणात्मक ⟨…⟩ 'सर्वचैतन्यरूपां मायां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात्' इत्याकारकेऽपि गाथात्मकः श्लोक इति व्यवहारोऽपि गौण एव । अएव मात्स्यादावस्य श्लोकरूप 'गायत्र्या च समारम्भस्तद्वै भागवतं विदुः । यत्राधिकृत्य गायत्री वर्ण्यते धर्मविस्तरः' इत्यादेव व्यवहारो न श्लोकत्वेन । श्लोकत्वापायेऽपि चतुर्विंशत्यक्षरात्मतया गायत्रीत्वानपायात् । तस्माच्चतुर्न्यूनाधिकचरणासु थापि श्लोकत्वाभावादष्टादशश्लोका इति प्रकृतव्यवहारः श्रुतिन्यायेनैव निर्वाह्यः । इदं तु विचार्यम् । तेषु कतमो मन्त्रोऽर्ध ⟨…⟩ कात्मक इति । तत्र कश्चिदाह सावर्ण्याद्याः सप्तदशश्लोकमन्त्राः तदन्ते विद्यमानः 'प्रत्युवाच स तं वैश्यः प्रश्रयावनतो ⟨…⟩ षम्' इत्यर्धश्लोकात्मको मन्त्र इति । स प्रष्टव्यः सर्वादौ विद्यमानः 'सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः' इत्यर्धश्लोक ⟨…⟩ व कुतो न मन्त्र इति । पारिशेष्यन्यायादन्त्य एवेति चेत् प्रथमोपस्थितन्यायसूचीकटाहन्यायाभ्यामाद्य एवास्तु । ननु यो ⟨…⟩ नुरिति यच्छब्दस्य तदुपपत्तिमिति तच्छब्दापेक्षत्वेन तदुभयघटितश्लोक एकं वाक्यम् । मन्त्रत्वस्य परिपूर्णवाक्यत्वव्याप्य ⟨…⟩ तया सावर्णिरित्यर्धेन साकाङ्क्षत्वेन निराकाङ्क्षत्वरूपपूर्णत्वाभावान्न मन्त्रत्वम् । अत एव यजुःषु निरवसानेष्वनियतावसानेषु चैकै ⟨…⟩ कमन्त्रत्वनिर्णयः 'अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्' इति जैमिन्युक्तलक्षणानुसारेणेष्टः । एकमुख्यविशेष्यकबोध ⟨…⟩ जनकत्वे सति विभागे साकाङ्क्षत्वमिति तदर्थः । ततश्च यो मनुः तदुत्पत्तिमित्यनयोर्विभजने परस्पराकाङ्क्षानपायादुभयघटित ⟨…⟩ मेकं वाक्यमेवैको मन्त्र आस्थेय इति चेत् तर्हि 'यैर्निरस्तो भवाल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु 'किं भवतः स्नेहमनुव ⟨…⟩ ति मानसम्' इति श्लोकस्यार्धमन्त्रद्वयात्मतानापत्तिः । किंच त्वन्मते 'मम वैरिवशं यातः' इति मन्त्रोत्तरार्धस्य 'ये ममा ⟨…⟩ नुगता नित्यं प्रसादधनभोजनैः' इत्यस्य 'अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्' इत्युत्तरमन्त्रपूर्वार्धेन साकाङ्क्षतया तयोर ⟨…⟩ योरेकमन्त्रत्वापत्तिः । अथ कारकाणां स्वाभाविकपरस्पराकाङ्क्षया यत्रैकक्रियान्वयेन परिपूर्णता तदवान्तरमेकं वाक्यम् । ⟨…⟩ तादृशवाक्ययोरपि पुनराकाङ्क्षान्तरेणोत्थापितेनैकवाक्यतान्तरं यत्र कल्प्यते तन्महावाक्यम् । एवं महावाक्यादीन्यूह्यानि । एकमन्त्रत्वं तूभयसाधारणैकवाक्यत्वमात्रव्याप्तम् । 'भगो वां विभजतु पूषा वां विभजतु' इत्यादीनामवान्तरवाक्यानां भिन्नमन्त्रत्वस्य 'ममाग्ने वर्चो विह्वेष्वस्तु वयन्त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पूतना जयेम' इत्यवान्तरवाक्यचतुष्टयात्मकैः प्रत्येकं परिपूर्णैश्चतुर्भिः पादैरेकमन्त्रत्वस्य च दर्शनात् । प्रकृते यत्तच्छद्वयोः परिपूर्णस्यापि वाक्यस्य वाक्यान्तरैकवाक्यतानियामकाकाङ्क्षान्तरोद्दीपकत्वेन तदाकाङ्क्षापरिपूर्त्यभावेऽपि नावा ⟨…⟩ रवाक्यत्वहानिः । यत्तच्छब्दमात्रनिरासे नैराकाङ्क्ष्यानुभावात् । अत एव 'तस्मिन्सीदामृते प्रतितिष्ठ व्राहीणां मेध सुमनस्यमानः' इति तच्छब्दघटितस्याप्यर्धस्य स्योनं ते सदनं करोमीति पूर्ववाक्येनैकवाक्यताया अनावश्यकत्वान्मन्त्रभेदः स्वीकृतो मीमांसकैः । अत एव च 'महामायानुभावेन यथा मन्वन्तराधिपः' इति द्वितीयश्लोकस्य यथेति यच्छब्दघटितस्य तथेत्यव्याहारेण निशामयेति पूर्वश्लोकेनैकवाक्यत्वेऽपि तस्याप्रयोजकत्वात् श्लोकाधिकस्य मन्त्रस्य कल्पने तन्त्रविरोधाच्च तावत एव भिन्नमन्त्रतास्वीकारः । तेन न्यायेन यैर्निरस्त इत्यर्धयोरपि भिन्नमन्त्रत्वं युज्यते । अत एव यैः संमिति तत् श्लोकादिमान्तिमाक्षररूपप्रतीकद्वयग्रहणेन द्वौ मन्त्राविति कण्ठरवेण तन्त्रोक्तिरुपपद्यत इति चेत् तर्हि सावर्णिरित्यत्रापि यच्छब्दा ⟨…⟩ पने नैराकाङ्क्षानुभवेनोक्तापत्तिरनिवार्या । न च विनिगमनाविरहः न्यायद्वयस्य नियामकत्वोक्तेः । न चायमस्ति नियमः पूर्णानां निवेशोत्तरमेवार्धस्य निवेश इति । षष्टिश्चार्धर्चश्चेति सार्धषष्टिसौरर्चंगणने यत्राचंकुरित्यर्धर्चस्य 'ऋचामशीतिः पादध्व' इति यावदृग्वेदमन्त्रपारायणलक्षणे भद्रं न इति पादस्य च मध्य एव निवेशस्येष्टत्वात् । अथैवं सति त्वत्पक्षे निशामयेत्यारभ्य सप्तदशश्लोकानां सप्तदशमन्त्रत्वमनिर्वार्यं पुनरर्धान्तरस्य मन्त्रत्वकल्पनं तन्त्रोक्तसंख्याविरोधापत्तेः । ततश्च निशामयेत्यर्धयोः स बभूवेत्यर्धयोश्च यथाकथंचिदेकवाक्यताकल्पनेन श्लोकमन्त्रत्वसम्भवेऽपि 'सुरथोनाम राजाऽभूत्'इति श्लोकोत्तरार्धस्थस्य 'तस्य पालयतः'इति षष्ठ्यन्तस्य यस्य तत्रानन्वितस्य तदुत्तर श्लोकस्थशत्रुपदेनैवान्विततयाऽन्तरवाक्यत्वस्यैव भङ्गेन कथमेकत्र मन्त्रत्वम् । एवं बभूवुरित्यादिश्लोकत्रयस्य कथञ्चित् सम्भवेऽपि कोशो बलं चेति श्लोकस्थस्य मृगयाव्याजेनेत्यस्य तदुत्तरश्लोकस्थेन जगामेत्यनेनैवान्वययोग्यत्वात् तत्रापि मन्त्रत्वभङ्गः । तस्मात् तदनुरोधाय मर्मामे वर्चे इत्यत्रैव प्रथमश्लोक एव महावाक्यात्मकैकमन्त्रत्वस्वीकारो युक्त इति चेत् अये किमेतावत्येव दूरे तव दृष्टिर्धावति । त्वत्पक्षे ततोऽपि परतरेषु रश्लोकस्थेन तमेकैकमन्त्रत्वस्वीकारो युक्त इति चेत् अये किमेतावत्येव दूरे तव दृष्टिर्धावति । त्वत्पक्षे ततोऽपि परतरेषु महावाक्या अथ तस्यानन्यगतिकत्वेन तत्तदुचितपदान्तराध्याहारानुषङ्गमद्भृत्यैस्तैरसद्वृत्तै'इत्यादिषु बहुषु श्लोकेषु कथं मन्त्रत्वाभङ्गः । अथ तस्यानन्यगतिकत्वेन तत्तदुचितपदान्तराध्याहारानुषङ्गमद्भृत्यैस्तैरसद्वृत्तै'इत्यादिषु बहुषु श्लोकेषु कथं मन्त्रत्वाभङ्गः । ति'इत्यादिषु बहुषु श्लोकेषु कथं मन्त्रत्वाभङ्गः । अथ तस्यानन्यगतिकत्वेन तत्तदुचितपदान्तराध्याहारानुषङ्गमद्भृत्यैस्तैरसद्वृ ति इत्यादिषु बहुषु श्लोकेषु कथं मन्त्रत्वाभङ्गः । अथ तस्यानन्यगतिकत्वेन तत्तदुचितपदान्तराध्याहारानुषङ्ग ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ दिना वाक्यपरिपूर्तिराश्रयणीया । इषेत्वेत्यादौ छिनद्यीत्यस्याध्याहारेणावान्तरवाक्यत्वस्वीकारदर्शनात् । अतएव द्वादशेऽध्याये 'पशुपुष्पार्घधूपैश्च'इति श्लोकद्वयस्यारण्ये प्रान्तरेवापीति श्लोकचतुष्टयस्याप्येकान्वयित्वेनावान्तरवाक्यात्मकमन्त्रद्वयात्मकत्व युक्तेऽपि प्रतिश्लोकं भिन्नमन्त्रता त्वया स्वीक्रियमाणाऽनयैव रीत्या निर्वाह्या गत्यन्तराभावादिति चेत्सत्यम् । किं सुरथो नाम कोशो बलं चेति श्लोकयोरध्याहारादिकल्पना मद्भृत्यैस्तैरित्यादिश्लोकेषु वेति विनिगममाविरहः । अथ सप्तदशश्लोक्या आदावक्ष्यते वार्धश्लोकाङ्गीकार इति पक्षद्वयेऽपि क्वचिन्मन्त्रभङ्गस्यापततो ऽध्याहारादिना निरासस्यावश्यकत्वेन युक्तितौल्याद्विकल्प इति चेत् भ्रान्तोऽसि । अनध्यवसायप्रयुक्तविकल्पोक्तेर्न्यायानभिज्ञतापिशुनत्वात् । ननु तत्र तैरभवद्युद्धमित्यादीनां बहूनाअर्धानां स्वस्वघटकपदैरेव निराकाङ्क्षाणामवान्तरवाक्यत्वात्तेष्वन्यतमस्य मन्त्रत्वकल्पनेऽपि विनिगमनाविरहो दुर्वार इति चेत् कस्यायं भारः । तेषु तादृशमेवार्धमन्वेष्टव्यं यत्र मन्त्रत्वपर्याप्तिस्वीकारे सति न कस्यापि मन्त्रत्वं भज्येत् प्रत्युत चरमार्धस्य । तथात्वे तु द्वयोरेवाध्याहारकल्पनादिस्वीकार इत्यस्त्येव नियामकम् । अणुरपि विशेषोऽध्यवसायकर इति न्यायात् । न हि प्रतीक्वविशेषमुपादायाऽर्धमन्त्रस्तन्त्रे निर्दिष्टः येन किं हि वचनं न कुर्यादिति न्यायेन बहुष्वेव क्लृप्तिरङ्गीकार्या नाल्पयोरिति स्यात् । तद्भावे ह्येतदेव नियामकमापद्यत इति । अथ कोऽयं मन्त्रोर्धश्लोकमन्त्र इति सुहृद् भूत्वा पृच्छामीति चेत् हंहो । 'सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः' इत्यवेहि। अतएव पटलान्ते मध्ये चतुर्विंशतिरित्युक्तो मध्यपदस्वारस्यमुपपद्यते । अस्येव मन्त्रत्वपर्यास्यधिकरणताङ्गीकारे एतत् पूर्वापरश्लोकानां सर्वेषां पूर्णता भवति । अथ तन्त्रे प्रतीकग्रहणेन निर्देशाभावे पारिशेष्यक्रमप्राप्तमपि परित्यज्य स्वेच्छया कस्याप्यर्धमन्त्रत्वस्वीकारे कथमाभास इति चेत् न । ईदृशासङ्कटस्थले न्यायानामेव निर्णाथकत्वात् तेषां च जैमिनिप्रभृतिभिः परिशोधनेन विवेचितत्वात् । ईदृशीमास्तिकतां स्वस्मिन् प्रकटयता त्वयापि त्रयोदशाध्याये सप्तानामेवार्धानां तन्त्रे कथनेऽपि समुदितसंख्याविरोधादिन्यायमनुसन्धायैव नवानामर्धानामङ्गीकारात्, तत्रैवैकादशानामर्धानामन्यैरप्यङ्गीकाराच्च । वस्तुतस्तत्र यथा तन्त्रं सप्तैवार्धश्लोका इति वक्ष्यतेऽस्माभिः । तस्मान्न्यायैः निर्णीतार्थेनाभासे सति श्लोके निर्णयकथैवोच्छिद्येतेति बहुव्याकुली स्यात् । ननु सर्वमिदं मन्त्रलक्षणे एकवाक्यत्वनिवेशसत्त्व एवोपपद्यते तत्रैव च मानं न पश्यामः । तच्चोदकेषु मन्त्राख्येति सूत्रे मन्त्रप्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणस्य जैमिनिना कथनात् । नापि मन्त्रत्ववाक्यत्वयोर्व्याप्यव्यापकभावः। ब्राह्मणादिवाक्येषु मन्त्रत्वाभावात्। हुंफडादिपदमन्त्रेषु वाक्यत्वाभावाचेति चेत्सत्यम् । मन्त्रत्ववाक्यत्वयोरुत्सर्गतः सिद्धस्य सामानाधिकरण्यस्य साकाङ्क्षपदमात्रे मन्त्रत्वपर्याप्त्यधिकरणतावेदकप्रमाणमन्तरेण बाधकायोगात् । तादृशापवादकप्रमाणाभावसहकृतमन्त्रत्वस्य वाक्यत्वव्याप्यतानपायात् । अन्यथा मन्त्रान्तर्गतपदेषु लक्षणाङ्गीकारो न स्यात् । मन्त्रैरेव मन्त्रार्थः स्मर्तव्य इति नियमस्य पदवाच्यार्थस्मरणमात्रेण जपमन्त्रादाविव सर्वत्रोपपत्तेः । सति तु तात्पर्यविषयीभूतवाक्यार्थपरत्वे तदन्यथानुपपत्तिप्रसूतिलक्षणावसरात् । नन्वमये जुष्टं निर्वपामीत्यंशस्यैव मार्कण्डेय उवाच स्वाहेति मन्त्रे स्वाहापदस्यानुष्ठेयार्थप्रकाशत्वेन ‘सवितुः प्रसवे’ इत्याद्यंशस्येव मार्कण्डेयादिपदानामदृष्टार्थत्वेन तेषां परस्परान्वितैकार्थपरत्वाभावेऽपि न मन्त्रत्वस्य न वा तु दृष्टार्थत्वस्य भङ्ग इति चेत् न। सवित्रादिपदार्थप्रकाशनस्यादृष्टार्थत्वेऽपि सवितुरित्यादेर्निर्वपतिना सहकवाक्यतयैव कर्माङ्गताया वाक्यप्रमाणादवगतत्वेन तदंशे दृष्टार्थता ऽनपायात् । अन्यथाग्निरिदं हविरजुषतेत्यादाविदं हविरित्याद्यंशस्यापि देवतायाः हविः स्वीकाराभावेनादृष्टमात्रार्थे तत्प्रकाशकत्वेनानेकदेवत्वविकृतौ मारुतसप्तकपालादौ वचनोहानापत्तेः । तस्मान्मार्कण्डेयो यस्या माहात्म्यमुवाच तस्यैव हविरिदं दत्तमितिरीत्याभासमानवाक्यार्थानुगुण्येनैव तत्तदुचितसम्बन्धबोधकपदाद्याद्वारेण प्रकृतकर्मान्वयस्य सर्वत्र निर्वाहो युक्तो न पुनर्भासमानैकवाक्यत्वस्यापवादकबलवत्प्रमाणमन्तरेण स्वेच्छयैव भज्ञेन मन्त्रत्वकल्पनं सुधियामुचितमित्यलं विस्तरेण ॥ ‘वैश्यवाक्यं ततः श्लोका व्योमाद्यात् पञ्चमन्त्रकाः । नृपस्योक्तिर्मान्तवर्णांद्वादशस्वरसंयुतात् । सकारो बिन्दुयुक्तोऽन्ते मन्त्रौ द्वावीदृशौ मतौ ॥' व्योम हकारः तदाद्यात् सकारमारभ्य । ते च श्लोकाश्चत्वार एव पञ्चीकार्याः । अर्धश्लोकात्मकौ द्वौ मन्त्रौ श्लोकत्रय इत्यर्थः । यद्यपि वैश्योक्तिमेलनेनेयं संख्येति सुवचं तथापि पूर्वं मार्कण्डेयोक्तिमन्तरेणैव संख्याकथनप्रायपाठात् पठ लान्तेऽर्धश्लोकसंख्यावचनस्य तात्पर्यग्राहकत्वाच्चैवमेव व्याख्येयम् । तौ च किं नु तेषामिति चतुर्थश्लोकस्य पूर्वोत्तरार्धरूपावेव न तु चतुःश्लोक्या आद्यन्तार्धरूपौ परेणोक्तौ 'पुत्रदारैर्निरस्तश्च' इति चकारस्वारस्येन पूर्वार्धस्थोत्पन्नपदेनैवान्वयमानात् उत्तरार्धेनान्वये ‘दारैः पुत्रैः’ इत्यनेन पौनरुक्त्यापत्तेश्च । नृपस्योक्तिः राजोवाचेति मन्त्रः मान्तो यकारो द्वादशेनैकारस्वरेण संयुतस्तस्मात्तमारभ्य स इति सबिन्दुकमक्षरं यावत् । द्वौ मन्त्रौ अर्धश्लोकात्मकाविति यावत् ॥ 'ततो वैश्य उवाचेति स्वरैकादश आदितः । वह्निबीजं बिन्दुयुक्तमन्ते स्यान्मनुपञ्चकम् ॥’ स्वरेष्वेकादश एकारः 'सन्धिरेकादशो भद्रा पद्मनाभः कुलाचलः' इति नन्दनकोशाच्च, वह्निबीजं रेफः । अत्रापि चतुर्षु श्लोकेष्वन्त्यौ द्वावर्धश्लोकमन्त्रौ नाद्यान्त्यौ यैः संत्यज्येतेऽस्य पूर्वेण सहान्वयायोगात् उत्तरार्धस्थतच्छन्दस्य हार्दं चेति कर्मणश्चानेनैवान्वेतुं योग्यत्वाच्च । एवमुत्तरश्लोकेऽप्येतद्यत्पदयोर्द्रष्टव्यम् ॥ 'मार्कण्डेय उवाचैकः ततो मन्त्रत्रयं भवेत् । तादिवर्णं च भुवनस्वरयुग्वारुणान्तिमम्’ ॥ भुवनानि चतुर्दश । वारुणं वकारः । अत्राद्यावेव द्वावर्धश्लोकौ । उत्तरश्लोके कृत्वेत्यस्य समानकर्तृकोत्तरकालिकक्रियान्तराकाङ्क्षवेन तस्योपविष्टाविति पदेनोत्तरार्ध एव समर्पणात् तेनान्यार्धस्य मन्त्रान्तरत्वं नादर्तव्यम् ॥ ‘राजोवाचेति ब्रह्ममन्त्रा आदशुभानने । अथोवाच ऋषिर्ज्ञानमस्तीत्यारभ्य पार्वति । सर्वे ंश्वरेश्वरीखन्ता मन्त्रा द्वादश कीर्तिताः' ॥ भगवंस्त्वामिति त्यामाद्यन्तयोरर्धयोः प्रत्येकं परिपूर्णत्वेऽप्ययं च निकृत इत्यादीनामुत्तरोत्तरार्धेनैव साकाङ्क्षत्वात्तद्भङ्गायाद्यश्लोक एव को मन्त्रौ तयोर्यत्तच्छब्दकृतसाकाङ्क्षताया अवान्तरवाक्यत्वाविरोधित्वात् । ज्ञानमस्तीत्येकादशश्लोक्यां तु चरमश्लोकान्त्रद्वयं न तु प्रथमश्लोकार्धम् । ज्ञानेऽपि सतीत्यादेरुत्तरार्धस्थकणमोक्षादिनैवान्वयात् अन्यत्रापि तथैव स्वारस्याच्च । लोकस्य मन्त्रद्वयात्मत्वसम्भवेऽप्युवाचसामीप्येनैवार्धश्लोकद्वयस्यान्यत्र दृष्टस्यार्थिकस्याप्यत्र सम्भवतस्त्यागे मानाभावाच्च, स्वालम्भस्थलनिष्ठस्य दैक्षानुबन्ध्यसामीप्यस्य प्रकृतावार्थिकस्यापि सा ⟨…⟩ स्के तदादरेण निर्णायकत्वदर्शनात् ॥ 'राजोवागवन्नादावन्ते विदांवर । मन्त्रत्रयमिदं ह्यातं पश्चादृषिरुवाच ह । नित्यैव सा जगच्चादौ प्रभुरन्तेऽष्टमन्त्रकः' ॥ भगवलोकद्वये चरमावेवार्धश्लोकौ मन्त्रौ नत्वाद्यार्धं भवानित्यस्य ब्रवीतीत्यनेनैवान्वयात् । नित्यैव सेति सप्तश्लोक्यां तु प्रथर्वोत्तरार्धयोरेव पार्थक्यं न चरमश्लोकोत्तरार्धस्य योगनिद्रामित्यस्याभजदिति परेणैवान्वयात् । स नाभिकमल इत्यस्य त्वमेकमन्त्रासम्भवादेव दृष्टेत्यस्य स्थित इत्यनेनैवान्वयः यत्नान्तरशून्यः सन्निति यावत् । अत्र 'स्तौमि निद्रां भगवतीं तेजसः' इत्यर्धपाठः क्वचिद्दृश्यते । स तु तन्त्रान्तरस्यानुगुण एव 'विश्वेश्वर्यादिकं सूक्तं दृष्टं तद्ब्राह्मणा पुरा'इति वचकात विश्वेश्वरीतः प्रागेव ब्रह्मोवाचेत्यस्य पाठाच्च । तथाप्येतत् तन्त्रानुसारिणा स नादर्तव्यः । अपितु 'निद्रां भगणोरतुलां तेजसः प्रभुः'इत्येवेति प्रभुरन्त इत्यनेन ध्वनितम् । प्रभुपदेन तेजसः प्रभुरित्यस्यैव परामर्शो न भगवान् स्य । तदन्ते ब्रह्मवाक्याभावात् तावदष्टसंख्याया असम्भवाच्च ॥ 'अथ ब्रह्मोवाच ततस्त्वं स्वाहा त्वं स्वधादिमाः । महामन्त्रा मताः पञ्चदश प्रिये' ॥ त्वं स्वाहेत्यादिचतुर्दशश्लोक्यामन्त्यावेवार्धश्लोकौ मन्त्रौ नाथौ । तेन सह स्तुतिरूपेषु सर्वेषामर्धानां प्रत्येकं पूर्णत्वसम्भवेऽपि यच्च किञ्चित् क्वचिदित्यादिश्लोकेषु स्वस्वोत्तरार्धैरेवान्वयस्वारस्यात् अव्यवशास्त्रार्थत्वायोगाच्च उवाचात्मकमन्त्रयोर्मध्यवर्तिनो ऽर्धश्लोकात्मकमन्त्रद्वयस्यास्मिन्नध्याये क्वापि व्यवधानादर्शनाच्च ले आद्यन्तयोरेव व्यवहिताऽव्यवहितसाधारण्येन मन्त्रत्वमिति नियमस्य काण्वेनावलम्बितस्य निर्मूलत्वाच्च प्रथमश्लोऽपि पूर्वार्धावृत्तस्य त्वंकारस्यानुवृत्तिदर्शनमात्रेण पूर्वार्धान्वयित्वस्वीकारात् । तेन प्रथमश्लोक एव वान्यत्रैव वा यच्चेकाविरोधेनैवार्धद्वयकल्पनाचोद्यानां नावकाशः । अणोरपि विशेषस्याध्यवसाये निमित्तत्वात् । यैर्निरस्त इत्यस्य भवेस्य वोवाचद्वयमध्यवर्तित्वेन तत्रादिमान्तिमयोरर्धयोरेव मन्त्रत्वस्य क्लृप्ततयैकत्र निर्णीतशास्त्रार्थों 'सति बाधकेऽन्यन्याय एव मूलमिति चेन्न । तन्त्रान्त्योपान्त्ययोराद्योपाद्ययोरव्यवधानेन मन्त्रद्वयत्वक्लृप्तेरपि सुवचत्वेनान्यत्र व्यवधायादिमान्तिमोभयत्वस्य क्लृप्ततावच्छेदकतानङ्गीकारात् ॥ ‘ऋषिरेव स्तुतेत्यादाः सप्त स्युः केशवान्तिमाः । ततो भगस्या ⟨…⟩ वेतामित्युभौ मनू । अर्धर्षिवञ्चिताभ्यामित्येतन्मन्त्रद्वयं शिवे । ऋष्युक्तिश्च तथेत्युक्तोऽन्यादिमन्त्रद्वयं भवेत्’ ॥ एवं लोकषट्के चरमश्लोक एवार्धात्मकमन्त्रो तत्र तावपीति प्रथमार्धे जातावित्यस्याभ्याहारेण पूर्णत्वसम्भवात् । एवं स्तुतेय मन्त्रत्वे उत्तरार्धस्थितस्य निहन्तुमित्यस्य पूर्वेणैव अन्वययोग्यत्वात् तदुत्तरान्वयायोग्यत्वाच्च मन्त्रत्वभङ्गापत्तिः । इत्यादेरपि ज्ञेयम् । वञ्चिताभ्यामिति श्लोकोत्तरं 'प्रीतौ स्वस्तव युद्धेन श्लाघ्यरत्वं मृत्युरावयोः’ इत्यर्धमधिकं क्वचिद् दृश्यते च । वक्ष्यमाणायाः अध्यायश्लोकानामर्धश्लोकमन्त्राणां च समुदितसंख्याया विरोधापत्तेर्ज्ञापकात् अत आवां जहीक एव मन्त्रः सार्धात्रयः सार्धाश्चत्वार इत्यादौ त्रिचतुराणां पूर्णानां परत एवार्धनिवेशस्य लोकसिद्धत्वात्, अपवादकाभावे दस्य त्यागायोगात् , विलोक्येत्यर्धस्य पूर्वार्धोक्तकर्मणैव साकाङ्क्षत्वाच्च । काण्वस्तु उवाचद्वयमध्यवर्तिष्वेकस्यैवार्ध श्लोकस्य एव ग्राह्य इति नियमं लोकतः सिद्धं स्वेन पूर्वमवलम्बितमपीह विस्मृत्य वञ्चिताभ्यामित्यर्धस्यैव मन्त्रत्वमुक्तवान् । काण्वानां बुद्धिरापातग्राहिणीति निजप्रथां नाकृथा वितथामन्ववर्तथाः कथमन्यथा अत्यल्पमिदमुच्यते । निर्मूलस्य वलम्बनेन सतोप्युत्सर्गस्य विनापवादं स्वेच्छयैव त्यागेन च मन्त्रविभाजकन्यायगन्धस्याप्यनाघ्राणेन च स्वेच्छयैव षयेऽपशब्दप्रचुराः कारिका निर्मितवति त्वयि विश्वासेनाय यावदनुतिष्ठतामास्तिकानामहो धर्मपिठलवः कियान्वयतो गुरुदेवताभक्तिवैधुर्यमात्मनोऽनुमापयसीति दिक् ॥ 'सर्वे श्लोका इहाध्याये त्वष्टषुक् सप्ततिमेताः । मध्येऽर्धश्लोचतुर्विंशतिरीरिताः । उवाचान्तास्तत्र बोध्या मन्त्रा भुवनसंख्यकाः । संहत्याहतयो ज्ञेयाश्चतुर्भिरधिकं शतम्' ॥ अश्लोकद्वयात्मकद्वादशश्लोक्यपनये षट्षष्टिरेव श्लोकमन्त्राः ब्रह्मा भगवानेकैको वैश्यमार्कण्डेयौ द्वौ द्वौ राजत्रयमृचेति चतुर्दशसंख्या उवाचान्तमन्त्रा इत्यर्थः । इति गुप्तवत्यां कात्यायनीतन्त्रे विंशस्य पटलस्य व्याख्या समाप्ता ॥ मन्त्रावभागकारकाः । तत्संग्रहश्लोका एकोनविंशतिः । 'ऋणमिष्टमदत्त्वैव त्वन्नाम जपतो मम । शिवे कथमपर्णेति रूढिर्भा ⟨…⟩ रायते न ते ॥ १॥ तवमन्त्राणां विभागः सप्तभिः शतैः । कात्यायन्यादितन्त्रेषु त्रिषु त्रेधा प्रकीर्तितः ॥२॥ गुप्तवत्यां प्रकारास्ते न्यायैः र्शिताः । तन्नयं भास्करेणेह शतश्लोक्या निबध्यते ॥ ३ ॥ । मार्कण्डेय उवाचेति मन्त्रः प्राथमिको मतः । सावर्ण्याद्याः ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩