द्वितीयोऽध्यायः

मूलम्

त्मजे । असुराणां देवद्विषाम् अधिपे राजनि इति काकाक्षिवदन्वयः । पुरंदरे पुरंदरनाम्नि । वैवस्वतमन्वन्तर इति यावत् ॥ १ ॥

शान्तनवी

पुरा कल्पे (युगे) महिषासुरे असुराणामधिपे सति देवानां च पुरंदरे इन्द्रे अधिपे सति देवासुरं युद्धं पूर्णम् अन्यूनम् अब्दशतं वर्षशतम् अभूदित्यन्वयः । असुराणां विजिगीषूणामिदम् आसुरं देवानाम् आसुरं देवासुरम्। अथवा देवैः सह आसुरं देवासुरं युद्धम् । यद्वा देवाश्च असुराश्च देवासुरम् । ‘एषां च विरोधः शाश्वतिकः’ इत्येकवद्भावः । तस्मिन् अस्ति तद्देवासुरं युद्धम् । अर्शआदित्वादच् । यद्वा देवासुरस्येदं देवासुरं युद्धम् । संज्ञापूर्वको विधिरनित्य इति ह्यादिद्वन्द्वभावः । अन्यथा देवासुरमित्येव स्यात् । पुराण्यरीणां दारयति पुरंदरः । ‘वाचंयमपुरंदरौ च’ इति खच्प्रत्ययः । महिषेऽसुराणामधिपे इति निचृच्छन्दो मधुकैटभौ दुरात्मानावितिवत् ॥ १ ॥

नागोजीभट्टी

भूयः शृणिवत्युक्तं तन्त्रैतिहासमाह । ऋषिरुवाच । देवासुरमिति । असुराणामधिपे महिषे च सति पुनर्देवानामधिपे पुरन्दरे इन्द्रे सति । देवा असुराश्च प्रहर्तारो यत्र तादृशं युद्धमब्दशतमासीदित्यर्थः । देवासुरमित्यत्राशां ⟨…⟩ आदित्वादच् । रम्भासुरतपस्यया प्रसन्नस्य शिवस्यांशोऽयम् । तत्सुतो महिषः । स च तपसा देवीनिकटे मम सायुज्यं भवतिति वरं प्रार्थितवानिति कालीपुराणे स्पष्टम् ॥ १ ॥

जगच्चन्द्रचन्द्रिका

अथ द्वितीयाध्यायस्य सप्तशतीमन्त्रहोमविभाग उच्यते । अध्यायादावेव ऋषिरुवाचेति सङ्क्रन्मनुरिति अध्यायस्य द्वितीयाध्यायस्य आदौ पूर्वमेव 'ऋषिरुवाच स्वाहेत्येक इति सकृन्मनुरेको मन्त्रः १ । "अष्टषष्टिमिताः श्लोकास्तन्निमता मनवो मताः’ इति । अष्टभिः अधिका षष्टिरष्टषष्टिर्विंशतित्रयम् अष्टाधिकमित्यर्थः । तन्मितास्तत्परिमिताः तावन्त एव प्रत्येकं श्लोकाः देवासुरमभूद्युद्धमित्यादिकाः मनवो मन्त्राः मताः स्मृताः 'एकोनसप्ततिः सर्वेऽध्याये मन्त्रा द्विती॰ यके’ इति । एकेन ऊना सप्ततिः विंशतित्रयं नवाधिकमित्यर्थः । सर्वे मन्त्रा मनवः । द्वयोः पूरणा द्वितीयस्तस्मिन् । स्वार्थे कः । अध्यायाः प्रकीर्तिताः उक्ताः । तथाहि ‘ऋषिरुवाचस्वाहा १' । देवासुरमिति २ ॥ १ ॥

दंशोद्धारः

पूर्वाध्यायान्ते भूयः शृण्विति प्रतिज्ञातं तत्प्रतिपादनायेतिहासं प्रस्तौति देवासुरमित्यादिना । देवाश्च॰ सुराश्च योद्धारोऽस्मिन्निति देवासुरम् । अर्शआद्यच् मत्वर्थे । यद्वा देवासुराणामिदं देवासुरम् 'तस्येदम्' इत्यणि वृद्ध्यभावः । असुराणामिदम् आसुरं देवैः सहासुरं देवासुरमिति वा । पुरंदरनामधेये ॥ १ ॥

मूलम्

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् । जित्वा च सकलान्देवानिन्द्रोऽभून्महिषासुरः ॥ २ ॥

गुप्तवती

॥ २ ॥

चतुर्धरी

तत्र युद्धे । इन्द्रः सुरराट् ॥ २ ॥

शान्तनवी

तत्र युद्धे महावीर्यैः असुरः देवसैन्यम् पराजितम् अभिभूतम् अभ्यभावि । ततश्च महिषासुरः सकलान्देवान् जित्वा अभिभूय इन्द्रोऽभूदित्यन्वयः । 'वीर्यं बलं प्रभावश्च वीरकर्म च कीर्तितम्' । सिनोति बध्नाति सह अनेन स्वामिना वर्तते वा सेनां सेनैव सैन्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ध्वञ् ॥ २ ॥

नागोजीभट्टी

तत्रेति । इन्द्रः सुरराट् ॥ २ ॥

जगच्चन्द्रचन्द्रिका

तत्रासुरारिति ३ ॥ २ ॥

दंशोद्धारः

॥ २ ॥

मूलम्

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् । पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ ३ ॥

गुप्तवती

॥ ३ ॥

चतुर्धरी

पद्मयोनिं ब्रह्माणम् । प्रजापतिमिति तस्य विशेषणम् । ईशो रुद्रः ॥ ३ ॥

शान्तनवी

ततः महिषासुरात्पराजिताः प्राप्तपराभवाः देवाः पद्मयोनिं पद्मजं प्रजापतिं ब्रह्माणं पुरस्कृत्य पुरोधाय तत्र गताः । क्व । यत्र ईशः शर्वः यत्र च गरुडध्वजः विष्णुरास्ते इत्यन्वयः । 'योनिः स्यात्कारणे भगे' । 'पुरोऽव्ययं गत्याख्यम्' 'पराजेरसोढः' इत्यपादानाख्या ॥ ३ ॥

नागोजीभट्टी

तत इति । पद्मयोनिं ब्रह्माणम् । प्रजापतिमिति तस्य विशेषणम् । ब्रह्मणः प्रजास्रष्टृत्वेन सिद्धसंबन्धत्वात् आदौ देवानां तत्र गमनम् । ततः पालनसंहारयोः शिवविष्ण्वोरेवाधिकारात्सब्रह्माणं तयोः समीपे गमनम् ॥ ३ ॥

जगच्चन्द्रचन्द्रिका

ततः पराजिता इति ४ ॥ ३ ॥

दंशोद्धारः

॥ ३ ॥

मूलम्

। ८३ ोऽध्यायः २ ] गुप्तवत्यादिसप्तटीकासंवलिता तयोस्तद्वन्महिषासुरचेष्टितम् । त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ ४ ॥
१ गुप्तवती ) ॥ ४ ॥
२ चतुर्धरी ) यथावृत्तं यथाभूतं तद्वत् तथैव महिषासुरस्य चेष्टितं चरितम् । त्रिदशाः देवाः तयाः रुद्रकृष्णयोपे वा कथयामासुरित्यन्वयः । देवानामभिभवस्य विस्तरः प्रपञ्चो यत्र चेष्टिते ॥ ४ ॥
३ शान्तनवी ) त्रिदशाः देवास्तयोरीशकेशवयोः अग्रे यथा येन प्रकारेण वृत्तं निष्पन्नं महिषासुरचेष्टितम् औद्धत्यं प्रकारेण वृत्तं देवाभिभवविस्तरं देवानाम् अभिभवस्य विस्तरं शब्दप्रपञ्चनं कथयामासुः । अथवा त्रिदशास्तयोरीशकेशथावृत्तं चरित्रमनतिक्रम्य महिषासुरचेष्टितं कथयामासुः । तद्वत् महिषासुरचेष्टितं यथावृत्तं वृत्तमनतिक्रम्य देवातरं देवानाम् अभिभवो यस्मिन्स विस्तरो यस्मिन्कर्मणि तद्यथा भवति तथा कथयामासुः । महिषासुरचेष्टितं च देवाविस्तरसहितं कथयामासुरिति भावः ॥ ४ ॥
४ नागोजीभट्टी ) यथावृत्तमिति । देवानामभिभवस्य विस्तरः प्रपञ्चो यत्नेति चेष्टितविशेषणम् ॥ ४ ॥
५ जगच्चन्द्रचन्द्रिका ) यथावृत्तमिति ५ ॥ ४ ॥
६ दंशोद्धारः ) ॥ ४ ॥
न्यनिलेन्दूनां यमस्य वरुणस्य च । अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ ५ ॥
१ गुप्तवती ) ॥ ५ ॥
२ चतुर्धरी ) स महिषासुरोऽधितिष्ठत्यनुतिष्ठति । ‘अधिशीङ्स्थासां कर्म’ इति कर्मसंज्ञा ॥ ५ ॥
३ शान्तनवी ) चकारेणानुक्तदिक्पत्यनुग्रहा गृह्यन्ते । ततो ऽन्येषां ब्रह्मर्षीणां च अमीषां सूर्यादीनाम् अधिकारान्स ः स्वयमेवाधितिष्ठति । सूर्यस्य इन्द्रस्य अग्नेः अनिलस्य इन्दोर्यमस्य वरुणस्य अतोऽन्येषां च देवानाम् ऋषीणां चाः स्वयमेवाधितिष्ठति । सूर्यस्य इन्द्रस्य अग्नेः अनिलस्य इन्दो र्यमस्य वरुणस्य अतोऽन्येषां च देवानाम् ऋषीणां चास्वयमेव महिषासुरस्तिष्ठति । ‘अधिशीङ्स्थासां कर्म’ इत्यधिकरणं कर्माण्ययम् ‘उपपदविभक्तेः कारकविभक्तिर्बलीयथाभिधाने ॥ ५ ॥
४ नागोजीभट्टी ) सूर्येन्द्रेति । स स्वयमित्यत्र ‘एतत्तदोः’ इति सुलोपः । स्वयमिति द्विसकारपाठस्तु ‘अनचि च’ न बोध्यः ॥ ५ ॥
५ जगच्चन्द्रचन्द्रिका ) सूर्येन्द्राग्न्यनिलेति ६ ॥ ५ ॥
६ दंशोद्धारः ) ॥ ५ ॥
निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति तथा मर्त्या महिषेण दुरात्मना ॥ ६ ॥
१ गुप्तवती ) ॥ ६ ॥
२ चतुर्धरी ) निराकृताः निःसारिताः भुवि चरन्ति इत्यन्वयः । मर्त्या मनुष्या इव ॥ ६ ॥
३ शान्तनवी ) दुरात्मना तेन महिषासुरेण सर्वे देवगणाः स्वर्गान्निराकृताः सन्तः भुवि विचरन्ति प्रचरन्ति था मरणधर्माणो मनुष्या इव प्रत्याख्याताः निरस्ताः निराकृताः ॥ ६ ॥
४ नागोजीभट्टी ) स्वर्गादिति । निराकृताः निःसारिताः ॥ ६ ॥
५ जगच्चन्द्रचन्द्रिका ) स्वर्गान्निराकृता इति ७ ॥ ६ ६ दंशोद्धारः ) ॥ ६ ॥
कथितं सर्वममरारिविचेष्टितम् । शरणं च प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ ७ ॥
१ गुप्तवती ) एतद्व इति बहुवचनं हारिहरौ सशक्तिकौ लक्ष्यीकृत्य ॥ ७ ॥
२ चतुर्धरी ) वः इति गुरुत्वादेकशो बहुवचनम् । प्रपन्ना आगताः स्मो भवामः ॥ ७ ॥
३ शान्तनवी ) अत्र वः इति ब्रह्मविष्णुमहेश्वरापेक्षं बहुवचनम् । अस्माभिर्देवैरिन्द्रादिभिः एतत् अमरारिविचेष्टितं महिषासुरस्य विचेष्टितम् ‘औद्धत्यं देवाभिभवनं च सर्वं निरवशेषं च युष्माकमग्रे कथितम् । वयमिन्द्रादयः सर्वे वः त्रीन् शरणं रक्षितृन् दुःखेभ्यः पालयितृन् प्रपन्नाः प्राप्ताः स्मः । तस्य महिषासुरस्य वधः हननं विचिन्त्यताम् । न्येत स उपायो युष्माभिश्चिन्तनीयः । शॄ हिंसायाम् । शृणाति शत्रून् । ‘शरणं गृहरक्षि ⟨…⟩ ोः’ वेदाः प्रमाणमितिवच्छवचनान्तं विवक्षितम् । अस्तेर्लङुत्तमपुरुषबहुवचनान्तं स्म इति । वध हिंसायाम् । वधनं वधः । भावे घञ् । ‘जनिव८८ दुर्गा ⟨…⟩ शती। [ द्वितीयोऽध्यायः २ ध्योध्व' इति श्रद्वयभावः । अतएव च वधितुमर्हौ वध्यौ । ‘ऋहलोर्ण्यत्’ इति ण्यत् । तथा च ‘मम वध्यावुभावपि’इति प्राप्त प्रयोगे इदं च साधनमवगन्तव्यम् । 'हनो वा वध च' इति तु अदन्तत्वं तत्र दर्शितम् । ममेति । तत्र ‘कृत्यानां कर्तरि व इति षष्ठी । यद्वा तत्र वधमर्हतो वध्यौ । 'दण्डादिभ्यो यत्' इति यत् ॥ ७ ॥

नागोजीभट्टी

एतद्व इति । वः इति द्वयोर्बहुवचनं गौरवात् । च परं शरणं प्रपन्नाः आगताः स्मो भवामः॥७

जगच्चन्द्रचन्द्रिका

एतद्वः कथितमिति ८ ॥ ७ ॥

दंशोद्धारः

एतद्व इति । व इति बहुवचनं द्वयोरपि कार्यसाधकत्वेन बहुत्वापेक्षया ॥ ७ ॥

मूलम्

इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ ८ ॥

गुप्तवती

भ्रुकुटी भ्रुवोः कुटिः कौटिल्यं तेन कुटिले आनने ययोस्तौ ॥ ८ ॥

चतुर्धरी

भ्रुकुटीललाटचञ्चलतया कुटिले आनने ययोः ॥ ८ ॥

शान्तनवी

इत्थं देवानां वचांसि निशम्य आकर्ण्य मधुसूदनः कैटभजित् विष्णुश्च शम्भुः मृत्युंजयश्च कोपं चकार तौ कीदृशाकृती । भ्रुकुटीकुटिलाननौ भ्रकुटीकुटिलाननौ भ्रुकुटीकुटिलाननौ इति पाठत्रयम् । भ्रुकुटी भ्रकुटी भृकुटी स्त्रियाम् । कुट ङित्वात् गुणाभावः । ऋदिकारादक्तिनो वा ङीप् । 'इ ⟨…⟩ । भ्रुकुंसादीनामिति पक्षे अत्वमौत्तरपदिकम् । तृतश्च भ्रुवौ क्रोधा ययोस्तौ भ्रुकुटीकुटिलाननौ हरिहरौ । निशम्येति शमेर्णौ 'अत ज्ञानादन्यत्र श्रवणे मित्वात् 'मितां ह्रस्वः' । चक्षुःसाधनज्ञाने भ्रुकुटीकुटिलाननौ कोपं चकारेत्यनुसंधेयः ॥ ८ ॥

मूलम्

कौटिल्यं तेन कुटिले भुग्ने आनने ययोस्तौ । भ्रूशब्दस्य पृषोदरादि । ब्रह्मणः कोपेऽपि रजआधिक्येन शिवस्य तमोगुणप्राधान्येन सत्त्वाधिक्यवत्तया त्रिगुणा एषा इति ध्वन्यते । अत एवोक्तं वैकृति महालक्ष्मीः साक्षान्महिषमर्दिनी' । तत्रापि रजःसत्त्वयोराधि९ ॥ ८ ॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥ ९ ॥

गुप्तवती

'मदीयाः शक्तिलेशा ये तत्तद्देवशरीरगाः ' इति लक्ष्मीतन्त्रादिवचनादेवेष्वायुधेषु च विद्यमानः शक्तिभागः सर्वोऽप्येकीभूयाष्टादशभुजात्मकनारीशक्तिरूपेण परिणतो ऽभूदित्याह । ततोऽतिकोपेत्यादिना ॥ ९ ॥

चतुर्धरी

चक्रिणो विष्णोः । ततः तत्र । सार्वविभक्तिकस्तसिः । ब्रह्मणः शंकरस्य वदनात् यदित्यनुषज्यते॥९॥

शान्तनवी

ततोऽनन्तरम् अतिकोपपूर्णस्य चक्रिणः विष्णोः ब्रह्मणः शंकरस्य च ततः विस्तृतः तस्माच्च वदनात् सकाशात् महत्तेजः निश्चकाम निर्गात् । 'तेजः प्रभावे दीप्तौ च बले शुक्रे प्रकीर्तितम्' ॥ ९ ॥

नागोजीभट्टी

तत इति । द्वितीयं तत इति प्रसिद्धादित्यर्थकं वदनादित्यस्य विशेषणम् ॥ ९ ॥

जगच्चन्द्रचन्द्रिका

ततोऽतिकोपेति १० ॥ ९ ॥

दंशोद्धारः

तत इति । कोपपूर्णस्य चक्रिणः ततः प्रसिद्धाद्वदनात् । तत्र तेषामित्यर्थे वा । सार्वविभक्ति ⟨…⟩ ॥ ९ ॥

मूलम्

अन्येषां चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ १० ॥

गुप्तवती

॥ १० ॥

चतुर्धरी

तत्तेजः ऐक्यम् एकभावं समग ⟨…⟩ त अभवदित्यन्वयः । समगच्छतेति छान्दसत्वादात्मनेपदम् । ‘समो गम्यृच्छ' इत्यादेरकर्मकविषयत्वात् । अथवा ऐक्यम् एकम् । स्वार्थे यण् । समगच्छताऽभवत् ॥ १० ॥

शान्तनवी

तेभ्यस्त्रिभ्यः अन्येषां शकादीनां च देवानां सुमहत्तेजः कर्तृ ⟨…⟩ । शरीरत एव निर्गतं निरगमत् । तच्च तेजः कर्तृ । ऐक्यम् एकम् अपृथक् समगच्छत समपद्यत एक्यमभवत् । ऐक्यमिति । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । ‘अक् व' इत्यनुवृत्तौ 'समो गम्यृच्छि' इत्यादिसूत्रेण गमेरात्मनेपदं तङ् । तच्चैक्यं समपद्यतेत्यपि क्वचित्पाठः । सकर्मकत्वे तु पदम् । तच्चैक्यम् । एकतां समगच्छत ॥ १० ॥

नागोजीभट्टी

अन्येषां चेति । कुपितानामिति शेषः । यत्तेजः निर्गतं तच्च ब्रह्मादीनां तेजश्च ऐक्यम् एकत्वं च्छत । छान्दसस्तङ् ॥ १० ॥

जगच्चन्द्रचन्द्रिका

अन्येषामिति ११ ॥ १० ॥

दंशोद्धारः

अन्येषामिति । एकमेव ऐक्यम् । चातुर्वर्ण्यादेराकृतिगणत्वात्स्वार्थे ष्यञ् । एकमभवदित्यर्थः । मैकात्' इति वर्तमाने 'समो गम्यृच्छिभ्याम्' इत्यात्मनेपदविधानात्सकर्मके तङ्संभवात् । समपद्यतेति क्वचित्पाठः ॥ १० ॥

मूलम्

व तेजसः कूटं ज्वलन्तमिव पर्वतम् । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ ११ ॥

गुप्तवती

॥ ११ ॥

चतुर्धरी

अतीव अत्युच्छ्रितं कूटं पुञ्जम् । तत्र पुराणान्तरप्रसिद्धे कात्यायनाश्रमे ॥ ११ ॥

शान्तनवी

ते इन्द्रादयः सुराः तत्र देवसदसि । यद्वा तत्र देवतेजसि देदीप्यमाने जृम्भमाणे जयति सति व अत्यर्थं सुतराम् अतितरां सुष्ठु ज्वालाव्याप्तदिगन्तरं ज्वालाभिरर्चिर्भिः व्याप्तं विद्योतितं दिशां दशानामन्तरं मध्यमलं येन तं तथोक्तम् । ज्वलन्तं दीप्यमानं पर्वतमिव हेमाद्रिमिव तेजसः कूटं ददृशुः दृष्टवन्तः । ‘मायानिश्चलयन्त्रेषु ⟨…⟩ रत्नराशिषु । ‘अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्’ ‘बलवत्सुष्ठु किमुत स्वस्यतीव च निर्भरे’ ॥ ११ ॥

नागोजीभट्टी

अतीवेति । तत्रेत्यस्य काले इति देशे इति वा विशेषः ॥ ११ ॥

जगच्चन्द्रचन्द्रिका

अतीव तेजस इति १२ ॥ ११ ॥

दंशोद्धारः

॥ ११ ॥

मूलम्

तुलं तत्र तत्तेजः सर्वदेवशरीरजम् । एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ १२ ॥

गुप्तवती

॥ १२ ॥

चतुर्धरी

एकस्थमेकाकारेण स्थितम् । तदित्यव्ययमानन्तर्यं । नारीऽभून्नार्याकारेण परिणमत् । त्विषा दीप्त्या ⟨…⟩ व्याप्तं लोकत्रयं येन ॥ १२ ॥

शान्तनवी

तत्र देवानां सदसि तत्प्रागुत्पन्नं ब्रह्मविष्णुरुद्रमुखजं तेजः तत्पश्चादुत्पन्नम् । इन्द्रादिसर्वदेवशरीरजं तेजः उभयत्विषा अतुलम् अनुपमम् । त्विषा दीप्त्या व्याप्तलोकत्रयम् एकस्थम् एकस्मिन्नेव समवायिनि तिष्ठत् एकत्वेन थक् भावेनावतिष्ठत् वर्तमानं सत् नारी अभूत् । तत्तेजः स्त्रीरूपमभूदिति भावः । 'तृनरथोर्द्विद्विश्च'इति शार्ङ्गरवादिपाठावजातिविवक्षायां ङीषि वृद्धिः ॥ १२ ॥

नागोजीभट्टी

अतुलमिति । तत् ततः । तत्र पुराणान्तरप्रसिद्धे कात्यायनाश्रमे तत्तेजः एकस्थं सन्नारी ूत् । त्विषा दीप्त्या ॥ १२ ॥

जगच्चन्द्रचन्द्रिका

अतुलं तत्रेति १३ ॥ १२ ॥

दंशोद्धारः

अतुलमिति । तत् ततः । आनन्तर्ये ऽन्वयम् ॥ १२ ॥

मूलम्

दभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । याम्येन चाभवन्केशा बाहवो विष्णुतेजसा ॥ १३ ॥

गुप्तवती

॥ १३ ॥

गुप्तवती

॥ १३ ॥ ( १ गुप्तवती ) ॥ १३ ॥

चतुर्धरी

शाम्भवं शैवं तत्तेजस्तेनाजायत । यव्ययम । तस्या इत्यर्थः । तस्य मुखं तन्मुखं वा । याम्येन

चतुर्धरी

शाम्भवं शैवं तत्तेजस्तेनाजायत । तदित्य तदित्यव्ययम् । तस्या इत्यर्थः । तस्य मुखं तन्मुखं वा । याम्येन यव्ययम् । तस्या इत्यर्थः । तस्य मुखं तन्मुखं वा । याम्येन

चतुर्धरी

शाम्भव शैव तत्तेजस्तनौजायत । तादित्य यव्ययम् । तस्या इत्थ ⟨…⟩ ः । तस्या मुख तन्मुख वा । याम्येन मसंबन्धितेजसा ॥ १३ ॥ ॥

शान्तनवी

यत् शम्भोरिदं शाम्भवं तेजः तेन तस्याः नार्याः मुखम् अजायत अजनिष्ट । याम्येन यमदेवकेन तेजसाऽस्याः "नार्याः केशा अभवन् । विष्णुतेजसा तस्या नार्याः बाहवश्चाभवन् । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' यत्र यमाचेति वक्तव्यमित्याहुः ॥ १३ ॥

नागोजीभट्टी

तेजोविभागेनाङ्गविभागमाह । यदिति । शम्भोः श्वेताङ्गतया तत्तेज आयातं मुखं श्वेतमित्यर्थः । ष्णोर्नीलवर्णतया बाहवोऽष्टादश नीलाः ॥ १३ ॥

जगच्चन्द्रचन्द्रिका

यदभूच्छाम्भवमिति १४ ॥ १३ ॥

दंशोद्धारः

यदभूदिति । याम्येन केशा अभवन्नित्यत्र तस्या इत्यध्याहारः । तन्मुखमित्यसमस्तं वा । तदित्य॰ व्ययं तस्या इत्यर्थे ॥ १३ ॥

मूलम्

सौम्येन स्तनयोर्युग्मं मध्यमैन्द्रेण चाभवत् । वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥१४ ॥

गुप्तवती

सौम्येनेति । सौम्यशब्दादण् । सोमशब्दाच्छान्दसो वा ट्यण् । जङ्घोरू इति भिन्ने पदे । नितम्बः कटिपश्चाद्भागः ॥ १४ ॥

चतुर्धरी

सौम्येन चान्द्रमसेन तेजसा । जङ्घोर्विति प्राण्यङ्गत्वादेकवद्भावः । दीर्घपाठस्तु एकवद्भावस्य वैदिकः । तथा समर्थनीयः । अन्य आह । जङ्घासहितौ ऊरू जङ्घोरू इति । वारुणेनैव जङ्घा अभवत् । ऊरू नितम्बस्तेजसा भुव इति वा । नितम्बः कटिपश्चाद्भागः ॥ १४ ॥

शान्तनवी

सौम्येन सोमदेवताकेन तेजसा तस्या नार्याः स्तनयोः युग्ममभवत् । ऐन्द्रेण तेजसा मध्यम् अभवत् । वरुणसंबन्धिना वारुणेन तेजसा जङ्घोरू जङ्घाभ्यां सहितौ ऊरू जङ्घोरू अभवताम् । जङ्घे च ऊरू च वारुणेन तेजसा प्रत्येक॰ मभूतामित्यर्थः । अन्यथा जानुबाहुवत् प्राण्यङ्गत्वादे ॰कवद्भावान्नपुंसकत्वाद्ध्रस्वत्वं स्यात् । भुवस्तेजसा नितम्बः कटिप्रदेशः अभवत् । जङ्घोरू इति नदधिपयआदित्वान्नैकवचनमिति पक्षे जङ्घा च ऊरुश्चेति जात्यैकवचनं विग्रहे ॥ १४ ॥

नागोजीभट्टी

सौम्येनेति । सोमसंबन्धिनेत्यर्थः । छान्दसत्वादिदमर्थेऽपि यण् । अत एव श्वेतस्तनी । ऐन्द्रेण मध्यं रक्तम् । जङ्घे ऊरू इत्यत्र पूर्वनिपातैकवद्भावविधेर रनित्यत्वान्न दोषः । भिन्ने पदे वा । जङ्घे ऊरू च वारुणेनेत्यन्वयः । भुवः पृथ्व्याः नितम्बः कटिपश्चाद्भागः ॥ १४ ॥

जगच्चन्द्रचन्द्रिका

सौम्येनेति ॥ १५ ॥ १४ ॥

दंशोद्धारः

सौम्येनेति । वारुणेन जङ्घा ऊरू, नितम्बश्च भुवस्तेजसेति सम्बन्धः । चकारो भिन्नक्रमः नितम्ब इत्यह्याग्रे बोध्यः । केचित् जङ्घोर्विति । प्राण्यङ्गत्वादेकवद्भावे अर्शआदित्वाद्दीर्घं इत्याहुः । तन्न । द्वन्द्वे जङ्घोरुशब्दस्य पूर्वनिपातप्रसंगात् 'लक्षणहेत्वोः' इत्यादिनिर्देशात्पूर्वनिपातानियमाद्वा कथंचिद्योज्यम् । जङ्घासहिते ऊरू इति वा बोध्यम् । जङ्घोरु इति ह्रस्वपाठः सुगमः ॥ १४ ॥

मूलम्

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा । वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥१५ ॥

गुप्तवती

॥ १५ ॥

चतुर्धरी

तदङ्गुल्यः पादाङ्गुल्यः । वसूनां तेजसा इत्यनुषज्यते ॥ १५ ॥

शान्तनवी

ब्रह्मणस्तेजसा तस्या नार्याः पादाव भवताम् । तदङ्गुल्यः पादयोरङ्गुल्यः अर्कतेजसा अभवन् । अष्टानां वसूनां च तेजसा कराङ्गुल्यः अभवन् । कौबेरेण कुबेरसंबन्धिना तेजसा नासिका अभवत् ॥ १५ ॥

नागोजीभट्टी

ब्रह्मण इति । अतएव पादौ रक्तौ । एतदुक्तं वैकृतिकरहस्ये । ‘श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला । रक्तमध्या रक्तपादा नीलजङ्घोरुन्मदा । सुचित्रजघना चित्रमाल्याम्बरविभूषणा । चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी' इति । एवं च रूपेणापि त्रिगुणत्वं सूचितम् । स्वस्य चित्रत्वात् चित्रमाल्यादिधारणम् । वसूनामितयस्य तेजसेति शेषः । एवमन्यत्रापि ॥ १५ ॥

जगच्चन्द्रचन्द्रिका

ब्रह्मणस्तेजसेति १६ ॥ १५ ॥

दंशोद्धारः

ब्रह्मण इति । तदङ्गुल्यः पादाङ्गुल्यः न तु तस्या अङ्गुल्यः । सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात् कराङ्गुल्यः इत्यस्य वैयर्थ्यापत्तेश्च ॥ १५ ॥

मूलम्

तस्यास्तु दन्ताः संभूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ १६ ॥

गुप्तवती

प्राजापत्येन दक्षप्रजापतिसंबन्धिना ॥ १६ ॥

चतुर्धरी

प्राजापत्येन दक्षप्रजापतिसंबन्धिना तेजसेति वामनपुराणदर्शनात् । जज्ञे जातम् ॥ १६ ॥

शान्तनवी

तस्या नार्याः दन्तास्तु प्राजापत्येन प्रजापतिसंबन्धिना तेजसा संभूताः समभवन् । प्राग्दीव्यतीयेषु अर्थेषु 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' । तथा नयनत्रितयं पावकतेजसा, वह्नितेजसा जज्ञे अजनिष्ट । जनेः कर्तारि परोक्षे लिट्यात्मनेपदम् ॥ १६ ॥

नागोजीभट्टी

तस्या इति । प्राजापत्येन दक्षादितेजसा । तेन ब्रह्मणस्तेजसा पादावित्यनेन न विरोधः । पावकोऽग्निः ॥ १६ ॥

मूलम्

द्वितीयोऽध्यायः २ ] गु गुप्तवत्यादिषट्टीकासंवलिता । ८९ कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ । प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २२ ॥

गुप्तवती

॥ २२ ॥

चतुर्धरी

अम्बुपतिर्वरुणः । ब्रह्मा अक्षमालां कमण्डलुं च ददावित्यन्वयः । प्रजापतिरिति ब्रह्मणो विशेषणं ब्रह्मा अक्षमालां कमण्डलुं चेति वामनपुराणदर्शनात् ॥ २२ ॥

शान्तनवी

यमः अन्तकः कालदण्डात् आकृष्य दण्डं कालदण्डम् आयुधं तस्यै देव्यै ददौ । अम्बुपतिश्च वरुणः पाशादाकृष्य पाशं ददौ । तस्यै देव्यै पाशाख्यं शस्त्रं ददौ । 'अश्वाह्वयशालिशीघ्रार्थे ⟨…⟩ पाशो बन्धनशस्त्रयोः' । प्रजापतिर्ब्रह्मा तस्यै देव्यै अक्षमालां जपमालां ददौ । कमण्डलुं च ददौ । ‘अत्री कमण्डलुः कुण्डी' । ब्रह्मा विप्रोऽपि कश्चित्स्यात् अत उक्तं प्रजापतिरिति । स मनुरपि स्यात् अत उक्तं ब्रह्मेति । 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' ॥ २२ ॥

नागोजीभट्टी

कालेति । उत्पाटयेति शेषः । प्रजानां पतिर्ब्रह्मा । अक्षमालां कमण्डलुं च ददावित्यन्वयः । ब्रह्माक्षमालां कमण्डलुमिति वामनपुराणात् ॥ २२ ॥

जगच्चन्द्रचन्द्रिका

कालदण्डादिति २३ ॥ २२ ॥

दंशोद्धारः

प्रजेति । प्रजापतिरिति ब्रह्मणो विशेषणम् । दक्षो वा प्रजापतिः ॥ २२ ॥

मूलम्

समस्तरोमकूपेषु निजरश्मीन्दिवाकरः । कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् ॥ २३ ॥

गुप्तवती

॥ २३ ॥

चतुर्धरी

कालश्चेति । कालो निमिषाद्यभिमानिनी देवता तस्या इति संक्षेपकत्वात् संप्रदानत्वम् । यद्वा संबन्धविवक्षायां षष्ठी । अन्य आह । खङ्गं दत्तवान् । तस्य खङ्गस्य चर्म च दत्तवान् । चर्म किंभूतम् । निर्मलं प्रदीप्तम् । अमु दीप्तौ इत्यस्य धातोः क्विपि रूपम् । अथवा चतुर्थ्येकवचनम् । 'बहुलं छन्दसि' इति सूत्रेण छन्दसि चतुर्थ्यर्थे षष्ठी बहुलं स्यात् । तस्ये इत्यर्थे तस्या इत्यर्थः ॥ २३ ॥

शान्तनवी

रविः निजान् आत्मीयान् रश्मीन् किरणान् तस्या देव्याः समस्तेषु सर्वेषु रोम्णां कूपेषु आधा ⟨…⟩ गतेषु ददौ निक्षिप्तवान् । 'किरणप्रग्रहौ रश्मी' 'खके नित्ये निजं त्रिषु' । कालो यमः तस्यै देव्यै निर्मलं खड्गं निर्मलं स्वच्छं चर्म च दत्तवान् । अङ्गत्राणसाधनं फलकं चर्म चर्ममयत्वाच्चर्म दत्तवान् । 'फलकोऽस्त्री फलं चर्म' 'कालो मृत्यौ महाकाले यमनेहसि च स्मृतः' ॥ २३ ॥

नागोजीभट्टी

समस्तेति । कालस्तदभिमानिनी देवता । तस्या इति संबन्धत्वेन विवक्षायां षष्ठी ॥ २३ ॥

जगच्चन्द्रचन्द्रिका

समस्तरोमेति २४ ॥ २३ ॥

दंशोद्धारः

समस्तेति । तस्यै इति वक्तव्ये तस्या इति षष्ठी तु शेषत्वविवक्षया रजकस्य वसु ददातीतिवत् । यद्वा तस्य आः च्छेदः इत्यव्ययमनुरूपार्थे । तस्य खड्गस्य आः योग्यं चर्मेत्यर्थः । तस्यै इति पाठः सुगमः ॥ २३ ॥

मूलम्

क्षीरोदश्श्यामलं हारमजरे च तथाम्बरे । चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २४ ॥

गुप्तवती

॥ २४ ॥

चतुर्धरी

अजरे अविनश्वरे नित्यनूतने अम्बरे वाससी कटकानि वलयानि ॥ २४ ॥

शान्तनवी

क्षीराण्युदकानि यस्य यस्मि ⟨…⟩ सन्वाक्षीरोदश्च । ‘उदकस्योदः संज्ञायाम्’ क्षीराब्ध्यधिदेवता अमलं हार मुक्ताहारं तस्यै देव्यै दत्तवान् । तथा स एव क्षीरोदः तस्यै देव्यै अजरे च नूतने जरारहिते अम्बरे वाससी दत्तवान् । ‘अम्बरं व्योम्नि वाससि' चूडामणिरित्यारभ्य श्लोकत्रयमेककर्तृकैकक्रियकं द्रष्टव्यम् । तथाहि विश्वकर्मा देवशिल्पी सूर्योऽपि । यदभ्यधुः । 'विश्वकर्मांकंसुरशिल्पिनोः' इति । विश्वस्य कर्मास्मादकांत् विश्वकर्मास्य सुरशिल्पिन इति विश्वकर्मा स देवशिल्पी तस्यै देव्यै तथा चातुर्येण रचितं दिव्यं दिवि भवम् । 'द्युप्रागपागुदक्प्रतीचो यत्’ । चूडामणिं शिरोरत्नं ददौ । तथा कुण्डले कर्णवेष्टनं सुवर्तुले तस्यै देव्यै स एव विश्वकर्मा ददौ । कटकोऽर्धर्चां दित्वादस्त्रियाम् । तथा स एव तस्यै देव्यै कटकानि वलयानि हस्तसूत्राख्यानि च ददौ । 'कटकोर्धचांदित्वादत्रियाम्' ॥ २४ ॥

नागोजीभट्टी

क्षीरोदश्वेति । अङ्गुलीयकरत्नदानान्तं क्षीरोदः कर्त्ता ॥ २४ ॥

जगच्चन्द्रचन्द्रिका

क्षीरोदश्वेति २५ ॥ २४ ॥

दंशोद्धारः

॥ २४ ॥

मूलम्

अर्धचन्द्रं तथा दिव्यं केयूरान्सर्वबाहुषु । नूपुरौ विमलौ तद्ग्रैवेयकमनुत्तमम् ॥ २५ ॥

गुप्तवती

॥ २५ ॥

चतुर्धरी

केयूरान् अङ्गदानि । 'अङ्गदं तु केयूरं पुन्नपुंसकम्' इत्यभिधानात् । नूपुरौ हंसकटकौ । ग्रैवेयकं ग्रीवाभरणम् । अनुत्तमं न विद्यते उत्तमं यस्मात् ॥ २५ ॥

शान्तनवी

तथा स एव तस्यै देव्यै शुभ्रम् अर्धचन्द्रम् अर्धचन्द्रस्य समप्रविभागः अर्धचन्द्रः तं ददौ ।'अर्धं नपुंसकम्' इति समासः । 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' । तथा स एव विश्वकर्मा तस्यै देव्यै सर्वबाहुषु सर्वेषु बाहुषु केयूरान् केयूराणि अङ्गदानि ददौ । केयूरोर्धर्चादित्वादस्त्रियाम् । तद्वत्पूर्ववत्स एव विश्वकर्मा तस्या देव्याः पादयोः नूपुरौ मञ्जीरौ विमलौ निमं ⟨…⟩ ो मञ्जीरौ ददौ । 'पादाङ्गदं तुलाकोटिर्मंजीरो नूपुरोऽस्त्रियाम् । हंसकः पादकटकः' । तद्वत् पूर्ववत् चातुर्येण रचितम् । अनुत्तमं नान्यदुत्तमं यस्मात्तदनुत्तमं वरेण्यं ग्रैवेयकं ग्रीवालंकारं कण्ठभूषणं तस्यै देव्यै ददौ । विश्वकर्मा 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकञ् । 'ना ⟨…⟩ सत्करिणां ग्रैवम्' इत्यत्र त्वनलंकारत्वादणेव ॥ २५ ॥

नागोजीभट्टी

विश्वकर्मणः परशुः अस्त्रकवचदातृत्वं चूडामण्यादिकवचदानान्तं विश्वकर्मकर्तृत्वमिहान्वयः । तन्मते अर्धचन्द्रशब्देन तदाकारो ललाटभूषणविशेषः ॥ २५ ॥

जगच्चन्द्रचन्द्रिका

अर्धचन्द्रमिति २६ ॥ २५ ॥

दंशोद्धारः

॥ २५ ॥

मूलम्

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च । विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥२६ ॥

गुप्तवती

॥ २६ ॥

चतुर्धरी

अङ्गुलीयकरत्नान्यङ्गुलीयकभूषणमुख्यानि ॥ २६ ॥

शान्तनवी

तथा स एव विश्वकर्मा देवशिल्पी तस्या देव्याः समस्तासु सकलासु अङ्गुलीषु योग्यानि अङ्गुलीयकरत्नानि समस्तानि तस्यै देव्यै ददौ । 'जिह्वामूलाङ्गुलेश्छः' स्वार्थे कन्। अङ्गुलीषु भवानि अङ्गुलीयकानि, अङ्गुलीयकानां रत्नानि अङ्गुलीयकान्येव वा रत्नानि । 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यभिधानतः गुणतः श्रेष्ठानि मनोज्ञानि अङ्गुलीयकरत्नानि। रमन्ते ऽस्मिन् रत्नम् । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' । यद्वा अङ्गुलीयकानि च रत्नानि चेति द्वन्द्वः। तथा स एव विश्वकर्मा तस्यै देव्यै अतिनिर्मलं परशुं च परान् श्यति खण्डयति परशुः तं परश्वधं ददौ । 'द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः' ॥ २६ ॥

नागोजीभट्टी

॥ २६ ॥

जगच्चन्द्रचन्द्रिका

अङ्गुलीयकेति २७ ॥

दंशोद्धारः

॥ २६ ॥

मूलम्

२६ ॥ अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् । अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २७ ॥

गुप्तवती

अभेद्यं दंशनं कवचम् ॥ २७ ॥

चतुर्धरी

अनेकरूपाणि बहुप्रकाराणि । अभेद्यं भेत्तुमशक्यं दंशनं कवचम् । चूडामण्यादिकं विश्वकर्मा ददाविलन्वयः । अम्लानानि म्लानिर्हीनानि पङ्कजानि यस्याम् ॥ २७ ॥

शान्तनवी

तथा अनेकरूपाणि अस्त्राणि तस्यै देव्यै ददौ विश्वकर्मा । शूलचक्रादिभ्यो देवैः दत्तेभ्योऽन्यान्यायुधानि अस्त्राणि तस्यै देव्यै दत्तवानित्यर्थः । अस्यन्ते अस्त्राणि । तथा स एव विश्वकर्मा अभेद्यं दंशनं तनुत्रं चर्म दंशनं च दिव्यं कवचं च तस्यै देव्यै ददौ । दंश्यते बध्यते दंशनं 'तनुत्रं वर्म दंशनम् । उरच्छदः कंकटोऽजगरः कवचोऽस्त्रियाम्' । अम्लानानि पङ्कजानि यस्यां सा । माल्यते धार्यते सा माला स्रक् । यद्वा नास्ति म्लानं म्लानिः सर्वदा येषां तानि अम्लानानि पङ्कजानि यस्यां सा ताम् । आपराम् आसमंतादाप्ता आप्तिक्रियापेक्षया आशब्दस्योपसर्गत्वम् । आपोऽम्भांसि यैः यानि वा तानि आपानि पङ्कजानि राति गृह्णति आपरा ताम् । ‘ऋक्पूरब्धूःपथामानक्षे’ इति अः समासान्तः । ‘द्व्यन्तरुपसर्गेभ्योप ईत्’ न तु ‘ईत्वमनवर्णान्तादिति वक्तव्यम्’इति स्मरणात् । इत्थं च आपराम् इति छेदः । यद्वा नास्ति परं श्रेष्ठं यतः सा आपरा अनुत्तमा ताम् । यद्वा न विद्यन्ते पराः शत्रवो यत्र धार्यमाणायां सा ताम् । यद्वा ततो दैवीतः अपरा न परा अपरा अभिन्ना अपृथग्भूता सदैव संलग्ना ताम् । यद्वा शिरसि उरसि च अपरां पृथग्भूतां शिरसि मालां माल्यरूपां स्रजम् ‘माल्यं मालास्रजौ मूर्ध्नि’ इत्यभिधानात् । उरसि कण्ठात् प्रालम्बरूपां मालां‘प्रालम्बमृजुलम्बि स्यात्’ कण्ठात् इत्यभिधानात् कण्ठाद्वक्षस्यवलम्बमानं माल्यं मालाख्यं प्रालम्बमुच्यते इति अपरत्वं पृथक्त्वं मालायाः ॥ २७ ॥ । ९१ द्वितीयोऽध्यायः २ ] गुप्तवत्यादिषट्टीकासंवलिता

नागोजीभट्टी

अम्लानेत्यारभ्य पङ्कजदानान्तं जलधिः कर्ता । तत्र पङ्कजं हस्ते रत्नसिंहयोर्दाने हिमवानदद॰ । दद दाने इत्यस्य लङि रूपम् । छान्दसत्वात्परस्मपदम् ॥ २७ ॥

जगच्चन्द्रचन्द्रिका

अत्राण्यनेकेति २८ ॥ २७ ॥

दंशोद्धारः

॥ २७ ॥

मूलम्

दजलधिस्तस्यै पङ्कजं चातिशोभनम् । हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ २८ ॥

गुप्तवती

॥ २८ ॥

चतुर्धरी

अददत् । ददानेरात्मनेपदिनोपि छान्दसत्वात् परस्मैपदम् । एवं युयुधुरिति, न चोत्पस्यन्ति चापरे , निरीक्षिष्यामि यन्मुनीन् इति यथा परस्मैपदेऽप्यात्मनेपदम् । भवेथाः सर्वदाम्बिके इति, यद्वा चान्यानकर्षतेति, खड्गेनकुंतत, प्राप्स्यसे मत्परिग्रहात्, स्वं राज्यं प्राप्स्यते भवानिति ॥ २८ ॥

शान्तनवी

जलधिः समुद्रः तस्यै देव्यै शिरसि उरसि विपथे अपराम्म्लानपङ्कजां मालाम् अददात् । डुदाञ् । भूतानद्यतने लङ् परस्मैपदम् । अददिति पाठे तु चक्षिङो डित्करणा ⟨…⟩ त् । अनुदात्तेत्त्वनिबन्धनमात्मनेपदमनित्ययात्मनेपदाभावः । किंच स एव जलधिः तस्यै देव्यै अतिशोभनमत्यर्थ मनोहरं पङ्कजं लीलारविन्दम् अददात् अदद्वा । वान् अद्रिराजः तस्यै देव्यै सिंहं वाहनं ददौ । वाहयति प्रापयति तद्वाहनम् । यद्वा वहति वाहनम् 'वाहनमाहितात्' प्रयोगात् 'अन्येषामपि दृश्यते' इति दीर्घः । यद्वा उह्यते प्राप्यते अनेनेति वाहनम् । 'वाहनमाहितात्' इति निपादुपधादीर्घत्वम् । हिनस्ति सिंहः पञ्चास्यः कण्ठीरवः । किंच स एव हिमवान् तस्यै देव्यै च विविधानि नानाप्रकाराणि नि अददात् ॥ २८ ॥

नागोजीभट्टी

॥ २८ ॥

जगच्चन्द्रचन्द्रिका

अददिति २९ ॥ २८ ॥

दंशोद्धारः

अददिति । अददिति परस्मैपदमार्षम् । ददेरनुदात्तेत्वात् । आत्मनेपदानित्यत्वं वा कल्प्यम् । दादिति पाठः सुगमः ॥ २८ ॥

मूलम्

ावशून्यं सुरया पानपात्रं धनाधिपः । शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २९ ॥

गुप्तवती

॥ २९ ॥

चतुर्धरी

सुरया अमृतेन अशून्यं पूरितम् । मणिभ्यो महान् महामणिः तेनेत्यर्थः ॥ २९ ॥

शान्तनवी

धनाधिपः कुबेरः तस्यै देव्यै सुरया अशून्यं सर्वदा परिपूर्णं पानपात्रं ददौ । सूयते पारिवास्यते गन्धोत्तमा । इमां पृथिवीं धत्ते धारयति सर्वनागेशः सर्वनागाधिपः शेषः अनन्तश्च महामणिविभूषितम् । अभिमस्थे॰ वयः ॥ २९ ॥

नागोजीभट्टी

ददाविति । अनेनाष्टादशभुजा सहस्रभुजा चैषेति सूचितम् । तदुक्तं वैकृतिकरहस्ये । 'अष्टादशभुजा या सा सहस्रभुजा सती' । अष्टादशभुजधार्याणां विशिष्योक्तेः सामान्यतः अन्यैरपि देवैरायुधैरित्युक्तेश्चेति भावः । 'आयु॰ न्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् । अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा । चक्रं त्रिशूलं परशुः शङ्खो घण्टा च ाकः । शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः । अलंकृतभुजामेभिरायुधैः कमलासनाम् । सर्वदेवमयीमीशां महालक्ष्मीमिमां । पूजयन्सर्वलोकानां स देवानां प्रभुर्भवेत' । इति एवंस्वरूपायुधैरस्या ब्राह्मीत्वं वैष्णवीत्वं त्रिगुणात्वं च सर्वमूलभूतशक्तेरयं दुर्भावस्तत्समान इति च सूचितम् । यद्यप्यत्र ब्रह्मादीनामिन्द्रादीनां च शरीरान्निष्कान्ततेजो देवीविग्रहरूपेणाभिव्यक्तमात् आयुधानि च देवैः स्वस्वशूलादिभ्यो विनिर्गमय्य दत्तानि इत्येवोक्तम्, तथापि देवीशक्त्यंशा एव तत्तद्देवपालनीयैकदेशलनशक्तित्वेन ये देव्या निवेशितास्ते एव महिषवधेन सर्वलोकरक्षणाय पुनरेकीभूय देवीरूपं प्राप्ताः । एवं तदायुधाः निजर्यंशा अपीति बोध्यम् । 'अहं विभूत्या बहुभिः' इत्यादितृतीयचरितगतवचनसमूहात् । लक्ष्मीतन्त्रेऽपि शक्रं प्रति लक्ष्मीनानि । 'महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे । हिताय सर्वदेवानां जाता महिषमर्दिनी । मदीयाः शक्तिलेशा ये व देवशरीरगाः । धृतं मया तैः संभूतै रूपं परमशोभनम् । आयुधानि च देवानां यानि यानि सुरेश्वर । मच्छक्तयस्तदाकाण्यायुधानि ममाभवन्' इति ॥ २९ ॥

जगच्चन्द्रचन्द्रिका

ददावशून्यमिति ३० ॥ २९

दंशोद्धारः

॥ ॥ २९ ॥

मूलम्

९२ दुर्गा प्तशती । [ द्वितीयोऽध्यायः २ नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् । अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ ३० ॥

गुप्तवती

॥ ३० ॥

चतुर्धरी

नागहारं नागलोकोद्भवम् । इमां धत्ते धारयति ॥ ३० ॥

शान्तनवी

नागहारं नागरूपं हारं तस्मै देव्यै ददौ । नागाः सर्पेभ्योऽन्ये देवयोनय इत्याहुः । 'अनन्तो नागराजः स्यात्सर्पराजस्तु वासुकिः । काद्रवेये गजे सींसे नागः स्यान्नागकेशरे' । यैरायुधालंकारादिकं देव्यै समर्पितं देवैस्ततोऽन्यैरपि मुरः सर्वैर्विभूषणैस्तथा आयुधैश्च ॥ ३० ॥

नागोजीभट्टी

पूर्वश्लोकेन सह व्याख्याताऽस्य पद्यस्य टीका ॥ ३० ॥

जगच्चन्द्रचन्द्रिका

नागहारमिति ३१ ॥ ३० ॥

जगच्चन्द्रचन्द्रिका

नागहारमिति ३१ ॥ ३० ० ॥

दंशोद्धारः

नागहारमिति । नागलोके भवो हारो नागहारः । नाग एव वा हारत्वमापन्नः ॥ ३० ॥

मूलम्

संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः । तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ ३१ ॥

गुप्तवती

॥ ३१ ॥

चतुर्धरी

साट्टहासं महाट्टहाससहितं यथा स्यात् । कृत्स्नमशेषं नभो व्योम । भुवर्लोक इत्यर्थः । आपूरितमभिव्याप्तम् ॥ ३१ ॥

शान्तनवी

संमानिता पूजिता सती देवी साट्टहासम् अत्यधिकहासगर्भं यथा स्यात्तथा उच्चैः उदग्रं यथा स्यादुदान्तं वा यथा स्यात्तथा मुहुर्मुहुर्वारंवारं ननाद । नद् अव्यक्ते शब्दे । मुखार्तो नादमानन्दतः सिंहनादं च कारणम् । एतेन संग्रामतः शत्रून् संहारयिष्यामि इति वीररसाविर्भावः सूचितः । सिंहनादेन ‘क्ष्वेडा तु सिंहनादः स्यात्’ । सिंहस्येव नादो नदनं वीराणां योद्धुकामानां खलु भवति । अट्ट अतिक्रमणहिंसनयोः । भावे घञ् । अट्टनम् अट्टः । अट्टेन जातो ऽसोऽट्टहासः । अट्टहासेन सहितं साट्टहासम् । क्रियाविशेषणमेतत् । तस्या देव्याः घोरेण भयंकरेण नादेन सिंहनादेन कृत्स्नं नभः अन्तरिक्षम् आपूरितम् अभिव्याप्तं कवलितम् ॥ ३१ ॥

नागोजीभट्टी

संमानितेति साट्टहासमिति नादक्रियाविशेषणम् । साट्टहासोऽत्यर्थहासः । नभ इति भुवर्लोकोपलक्षणम् ॥ ३१ ॥

जगच्चन्द्रचन्द्रिका

संमानितेति ३२ ॥ ३१ ॥

दंशोद्धारः

॥ ३१ ॥

मूलम्

अमायतातिमहता प्रतिशब्दो महानभूत् । चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ ३२ ॥

गुप्तवती

अमायता अपर्याप्ताधिकरणकरणकेन ॥ ३२ ॥

चतुर्धरी

अमायतेति । मीयतेऽनयेति मा परिमाणं तां यता गच्छता मायता । न मायता अमायता । अपरिमितेनेत्यर्थः । यद्वा अमा ( रवि ) रश्मिविशेषः तां यता गच्छता । स्पृशतेति यावत् । 'अमा नाम रवे रश्मिः सूर्यलोके प्रतिष्ठितः' इति स्मरणात् । यद्वा अमायता सह गच्छता । अर्थाद्दृष्टहासेन । 'अमा सह समीपे च' इत्यभिधानात् । यद्वा मानं माया न विद्यते माया यस्य सोऽमायः तद्वदिव आचरतीत्यमायिः तेन अमायता । शत्रन्तात्तृतीयेत्यन्ये । यद्वा अमायस्य भावः अमायता अमितत्वं तया । अमायतातिमहतेत्येकं पदम् । अतिमहतेति हेतुगर्भं विशेषणम् । प्रतिशब्दो मुख्यसदृशाध्वन्यन्तरम् । चुक्षुभुश्चलिताः ॥ ३२ ॥

शान्तनवी

अथ च अमायता असमीपे आयता आगच्छता अतिमहता अतिदीर्घेण वर्धमानेन तेन सिंहनादेन घोरेण जनितः प्रतिशब्दः प्रतिध्वनिः महानभूत् । इण् गतौ । आङ्पूर्वः । यद्वा अनुपसर्गः । शतरि इणो यणादेशः । तृतीयान्तं नादेनेत्यस्य विशेषणम् । अमायतेतिः । 'समीपार्थे सहार्थे च स्यादमेत्येतदव्ययम् ।' कश्चित्तु माङ्माने दैवादिकः आत्मनेपदानित्यत्वेन शत्रन्तं मायतेत्येतदित्याख्यत् । तन्न ङित्वनिमित्तात्मनेपदस्यानित्यत्वाभ्युपगमात् । यद्वा माङ् माने दिवादिः । भूतानद्यतने लङ् । तेन नादेन कृत्स्नं नभः आपूरितं सत् अमायत् परिमितम् अजायत । अहो विभुः नभः अनन्तं महत्परिमाण मपि तेन सिंहनादेन आपूरितत्वादमायत परिमितमजायतेत्याश्चर्योक्तिः । अन्यथा विभु तावन्न परिमीयते । परिमीयते चेद्विभुःस्वव्याहतिरिति । तेन प्रतिशब्देन निमित्तेन सकला लोकाः चुक्षुभुः क्षोभमापुः । क्षुभ संचलने । 'लोकस्तु भुवनं जने' । तेन प्रतिशब्देन समुद्राश्च चकम्पिरे सरित्पतयश्च कम्पमापुः । कपि चलने ॥ ३२ ॥ द्वितीयोऽध्यायः २ ] गुप्तवत्यादिसप्तटी काषंवलिता । ९२

नागोजीभट्टी

अमायतेति । मा माने दैवादिकण्यन्ते नञ्समासः । तेन असंभवतेत्यर्थः । अस्य नभ ⟨…⟩ यादिः ॥ ३२ ॥

जगच्चन्द्रचन्द्रिका

अमायतेति ३३ ॥ ३२ ॥

दंशोद्धारः

तस्या इति । मीयतेऽनयेति माता मातीति मायन् न मायन् अमायन् तेन । अमितेनेत्यर्थः । अम इत्यव्ययं सहार्थे । सह गच्छता अट्टहासेन सहेत्यर्थः । यद्वा अमा सूर्यरश्मिविशेषः । ‘अमा नाम सूर्यरश्मिः लोके प्रतिष्ठिता' इति वचनात् तां यथाऽस्पृशतेत्यर्थः । यद्वा मानं मायः न विद्यते मायो यस्येत्यमायः । स इवाचरन्नन् तेन । घञन्तान्माधातोर्नैवसमासेऽमायशब्दादाचारक्विबन्तात् । यद्वा मानं मा तामयतीति मायः । कर्मण्यण् । न ऽमायस्तस्य भावोऽमायता तया । अतिमहतेति समस्तं पदम् ॥ ३२ । वाल वसुधा चेलुः सकलाश्च महीधराः । जयेति देवाश्च मुदा तामूचुः सिंहवादिनीम् ॥ ३३ ॥

गुप्तवती

॥ ३३ ॥

चतुर्धरी

महीधराः पर्वताः अर्थापत्त्यलंकारोऽयम् ॥ ३३ ॥

शान्तनवी

चचाल वसुधा भूः चलनमाप । चल कम्पने । सकलाश्च महीधराः पर्वताः चेलुः कंपिरे ⟨…⟩ मापुः । चल कम्पने । सर्वत्र कर्तरि लिट् । सिंहो वाहनं यस्याः सा सिंहवाहना तां सिंहवाहनां देवीम् । जय लोकोत्कर्षेण सेति देवा ऊचुः । सिंहवाहिनीमिति पाठे सिंहाः वाहयंत्यात्मानं सिंहवाहिनी तां सिंहवाहिनीम् ॥ ३३ ॥

नागोजीभट्टी

चचालेति । महीध्राः पर्वताः ॥ ३३ ॥

जगच्चन्द्रचन्द्रिका

चचालेति ॥ ३४ ॥ ३३ ॥

दंशोद्धारः

जयेति ॥ ३३ ॥

मूलम्

⟨…⟩ वुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः । दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ॥ ३४ ॥

गुप्तवती

॥ ३४ ॥

चतुर्धरी

संक्षुब्धमाकुलीकृतम् ॥ ३४ ॥

शान्तनवी

अथो एनां देवीं भक्तिनम्रात्ममूर्तयो मुनयस्तुष्टुवुः चकारादानर्चुश्च । भक्त्या नम्राः आत्ममूर्तयो ते तथोक्ताः । आत्ममूर्तयः स्वकीयाः । तदित्थम् । देव्याः साट्टहाससिंहनादेन समस्तं त्रैलोक्यं त्रिभुवनं संक्षुब्धं दृष्ट्वा संक्षोभं वीक्ष्य ते सर्वे अमरारयः महिषासुराद्याः दैत्याः सन्नद्धाखिलसैन्याः उदायुधाः सन्तः समुत्तस्थुः योद्धुमुत्थिता अभूइत्यन्वयः । सम्यक् क्षुब्धं संक्षुब्धम् । क्षुब्धशब्देन दध्यादिमथनेन साधनमुच्यते । क्षुधादन्यत्र जृम्भितमित्येव भवति इह नात्संक्षुब्धमिव संक्षुब्धम् । यदाहुः । क्षुब्धस्वान्तेति निपातनान्मन्थातिरिक्तविषयः क्षुभितमिति प्राप्नोति तत्र परिहारः । गिरिनदींस्यादमिति । 'क्षुब्धागिरिनदींस्याद ⟨…⟩ मुपमानाद्रविष्यति' इति । त्रयो लोकाः त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे अमराणाम् अरयः अमरारयः अमराः अरयो येषां ते अमरारयः महिषासु ⟨…⟩ दिदैत्याः ॥ ३४ ॥

नागोजीभट्टी

तुष्टुवुरिति । भक्त्या नम्रः अपकृष्टस्वज्ञानवानात्मा शरीरं येषाम् । संक्षुब्धम् आकुलं जातमिति । अमरारयश्च संक्षुब्धा इत्यर्थः ॥ ३४ ॥

जगच्चन्द्रचन्द्रिका

तुष्टुवुरिति ॥ ३५ ॥ ३४ ॥

दंशोद्धारः

आत्मा अन्तःकरणम् । मूर्तिः शरीरम् । दृष्टेति । क्षुब्धमन्थेति निपातितत्वात्संक्षुब्धमिव संक्षुब्धपचारात्साधु ॥ ३४ ॥

मूलम्

द्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः । आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥३९ ॥

गुप्तवती

॥ ३५ ॥

चतुर्धरी

सन्नद्धानि सज्जितानि अखिलसैन्यानि येषाम् । समुत्तस्थुः उद्योगं चक्रुः । उदायुधाः उद्यतास्त्राः । इत्यव्ययं क्रोधाविष्कारस्यानुकारे ॥ ३५ ः॥

शान्तनवी

सन्नद्धाः व्यूढकण्टकाः अखिलाः सैन्याः सैनिकाः येषां सेनाधीश्वराणां ते तथोक्ताः । 'सन्नद्धो ः सज्जो दंशितो व्यूढकण्टकः' 'सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते' । योद्धुमूर्ध्वीकृतानि आयुधानि यैस्ते उदा१ 'जयेति च मुदा देवास्तामूचुः निह्वाहनाम्' इत्थमपि शान्तनवीस्थः पाठः । ९६ दुर्गा सप्तशती । [ द्वितीयोऽध्यायः २ वर्तमानानां विंशत्यादीनां संख्यानां द्विवचनबहुवचने अपि भवतः । एकशेषात् । ततश्च पञ्चाशद्भिरित्यत्र बहुवचनं युक्तम् । नियुतैरित्यत्र बहुत्वात् ॥ ४१ ॥

नागोजीभट्टी

अयुध्यतेति । अयुतानामिति नियुतैरिति च तद्व्रतबहुत्वविवक्षया बहुवचनम् । एवमग्रेपि । 'एकं दशशतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेवच । वृन्दं खर्वो निखर्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्' इति ब्रह्माण्डे ॥ ४१ ॥

जगच्चन्द्रचन्द्रिका

अयुध्यतेति ४२ ॥ ४१ ॥

दंशोद्धारः

॥ ४१ ॥

मूलम्

अयुतानां शतैः षड्भिर्वाष्कलो युयुधे रणे । गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ ४२ ॥

गुप्तवती

एवं 'गजवाजिसहस्रौघैरनेकैरस्त्रप्रदर्शनः । उग्रश्चात्युग्रवीर्यश्च त्रिनेत्रश्च महाबलः' इति चरणत्रयम् धिकम् ॥ ४२ ॥

चतुर्धरी

अयुतानां षड्भिः शतैः षष्टिलक्षैः रथानामित्यनुवर्तते । गजवाजिसहस्राणामोघैर्वृन्दैः ॥ ४२ ॥

शान्तनवी

रणे युद्धे बाष्कलो नाम महासुरः अयुतानां षड्भिः शतैः युयुधे । रथानां यानि अयुतानि षड्भिः शतैर्गुणितानि षष्टिलक्षाणि तैः साधनैः देव्या समं बाष्कलो युद्धं चकार । तस्मिन्युद्धे उग्रदर्शनो नाम महासुरः अनेकैर्गजवाजिसहस्रौघैश्च रथानां कोट्या च वृतः परिवेष्टितः सन् देव्या समम् अयुध्यत । गजाश्च वाजिनश्च भूयांसः गजवाजि । सेनाङ्गत्वात् द्वन्द्वैकवद्धावः । गजवाजिनो भूयांसः सहस्राणि अपरिमितानि तेषामोघाः समूहाः अनेके अपरिमिताः तैः ॥ ४२ ॥

नागोजीभट्टी

अयुतानामिति । गजवाजीत्यतो बिडालसैन्यम् ॥ ४२ ॥

जगच्चन्द्रचन्द्रिका

अयुतानामिति ४३ ॥ ४२ ॥

मूलम्

( ६ दंशोद्धारः ॥ ४२ ॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत । बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥४३ ॥

गुप्तवती

बिडालाख्य इति । बिडालाक्ष इति पाठ एव मुख्यः । वामनादिपुराणेषु ‘दुर्धरो दुर्मुखश्चैव बिडालनयनस्तथा' इत्यादिदर्शनात् आख्येतिपाठे नामैकदेशपरतया व्याख्येयम् । एवं बिडालस्यासिना कायादित्युत्तराध्यायप्रयोगोपि । अयुतानां पञ्चाशदयुतानि पञ्चाब्जानि । शतकोटिपञ्चकेनेतियावत् ॥ ४३ ॥

चतुर्धरी

रथानां च कोट्या वृतः परिवारितः परिवारितनामाऽयुध्यतेत्यन्वयः । बिडालस्याक्षिणी इवाक्षिणी यस्य स बिडालाक्षः । बिडाल इत्याख्या यस्येति केचिन् । तत्र 'दुर्धरो दुर्मुखश्चैव बिडालनयनोऽपरः' इति वामनपुराणव चनात् । अथेत्यानन्तर्ये ॥ ४३ ॥

शान्तनवी

वृतः परिवेष्टितः । अथच रथानां कोट्या वृतः । कोटिः संख्याविशेषः । कोटिरर्बुदसंज्ञा संख्या । प्रमु तसंज्ञं लक्षम् । अर्बुदसंज्ञा कोटिरिति ह्याहुः । अथ तत्र संयुगे संग्रामे बिडालाख्यः बिडालो नाम महादैत्यः रथानां पञ्चा शद्भिरयुतैः पञ्चभिर्लक्षैः ॥ ४३ ॥

नागोजीभट्टी

वृत इति । अथ तेषां वधानन्तरम् । अयुतानां पञ्चाशद्भिरयुतैः परिवारितो बिडालनामा तत्र संयुगे युयुधे इत्युत्तरश्लोकेनान्वयः । 'दुर्धरो दुर्मुखश्चैव बिडालनयनस्तथा' इति वामनपुराणेपि बिडालनयनशब्दो योगरूढो न केवलं यौगिकः । प्रकृते च नाम्नैकदेशे नामग्रहणम् । अतएव बिडालस्यासिनेति वक्ष्यमाणं संगच्छते ॥ ४३ ॥

जगच्चन्द्रचन्द्रिका

वृतो रथानामिति ४४ ॥ ४३ ॥

दंशोद्धारः

बिडालाक्ष इति पाठः । 'बिडालनयनोऽ ऽपरः' इति वामनपुराणात् । बिडालस्यासिनेति नामैकदेश ग्रहणम् । बिडालाख्य इति क्वचित् ॥ ४३ ॥

मूलम्

युयुधे संयुगे तत्र रथानां परिवारितः । अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ ४४ ॥

गुप्तवती

॥ ४४ ॥

चतुर्धरी

रथानामयुतानां च पञ्चाशद्भिरयुतैः । पञ्चाश ⟨…⟩ कोटिभिरित्यर्थः । परिवारितो वेष्टितः । संयुगे रणं । अन्ये च चण्डमुण्डरक्तबीजाद्यः । अयुतशो लक्षयुता लक्षसंख्याका वः ॥ ४४ ॥ १ 'बिडालाख्यो महादैत्यः' इति शान्तनवीपाठः । 'विडालाक्षः' इत्यपि पाठः कैश्चिद्व्याख्यातः । ९८ दुर्गास ंशक्तां । [ द्वितीयोऽध्यायः २

दंशोद्धारः

तोमरैरिति । तोमरैः सर्वलादिभिः । भिन्दिपालैः । क्षेपणीभिः शक्तिभिः शल्यैः । मुसलैरयोग्रदण्डः परशुभिः कुठारैः । पट्टिशैर्विस्तीर्णखड्गैः ॥ ४६ ॥

मूलम्

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः । केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे॥ ४७ ॥

गुप्तवती

॥ ४७ ॥

चतुर्धरी

परशुभिः कुठारिकाभिः । पट्टिशैः खड्ग विशेषैः । मुशलपट्टिशौ दन्त्यमध्यान्तौ तालव्यमध्यान्तावपि । महापट्टिसभल्लभव्वाणगुरुमुसललंबिनीति(?)भट्टिस्मरणात् । 'वंशः करीशकमुशलमिति' । 'पट्टिश पाशका-पाशव ⟨…⟩ योशा' इति वोष्मभेदात्(?)॥ ४७ ॥

शान्तनवी

खण्डयति भिनत्ति खड्गः द्विधारः करवालोऽसिरित्यर्थः । परान् श्यन्ति तनूकुर्वन्ति परशवः कुठारभेदाः । 'पट्टिः क्षेत्रादिविन्यासे हिंसाग्न्याधारयोरपि' । पट्टिर्धाराविशेषोऽस्त्यस्मिन् पट्टिशः । लोमादित्वात् शः । परशुभिः रहिताः पट्टिशाः परशुपट्टिशाः तैः । परशवश्च पट्टिशाश्च आयुधविशेषा इति द्वन्द्वे तु सेनाङ्गत्वात् द्वन्द्वैकवद्भावः स्यात्। ततो युद्धप्रवृत्तेरनन्तरं केचिन्महासुरा देवीं हन्तुं शक्तीर्विक्षिपुः । क्षिप प्रेरणे । आचिक्षिपुरिति पाठे प्रत्योक्तुमाकृष्टवन्तः । तथा केचिद्देवीं हन्तुं पाशांश्चिक्षिपुः पाशान् प्रेरितवन्तः ॥ ४७ ॥

नागोजीभट्टी

युयुधुरिति । केचिद्देव्या इति शेषः । अपर इत्युत्तरान्वयि ॥ ४७ ॥

जगच्चन्द्रचन्द्रिका

युयुधुः संयुगे देव्या खड्गैरिति ४८ ॥ ४७ ॥

दंशोद्धारः

केचिच्चेति । प्रचक्रमुः उद्यममित्यध्याहारः । उद्यमं प्रकर्षेण चक्रुरित्यर्थः । तेनाकर्मकत्वाभावात् 'प्रोपाभ्याम्' इत्यात्मनेपदं न । यद्वा प्रेत्युपसर्गप्रतिरूपकमव्ययं न तूपसर्गः ॥ ४७ ॥

मूलम्

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः । सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ ४८ ॥

गुप्तवती

॥ ४८ ॥

चतुर्धरी

प्रचक्रमुः प्रक्रान्ताः ॥ ४८ ॥

शान्तनवी

तथैव अपरे केचित्तु खड्गप्रहारैर्देवीं हन्तुं प्रचक्रमुः । आदिकर्मणि प्रयोक्तव्ये 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदेन भाव्यमितिचेत् । उच्यते । पूर्वं धातुः साधनन युज्यते । पश्चादुपसर्गेणेत्यादिकर्मणि वृत्तिः । अथवा नायं प्र इत्युपसर्गः तर्हि प्रोपसर्गप्रतिरूपकः अव्ययाह्वयः । अन्यथा प्रचक्रमिरे इत्यात्मनेपदमेव स्यात् । ततः सा देवी विजिगीषमाणा चण्डिकापि निजान् ⟨…⟩ यानि शस्त्राणि खड्गादीनि अस्त्राणि च बाणादीन्यायुधानि वर्षति प्रवर्तयति तच्छीलेति तथोक्ता सती तानि महासुरप्रवर्तितानि प्रयुक्तानि शस्त्राणि खड्गादीनि अस्त्राणि च बाणादीन्यायुधानि ॥ ४८ ॥

नागोजीभट्टी

देवीमिति । अपरे तु ते प्रसिद्धदैत्या इत्यर्थः । 'प्रोपाभ्याम्' इत्यात्मनेपदं न । छान्दसत्वात्॥४८॥

जगच्चन्द्रचन्द्रिका

देवीं खड्गेति ४९ ॥ ४८ ॥

दंशोद्धारः

॥ ४८ ॥

मूलम्

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी । अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ ४९ ॥

गुप्तवती

अनायस्तम् आयासजन्यविकारमप्राप्तम् आननं यस्याः सा ॥ ४९ ॥

चतुर्धरी

अनायस्तानना अविकृतमुखी । 'आयस्तस्तेजिते क्षिप्ते क्लेशिते कुपिते हते' इत्यभिधानात् ॥ ४९ ॥

शान्तनवी

लीलयैव प्रचिच्छेद द्वेधा चकार खण्डयामास । छिदिर् द्वैधीकरणे । हलादिः शेषे ऽनुः प्रसङ्गनिशानात्सिद्धमिति प्रसक्तोपि । ननु किं हलादिः शेषः नावयवावयवः । समुदायावयवो भवतीति वचनात् । शास्त्राण्यस्त्राणि चण्डिकेति पाठे अन्तरेणापि चकारे चार्थोऽर्थतः क्वचिल्लभ्यते । यथा अहरहर्नयमानोपि गामश्वं पुरुषं पशुव्रजं वैवस्वतो न तृप्यतीति वाक्ये । अथवा शस्त्राण्यस्त्राणि चाम्बिका इति पाठः । 'शास्त्राण्यस्त्राणि चेश्वरी' इति तु क्वचित्पाठः । लीला हेलाकिल ⟨…⟩ ः खेला क्रीडा वा तथा । अनायस्तमखिन्नमम्लानम् आननं मुखं यस्याः सा तथोक्ता देवी विजिगीषमाणा सर्वेब्रह्मादिभिर्ऋषिभिर्वसिष्ठादिभिश्च । यद्वा नारदादिभिः सुरर्षिभिः स्तूयमाना ईश्वरी च भगवती असुराणां देहेषु । यद्वा असुरेषु असुरसंबन्धिषु देहेषु शस्त्राणि खड्गादीनि । अस्त्राणि बाणादीन्यायुधानि ॥ ४३ ॥

नागोजीभट्टी

लीलयैवेति । आयासरहितानना ॥ ४३ ॥

जगच्चन्द्रचन्द्रिका

लीलयैवेति ५० ॥ ४९ ॥

दंशोद्धारः

॥ ४३ ॥

मूलम्

गुप्तवत्यादिसप्तटी कासंवलिता । ९९ मोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी । सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ ५० ॥

गुप्तवती

धुताः कम्पिताः सटाः केसराणि ग्रीवा वा यस्येति यावत् ॥ ५० ॥

चतुर्धरी

धुतसटः कम्पितकेसरः । दन्त्यमध्यस्तालव्यम ⟨…⟩ श्च । केशरः केसरोऽपीति द्विरूपात् । केसरी ः ॥ ५० ॥

शान्तनवी

मुमोच प्रयुक्तवती प्रेरितवती । ईश्वरस्य स्त्री ईश्वरी । यद्वा 'अश्नोतेराशुकर्मणि वरट् ⟨…⟩ चेच्चोपधायाः' । ईश्वरी विश्वव्यापिका भगवतीत्यर्थः । स प्र ⟨…⟩ ज्ञः देव्याः वाहनीभूतः केसरी सिंहोऽपि क्रुद्धः धुतसटः कम्पितस्कन्धकेः सन् ॥ ५० ॥

नागोजीभट्टी

मुमोचेति । उत्तरार्धमुत्तरान्वयि । धुताः कम्पिताः सटा येन ॥ ५० ॥

जगच्चन्द्रचन्द्रिका

मुमोचासुरेति ५१ ॥ ५० ॥

दंशोद्धारः

॥ ५० ॥

मूलम्

वारासुरसैन्येषु वनेष्विव हुताशनः । निःश्वासान्मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ ५१ ॥

गुप्तवती

॥ ५१ ॥

चतुर्धरी

॥ ५१ ॥

शान्तनवी

असुरसैन्येष्विति । असुरसैन्येषु चचार प्रससार परिवभ्राम । केषु क इव । वनेषु हुताशनोऽभि। सिंहः क्रोधेन ज्वलद्रूपस्तद्धुताशन इव । हुताशनसादृश्यं मिश्रत्वं वर्णितम् । यथाच वनानि वनाग्निदग्धानि भस्मीस्युथा दैत्यसैन्यान्यपि देवीवाहनीभूतसिंहरोषानलदग्धानि भवेयुरिति र्दृश्यमन्यानां वनसादृश्यं द्रष्टव्यम् । ‘क्रुद्धः कण्ठीरवो नुज्ज्वलोज्ज्वलदीधितिः । उद्गमन्निव सज्ज्वालमुज्ज्वालि ज्वलनं युधि’ इति भावः । ‘प्रतिनस्तु सटा जटा’ इत्यभिधानात् । नः शिखा सटेत्युच्यते । इह तु सटेव सटा इत्युपमानात् धुनाः सटा येन स तथोक्त इति सटाप्रयोगसिद्धिः । अम्बिका का रणे संग्रामे महासुरैः समं युद्ध्यमाना सती यान् यान् ⟨…⟩ ानेव यावत एव निःश्वासान् उच्छ्वासान् मुमुचे उज्झितवती’ १॥

नागोजीभट्टी

चचारेति । उत्तरार्धमुत्तरान्वयि । यान् यावनः ॥ ५१ ॥

जगच्चन्द्रचन्द्रिका

चचारासुरेति ५२ ॥ ५१ ॥

दंशोद्धारः

॥ ५१ ॥

मूलम्

एव सद्यः संभूता गणाः शतसहस्रशः । युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ ५२ ॥

गुप्तवती

॥ ५२ ॥

चतुर्धरी

ते निःश्वासा एव गणाः संभूता इत्यन्वयः सद्यस्तत्क्षणात् ॥ ५२ ॥

शान्तनवी

ते एव तावन्त एव निःश्वासाः प्रत्येकं सद्यः तस्मिन्नेव क्षणे सहस्रशः गणाः चण्डिकागणाः संभूताः ⟨…⟩ ह्यन्त । इह गणाः शताधिकं सहस्रं चेद्विवक्षिताः स्युस्तदा शतसहस्रम् । एकादशशतानि । शतसहस्रं शतसहस्रते वीप्सायां शतसहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' शास् । अथ च गणाः शतगुणितानि सहस्राणि शतं वा सहस्राणि तदा शतसहस्राणि लक्षमित्यर्थः । शतसहस्राणि शतसहस्राणि शतसहस्रशः । लक्षशतगुणाः समुत्पन्ना इत्यर्थः । ते रणे षां निःश्वासजाः गणाः युध्यध्वं युध्यध्वमिति देव्या उपबृंहिताः प्रोत्साहिताः परशुभिर्भिन्दिपालासिपट्टिशैः आयुधैः रगणान् नाशयन्तः महासुरैः समं युयुधुः । चक्षि ⟨…⟩ ो ङित्करणात् ज्ञापकात् । 'अनुदात्तङितः' इत्यात्मनेपदनित्यत्वात् धिरे इत्यात्मनेपदमेव स्यात् । भिन्दिपालैः सहिता असयः खड्गाः तैश्च सहिताः पट्टिशाः तैः । द्वन्द्वे तु सेनाङ्गत्वादे ⟨…⟩ त्वं स्यात् ॥ ५३ ॥

नागोजीभट्टी

त एवेति । तावन्त एवेत्यर्थः । एकैकनिःश्वासादेकैको गणः संभूत इत्यर्थः । ते गणाः ॥५२॥

जगच्चन्द्रचन्द्रिका

त एव सर्व इति ५३ ॥ ५३ ।

दंशोद्धारः

॥ ५२ ॥

मूलम्

⟨…⟩ यन्तोऽसुरगणान्देवीशक्त्युपबृंहिताः । अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ ५३ ॥

गुप्तवती

॥ ५३ ॥

चतुर्धरी

ते गणाः देव्याः शक्त्याः प्रभावेण उपवृंहिताः आप्यायिताः । अवादयन्त इति क्वचित्पाठः । तत्र ⟨…⟩ रिति संबन्धः ॥ ५३ ॥

शान्तनवी

बृहि वृद्धौ । उपपूर्वः प्रोत्साहने वृद्ध्युत्कर्षे वा वर्तते । देवीशक्त्यपबृंहितानिति केचित्पठन्ति नश्च अपूर्वो बृहिर् वृद्धिवाची । ते गणाः देवीसामर्थ्यात्क्षीणानसुरगणान् नाशयन्तः युयुधुरित्यर्थः । अस्मिन्पाठे गणानां शौर्यं ⟨…⟩ र्पो नास्ति । यतो देवीशक्त्युपबृंहिता एवासुरगणान् नाशयन्तो युयुधुः । युद्धे महोत्सवे इव तस्मिन् युद्धमहोत्सवे ⟨…⟩ ष्टाः गणाः पटहानानद्धानवादयन्त वादितवन्तः । वदेर्ण्यन्ता ⟨…⟩ 'णिचश्च' इत्यात्मनेपदम् । 'आनकः पटहोऽस्त्री स्यात्' । ॥ अपरे गणाः शङ्खान् अवादयन्त प्रदध्मुः ॥ ५३ ॥

नागोजीभट्टी

नाशयन्त इति । देवीप्रभावेणा ⟨…⟩ यिताः अवादयन्त । वादितवन्त इत्यर्थः । गणाः केचि ⟨…⟩ ति शेषः ॥ ३ ॥

जगच्चन्द्रचन्द्रिका

नाशयन्त इति ५३ ॥ ५२ ॥

दंशोद्धारः

आवादयन्तः पटहानिति पाठः क्वचित् । आ समन्ताद्वादयन्त इत्यर्थः ॥ ५३ ॥

मूलम्

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे । ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ ५४ ॥

गुप्तवती

॥ ५४ ॥

चतुर्धरी

युद्धमेव महोत्सवः । वीराणां ह ⟨…⟩ ⟨…⟩ विहत्वात् । शक्तीनां वृष्टिभिर्वर्षणैः ॥ ५४ ॥

शान्तनवी

तथा अन्ये च गणाः मृदङ्गान ⟨…⟩ मुरजान् अवादयन्त । युद्धमहोत्सव इत्यनेन गणानां रणोन्मुखत्वं ⟨…⟩ र्योत्कर्षः संग्रामविजयित्वं च सूच्यते । उत्सूते सुखमुत्सवः । महानुत्सवो महोत्सवः । ततः रणोत्सवोत्साहकारणपटहादि ⟨…⟩ ादनादभन्तरं देवी त्रिशूलेन गदया शरवृष्टिभिः ॥ ५४ ॥

नागोजीभट्टी

मृदङ्गांश्चेति । युद्धमेव महोत्सवो वीराणां हर्षत्वात् । शक्तीनां वृष्टिभिर्वर्षणैरित्यर्थः ॥ ५४ ॥

जगच्चन्द्रचन्द्रिका

मृदङ्गांश्चेति ५५ ॥ ५४ ॥

दंशोद्धारः

युद्धमेव महोत्सवः वीराणां हर्षजनकत्वात् ॥ ५४ ॥

मूलम्

खड्गादिभिश्च शतशो निजघान महासुरान् । पातयामास चैवान्यान्घण्टास्वनविमोहितान् ॥ ५५ ॥

गुप्तवती

॥ ५५ ॥

चतुर्धरी

॥ ५५ ॥

शान्तनवी

खड्गादिभिश्च संग्रामसाधनैरायुधैः शतशः शतैः शतैः महासुरान् निजघान नितरां जिहिंस । आदि शब्देन पाशपरशुकुन्तमुद्गरमुसलकर्तरीकरवालिकाभिन्दिपालपरिघशङ्कुतोमरवज्रशक्तिपाशचक्राद्यायुधानि गृह्यन्ते । अत्र देवी घण्टास्वनविमोहितान् घण्टानिर्घोषमूर्च्छितान् अन्याम् असुरान् भुवि पातयामास प्रभ्रंशयामास ॥ ५५॥

नागोजीभट्टी

खड्गेति स्पष्टम् ॥ ५५ ॥

जगच्चन्द्रचन्द्रिका

खड्गादिभिश्चेति ५६ ॥ ५५ ॥

दंशोद्धारः

पातयामासेति ॥ ५५ ॥

मूलम्

असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् । केचिद्द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥५६ ॥

गुप्तवती

॥ ५६ ॥

चतुर्धरी

अकर्षयत् आकृष्टवती । कृषेश्चौरादिकाद्रूपम् । अकर्षतेति वा पाठः ॥ ५६ ॥

शान्तनवी

अथ च देवी अन्यान् असुरान्पाशेन अकर्षयच्च आकृष्टवती । कृषेश्चौरादिकात्स्वार्थे णिचि लङि रूपम् ननु च नायं पठ्यते चुरादौ । यत्तु 'कर्षत्याकर्षणेशे तु कर्षते कृषतीत्युभे' इत्येवं पठ्यते । एवं तर्हि भ्वादेः कर्षतेः कर्ष कर्षः कर्षमकरोत् अकर्षयत् । तत्करोतीति णिच् ⟨…⟩ । देव्यास्तीक्ष्णैः खड्गपातैः केचिन्महासुराः द्विधा कृताः द्विधा खण्डिताः तथा अपरे असुराः देव्या गदया कृतेन निपातेन विपोथिताः सन्तः भुवि भूमौ शेरते शयित ⟨…⟩ न्त इत्यर्थः । लङो डः । 'आ ⟨…⟩ त्मनेपदेष्वनतः' 'शीङो रुट्' 'शीङः सार्वधातुके गुणः' ॥ ५६ ॥

नागोजीभट्टी

असुरानिति । अकर्षयदिति ⟨…⟩ कृपेश्चौरादिकाल्लङ् । अपर इत्युत्तरान्वयि ॥ ५६ ॥

जगच्चन्द्रचन्द्रिका

असुरानिति ५७ ॥ ५६ ॥

दंशोद्धारः

अकर्षतेत्यात्मनेपदमार्षम् । अकर्षयदिति पाठे चौरादिकस्य रूपम् केचिदिति ॥ ५६ ॥

मूलम्

१ ‘शक्तिऋष्टिभिः’ इति पाठो नागोजीभट्टीसंमतः । ⟨…⟩ 'चान्यानकर्षंत' इति च ⟨…⟩ ङ्गीसंमतः पाठः । द्वितीयोऽध्यायः २ ] गुप्तवत्यादिषट्टी कासंवलिता । १०१ ोथिता निपातेन गदया भुवि शेरते । वेमुश्र केचिद्रुधिरं मुसलेन भृशं हताः ॥ ५७ ॥

गुप्तवती

विपोथिताः आघातेनाधः पतिताः शेरते दीर्घतन्त्रया । वेमुरित्यादि छान्दसशब्दनिर्णयो वैयाकरणः नव्यादिटीकातोऽवसेयः ॥ ५७ ॥

चतुर्धरी

गदया विपोथिताः आमर्दिताः सन्तो निपातेन भुवि शेरते इत्यन्वयः । अथवा गदया यो निपातो नं तेन । यद्वा गदयेति षष्ठ्यर्थे तृतीया । गदया निपातेन आघातेनेत्यर्थः । वेमुहद्रिरन् । वाधितेपि सर्वे विधयः छन्दसि न्त इति नानानिर्दिष्टस्यानित्यत्वाद्वा । ‘न शसददवादि’ इत्यादिना एवमभ्यामलोपनिषेधो न भवति । यद्वा निरो ⟨…⟩ ऽन्योऽस्ति तस्येदं रूपम् । सूत्रे निर्दिष्टो दन्त्य इति ‘उद्रेमुस्तत्र रुधिरं वलिनोऽन्ये निराकृताः' इत्यत्रापि भृशं ⟨…⟩ ताडिताः ॥ ५७ ॥

शान्तनवी

विपोथिता इति । पुथ हिंसायाम् । दिवादिः । यदभ्यधुः । 'पुथ्येत्पुंथति हिंसार्थे भाषार्थे पोथ ⟨…⟩ दिति' । ं पोथनं विहननं पोथः स जातो येषां विपोथिताः । संजातविघाता इत्यर्थः । यद्वा विविधः पोथः विघातो येषां ते ताः विपोथाः कृताः विपोथिताः । ‘तत्करोति’इति णिचि कर्मणि क्ताः । ननु च पुथ्यतेर्णिंचि कर्मणि क्ताः । ननु च पुथ्यतेत्वान्नपुंसके भावे क्ते कृते कित्वनिषेधपक्षे पोथितमिति स्यात् । ततश्च विविधं पोथितं पोथनं विहननं एषां ते इति ही वाहिताग्न्यादित्वान्निष्ठान्तस्य परनिपाते विपोथिताः स्युः न स्युः । यतः 'उदुपधाद्भावादिकर्मणोरन्यतरस्याम्' इति रणानामेवोदुपधानां तत्र सूत्रे ग्रहणं नान्येषामित्यभ्युपजग्मुः । यद्वा विपुंथिता इति पाठे पुथ हिंसासंक्लेशनयोः ः । कर्मणि क्तः विपुथिता विहिंसिताः संक्लेशिनाः क्लेशि ⟨…⟩ । वथिता इति यावत् । केचिच्च महासुराः देव्या मुमशाम् अत्यर्थं हताः ताडिताः रुधिरं रक्तं वेमुः उज्जगरुः । वेमुरिति 'अत एकहल्मध्येऽनादेशादेर्लिटि' एत्वम् उ ⟨…⟩ रण इति निषेधादेत्वाभ्यासलोपौ न स्तः इत्याहुः । तनश्च ववमुः इत्येवं भवितव्यम् । अत्र समादधुः । 'न शसददवादिगुणानाम्' एकहल्मध्येऽनादेशादेर्न शसददवादिगुणानां लिटि' इत्येकयोगे कर्तव्ये योगविभागादस्यानित्यत्वमिति । ततः वेमुरित्यपि साधु स्यादिति ॥ ५७ ॥

नागोजीभट्टी

विपोथिता इति । अ ⟨…⟩ रे गदया विपोथिता आमर्दिताः निपातेन निपतनेन भुवि शेरत ः । वेमुरिति छान्दसम् ॥ ५७ ॥

जगच्चन्द्रचन्द्रिका

विपोथिता इति ५८ ॥ ५७ ॥

दंशोद्धारः

गदया विपोथिता निघातेन शेरते गदारूपेण निपातेन वा । कर्मणि घञ् । षष्ठ्यर्थे वा तृतीया । निपातेन विपोथिता इत्यन्वयः । वेमुश्चेति । वेमुरुद्गीर्णवन्तः । वादित्वादेत्वाभ्यासलोपनिषेधस्तु न । छन्दसि सर्वविवैकल्पनात् । यद्वा 'न शसददवादिगुणानाम्' इति वक्तव्ये आदिग्रहणमुपदेशे यो वादिरित्यर्थलाभाय तत् । अनुबन्ध त इति पक्षेऽस्यावादित्वेन वकारात्प्राक् एकारप्रश्लेषेण वा वादित्वाभावादिह निषेधो नेति भागवृत्तिमते । मतान्तरेऽपि ⟨…⟩ मध्येऽनादेशादिशसददवादिगुणानाम्' इति वक्तव्ये योगविभागसामर्थ्यादस्यानित्यत्वं बोध्यम् । केचित्तु वमिमोआहुस्तार् ⟨…⟩ मूलम् । जग्धं गीर्णं वान्तमित्यादौ दन्त्योष्ठ्यपाठस्यैव निर्विवादत्वात् ॥ ५७ ॥ निपतिता भूमौ भिन्नाः शूलेन वक्षसि । निराकृताः शरौघेण कृताः केचिद्रणाजिरे ॥५८॥ १ गुप्तवती ) ॥ ५८ ॥ २ चतुर्ध री ) ॥ ५८ ॥ ३ शान्तनवी ) केचिच्च महासुराः देव्या शूलेन वक्षसि भिन्नाः विदारिताः सन्तः भूमौ निपतिताः न्यपतन् । शैलानुकारिणः शैलान् स्वगात्रपरिमाणतः अनुकुर्वाणाः पर्वतायमानाः त्रिदशानां देवानाम् अर्दनाः अर्दयितारः असुराः रणाजिरे रणस्याग्रे देव्या प्रत्युक्तेन निरन्तरं शरौघेण अविच्छिन्नबाणव्यूहेन कृताः छिन्नाः विद्धाः त्यक्तप्राणान् असून् मुमुचुः व्यमुञ्चन् । शराणामोघः शरौघः तेन शरौघेण । 'कुमति च' इति णत्वम् । निरन्तराः शराः ः समूहः तेन निरन्तरशरौघेण ॥ ५८ ॥ ४ नागोजीभट्टी ) केचिदिति । शूलेन वक्षसि भिन्नाः भूमौ निपातिताः निपेतुरित्यन्वयः । उत्तरार्धमुत्तरान्वयि ५९ ५ जगच्चन्द्रचन्द्रिका ) केचिन्निपतिता इति ५९ ॥ ५८ ॥ ६ दंशोद्धारः ) निरन्तरा इति ॥ ५८ ॥ ‘निरन्तरशरौघेण’ ‘निरन्तराः शरौघेण’ इति शान्तनवी ‘निरन्तरशरौघेण’ ‘निरन्तराः शरौघेण’ इति शान्तनवी । । ‘निरन्तरशरौघेण’ ‘निरन्तराः शरौघेण’ इति शान्तनवी । सेनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दिनाः । केषांचिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥५९

गुप्तवती

सेनामनु पश्चाद्भागे कुर्वन्ति ते सेनानुकारिणोऽग्रेसरा इति यावत् ॥ ५९ ॥

चतुर्धरी

श्येनानां पक्षिणामनुकारिणः सदृशः । यथा श्येनाः स्वपत्रैर्निरन्तरास्तथा दैत्या अपि शरैरिलन्न

चतुर्धरी

श्येनानां पक्षिणामनुकारिणः सदृ दशः । यथा श्येनाः स्वपत्रैर्निरन्तरास्तथा दैत्या अपि शरैरिलन्न यद्वा श्येनाः शल्यमृगाः ‘श्येनः पत्रिणि शल्ये च’ इत्यजयतोशात् । शरौघपूर्णत्वात् शल्यमृगा इव लक्ष्यन्ते इति । से कारिण इति पाठे सेनामनु पश्चात् कर्तुं शीलं येषां ते सेनाग्रगा इत्यर्थः । सेनानियन्तार इति केचित् । यद्वा सेन इति संघस्त ⟨…⟩ मरस्य इति ॥ ५९ ॥

शान्तनवी

सेनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दिनः इति वा पाठः । शरौघेण प्रतिलोमकूपं "निरन्त व्याख्यावयवाः कृताः सेनानुकारिणः सेना सैन्यम् अनु पश्चात् कर्तुं शीलं येषां ते तथोक्ताः अग्रेसराः त्रिदशार्दिनः देवर्षि केचिदसुराः रणाजिरे प्राणान् मुमुचुः अत्याक्षुः । श्येनानुकारिण इति पाठे सिध्यन्ति सेधाः । शल्यानुकारिणः इति तु स पाठः । ‘श्वावित्तु शल्यः’ इत्यभिधानात् । शल्यः शल्यको भक्ष्यः पञ्चनखः । शरौघेण निरन्तरा प्रतिलोमकूपं व्याप्ताः ⟨…⟩ विद्धाः । अत एव शल्यका इव शल्लीकण्टकशताहताः शल्यका इव दृश्यमाना रणाग्रे प्राणान् मुमुचुः केचिदसुरा इत्यर्थ निरन्तराः शरौघेण कृताः इति तु पाठे कृताः रचिता इत्यर्थः । तथा देव्या केषांचित् असुराणां बाहवो भुजाः छिन्नाः खण्डि भुवि पेतुः तथा देव्या परे असुराः छिन्नाः ग्रीवाः शिरोध्रयो येषां ते तथोक्ताः छि ⟨…⟩ वाः सन्तः भुवि पेतुः ॥ ५९ ॥

नागोजीभट्टी

सेनेति । सेनामनु पश्चात्कुर्वन्ति सेनाग्रगाः शरौघव्याप्तत्वात् सेनाः शल्क्यस्तत्सदृशाश्च छिन्नग्रीवाः प्राणान् मुमुचुरित्यर्थः ॥ ५९ ॥

जगच्चन्द्रचन्द्रिका

सेनानुकारिण इति ६० ॥ ५९ ॥

दंशोद्धारः

निरन्तरा इति । सेनामनु पश्चात्क ⟨…⟩ तु शीलं येषां ते सेनाग्रवरा इत्यर्थः । २ येनानुकारिण पाठे श्येनपक्ष्यनुसारिणः यथा श्येनाः पक्षिण उत्पत्य निपतन्ति तथा तेपि पार्श्वसंलग्नशरपुङ्खतया सपक्षा इवेत्यर्थः ॥ ५९ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः । विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ ६०

गुप्तवती

॥ ६० ॥

चतुर्धरी

मध्ये हृदि । उर्व्यां भूमौ ॥ ६० ॥

शान्तनवी

तथा देव्या अन्येषाम् असुराणां छिन्नानि शिरांशि भुवि पेतुः । तथा देव्या अन्ये असुराः मध्यदेशे विदारिताः खण्डिताः पेतुः भूमौ वभ्रशुः । ‘असाकल्ये तु चिच्चनं’ ‘छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्ण ⟨…⟩ 'दारितौ भिन्नभेदितौ' । अपरे तु महासुराः महान्तोऽसुराः देव्या विच्छिन्नजङ्घाः खण्डितजङ्घकाः सन्तः उर्व्यां भुवि ⟨…⟩ प्रबभ्रशुः ॥ ६० ॥ शेषः ॥ ६० ॥

नागोजीभट्टी

शिरांसीति । छिन्नानीति

जगच्चन्द्रचन्द्रिका

शिरांसीति ॥ ६१ ॥ ६० ॥

दंशोद्धारः

॥ ६० ॥ एकवाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः । छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ⟨…⟩

गुप्तवती

॥ ६१ ॥

चतुर्धरी

पतिताः पुनरुत्थिताः इति 'मनुष्याणां सहस्रेषु हतेषु पतितेषु च । उदतिष्ठन्कबन्धानि बहूनुत्था ⟨…⟩ तान्यपि' इति शान्तिपर्वणि । अतः सहस्रेऽभिहते कबन्ध एक उत्तिष्ठते इति ॥ ६१ ॥

शान्तनवी

केचित्तु महासुराः युध्यन्त एकबाह्वक्षिचरणाः एकबाहुकाः एकाक्षाः एकचरणकाश्च सन्तो दे ⟨…⟩ द्विधा कृताः खण्डिताः उर्व्यां पेतुः न्यपतन् । वाहुश्च अक्षि च चरणं च बाह्वक्षिचरणं युद्धतः प्रति महासुरं संपन्नम् । एक ⟨…⟩ बाह्वक्षिचरणं येषां ते एकबाह्वक्षिचरणाः । द्वन्द्वान्ते श्रूणमाणं व्यावर्तकं पदं प्रत्येकमभिसंबध्यते । तथा संपन्नव्रीहियवो ग्राम तथा च व्रीहियवधनाः प्रजाः (?) अन्ये महासुराः शिरसि छिन्नेपि सति भूमौ पतिताः पुनस्तदनु उत्थिताः ॥ ६१ ॥

नागोजीभट्टी

एक इति । आशिरः पादपर्यन्तं पाटिता इत्यर्थः । उत्तरार्धमुत्तरान्वयि ॥ ६१ ॥

जगच्चन्द्रचन्द्रिका

एकबाह्वक्षीति ॥ ६२ ॥ ६१ ॥ ५ ‘शल्यानुकारिणः’ इति शान्तनवी । ‘श्येनानुकारिणः’ इति चतुर्धरी । २ ‘त्रिदशार्दिनः’ इति शान्तनवीपाठः । ६ दंशोद्धारः ) छिन्नेपीति । अयुतवीरवधे एकः कबन्ध उत्तिष्ठत इति प्रसिद्धिः । उक्तं च महाभारते भीष्मपर्वणि । गां सहस्रेषु शतेषु पतितेषु च । उदतिष्ठन्कबन्धानि बहून्युत्थाय चाद्रवन्' इति । कश्चित्त्वत्र शतसहस्रशब्दोऽयुतपरत्वेन इत्याह । तदसत् । बहूनि इत्यस्याऽसंगत्यापत्तेः शतपदस्यानन्तरस्योचितत्वात् ॥ ६१ ॥ ा युयुधुर्देव्या गृहीतपरमायुधाः । ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ ६२ ॥ १ गुप्तवती ) तूर्याणां लयं कालक्रियामानरूपतालविरामसाम्यमाश्रिताः ॥ ६२ ॥ २ चतुर्धरी ) तूर्यैलयान्विताः वाद्यानुसारिणः ॥ ६२ ॥ ३ शान्तनवी ) कं शिरो बध्नन्ति कबन्धाः सन्तः पुनः शिरोधारिणः सन्तः गृहीतपरमायुधा आत्तोत्तमशस्त्राः सन्तः समं युयुधुः । चक्षिङो ङित्वादनुदात्तेत्त्वनिमित्तात्मनेपदानियतत्वाद्युध्यतेः अनुदात्तत्वेपि परस्मैपदम् । अन्यथा युयुात्मनेपदमेव ⟨…⟩ स्यात् । गृहीतपरमायुधाः । देव्या इति तृतीयान्तम् । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' कस्य धोऽत्र कबन्धः । कं बध्नाति वा कबन्धः । 'कबन्धं सलिले हण्डे' । 'युद्धे योधृषु शूरेषु सहस्रं कृत्तमूर्धसु । तदावेशास्यादेकोऽमूर्धा क्रियान्वितः' इति कबन्धलक्षणम् । 'देवीदानवयुद्धे तु कबन्धार्बुदकोट्यः । क्षणे क्षणे समुत्पन्ना देव्या पुनः । देवीदानवयुद्धोत्थकबन्धार्बुदकोट्यः । देवीरोषोत्थहुंकारज्वलउज्वलनभस्मिताः' । तत्र युद्धे देवीदानवसंग्रामे अपरे ः तूर्यलयाश्रिताः तूर्याणां वाद्यानां ततविततानद्धशुषिराणां चतुर्णां लयः साम्यं वाद्यादीनामन्योन्यसमतामाश्रिताः वेशवशाः खड्गशक्त्यृष्टिपाणयः युद्ध्यमानाः पूर्वं देव्या छिन्नशिरसोऽपि वीररसानिष्कारात्संग्रामाधिदेवतावेशाच्चाविनाः सन्तः पश्चात्कं शिरो बध्नति स्वंस्वं यथास्थानं संनिवेशायन्तीति कबन्धाः सन्तः पुनः शिरोधारिणः सन्तः ननृतुः कुः । चकारात्केचिद्देव्या समं युयुधिरे च । तूर्यलयाश्रिता हि नृत्यन्ति ॥ ६२ ॥

नागोजीभट्टी

कबन्धा इति । "मनुष्याणां सहस्रेषु हतेषु हतमूर्धसु । तदावेशात्कबन्धः स्यादेको मूर्धा क्रियाइति लक्षितः । अपरे कबन्धाश्च युयुधुः ॥ ६२ ॥

जगच्चन्द्रचन्द्रिका

कबन्धा युयुधुरिति ६३ ॥ ६२ ॥

दंशोद्धारः

ननृतुरिति । छिन्नानि शिरांसि अर्थादन्येषां यस्ते कबन्धा इत्यर्थः । यद्वा छिन्नशिरसोपि कं शिरो मायावित्वात् । यद्वा कबन्धा असुरविशेषाः । को वायुरेव बन्ध आश्रयो येषामित्यन्ये ॥ ६२ ॥

मूलम्

ाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः । तिष्ठतिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ ६३ ॥

गुप्तवती

कबन्धाः निःशिरस्कदेहा वीरावेशेन क्षतान्तराणामिव शिरश्छेदस्याप्यभावेनोभयत्र व्यासज्यवृत्तित्वात्पतितेन मुखेन भाषणं चलता कबन्धेन प्रहारश्चाभवदित्याशयः ॥ ६३ ॥

चतुर्धरी

कबन्धाश्छिन्नशिरस इति पर्यायाभ्यां तेषामतिबहुत्वमाह । छिन्नशिरस इति स्वरूपाख्यानं वा । को बन्धः आश्रयो येषां ते कबन्धा इति वा । यद्वा छिन्नशिरसोपि कबन्धाः कं शिरो बध्नन्तीति कबन्धाः । तेषत्वात् छिन्नमपि शिरो बद्धं भवतीति तदा बह्वपि क्षमाधिष्ठानत्वाच्च । यद्वा छिन्नं शिरो यैः कबन्धा अपि अन्येषां छिन्दन्ति । ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’ इत्यमरः । पूर्वं छिन्नशिरसः पश्चात्कबन्धाः क्रियायुक्ताः । गाश्रिता इति चावत् । तिष्ठतिष्ठेति भाषन्तो हस्ताक्षेपादेव भाषमाणा इवेति इवार्थो गम्यः । अन्यथा छिन्नशिरां कथं तिष्ठतिष्ठेति वदिष्यन्ति इति कश्चिदाह । कबन्धो ऽसुरजातिविशेषः तद्विशेषणं छिन्नशिरस इति । अन्य आह ालसुरव्यवच्छेदकं छिन्नशिरस इति विशेषणम् । ऋष्य एकधाराः खङ्गाः । अन्ये कबन्धेतरे युयुधुः ननृतुश्चेते ॥ ६३ ॥

शान्तनवी

खड्गशक्त्यृष्टिपाणयो हि युध्यन्ते । ‘ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्' । वंशादिकं तु शुषिरं ालादिकं घनम्’ । तथा च भरतः ‘ततं चैवावनद्धं च घनं शुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम्' । ाभ्यधुः । ‘चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्’ इति । यद्यपि 'खङ्गे तु निस्त्रिंशचन्द्रहासासिऋष्टयः' इति ऋष्टिः ांयस्तथाप्याकृतिसन्निवेशविशेषभेदभिन्नतया पृथक्पृथक् प्रयुक्तः । खड्गशक्त्यष्टपाणय इति तु पाठे खड्गैः शक्तिभिश्च व्याप्ताः पाणयो येषां ते तथोक्ताः । यद्वा दैत्याः केचिदष्टभुजाः सन्तीति । खड्गाश्च शक्तयश्च अष्टस्वपि पाणिषु खड्गशक्त्यष्टपाणयः । अन्ये महासुराः संग्रामशूराः युद्धे तिष्ठतिष्ठेति देवीं भाषन्तः कथयन्तः स्वकीयामहमहमिकां न्तो देव्या समं योद्धुमाजग्मुरिति शेषः । तिष्ठतिष्ठेत्यत्र 'नित्यवीप्सयोः' इति नित्ये आभीक्ष्ण्ये च तङि तस्य द्विर्वचनम् । १ ‘तूर्यैलयान्विताः’ इति चतुर्धरीसंमतः पाठः । भाषन्त इति भाष व्यक्तायां वाचि । अनुदात्तत्वात् प्राप्तस्यात्मनेपदस्य चक्षिङो ङित्त्वादनित्यत्वात्परस्मैपदम् । शातृप्रत्ययः तिष्ठतिष्ठेत्यभाषन्तेति पाठे तु अन्ये महासुराः देवीं तिष्ठतिष्ठ अद्य स मदग्रे क्व यास्यसि क्व च निलीयसे इति भर्त्सनं नामग्रा मालपन्नित्यर्थः । 'तिष्ठतिष्ठेति चैवोक्त्वा देव्याऽन्ये युयुधुर्मृधे' अन्ये च महासुराः मृधे युद्धे देवीं तिष्ठतिष्ठेति सभर्त्सनमुक्त देव्यैव समं युयुधुः । 'रुधिरौघविलुप्ताङ्गाः संग्रामे लोमहर्षणे' । लोमाणि रोमाणि हृष्यन्त्युद्भवन्त्यनेनेति लोमहर्षणं तस्मि रोमाञ्चोद्गमकारिणि संग्रामे रुधिराणामोघाः स्तोमाः तैः रक्तसमूहैः विलुप्ताङ्गाः अपरे महासुराः देवीमपलायस्वेति संभर्त्सनमु क्तवैवं देव्या समं युयुधिरे । 'रोमाञ्चो रोमपुलको रोमहर्षणमित्यपि' । ‘ओघो वृन्देऽम्भसां रये’ ॥ ६३ ॥

नागोजीभट्टी

कबन्धा इति । उभयत्रापि युयुधुरिति शेषः । छिन्नशिरस इति स्वरूपकथनम् । छिन्नानि शिरां सि यैरिति वा । ऋष्टय उभयतोधाराः खड्गाः । भाषन्त इति छान्दसः ॥ ६३ ॥

जगच्चन्द्रचन्द्रिका

कबन्धाच्छिन्नेति ६४ ॥ ६३ ॥

दंशोद्धारः

ऋष्टयः खड्गाकारा एकधाराः । तिष्ठतिष्ठेति भाषन्त इति । शातृप्रत्यय आर्षः । आत्मनेपदित्वात् यद्वा भाषन्त इति भाषः । पचाद्यच् । स इवाचरतीत्याचारक्विबन्ताच्छता ॥ ६३ ॥

मूलम्

पातितै रथनागाश्वैरसुरैश्च वसुंधरा । अगम्या साभवत्तत्र यत्राभूत्स महारणः ॥ ६४ ॥

गुप्तवती

॥ ६४ ॥

चतुर्धरी

॥ ६४ ॥

शान्तनवी

देव्या पातितैः भ्रंशितैः रथैः नागैः गजैः अश्वैरसुरैश्च आकीर्णा सा वसुंधरा अगम्या अनधिगम्य गन्तुमशक्या तत्राभूत् । क्व यत्र स महारणः संग्रामः देव्या सह महिषासुरसैन्यानामभूत् । पातितं रथैर्यत्र 'रां रि' इति रफ लोपः । रथसहिता नागाः रथनागाः । रथनागसहिताः अश्वाः रथनागाश्वाः तैः । द्वन्द्वे तु सेनाङ्गत्वादेकवद्भावः । वसूनि धार यतीति वसुंधरा । अगम्या असेव्या । गमेः 'पोरदुपधात्' इति यत् ॥ ६४ ॥

नागोजीभट्टी

पातितैरिति । रथनागसहितैरश्वैरित्यर्थः । एवमग्रेऽपि ॥ ६४ ॥

जगच्चन्द्रचन्द्रिका

पातितै रथेति ६५ ॥ ६४ ॥

दंशोद्धारः

॥ ६४ ॥

मूलम्

शोणितौघा महानद्यः सद्यस्तत्र विसुस्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ ६५ ॥

गुप्तवती

॥ ६५ ॥

चतुर्धरी

वारणा गजाः । महानद्यः तत्र असुरसैन्यस्य मध्ये सद्यः विसुसुवुः ॥ ६५ ॥

शान्तनवी

किंच तत्र युद्धे असुरसैन्यमध्ये । 'सद्यः सपदि तत्क्षणं' देव्या सह संग्रामारम्भक्षणं एव वारणा गजानाम् असुराणां दैत्यानां वाजिनां घोटकानां शोणितौघाः रक्तसमूहा एव महानद्यः समुद्रगाः आपगाः सरितः विसुसुवुः प्रसुस्रुवुरित्यर्थः । विशेषेण स्रवन्ति प्रवहन्ति स्म । रक्तप्रवाहमय्यो महानद्यो बभूवुरित्यर्थः । विसुसुवुः । सु गतौ लिट् उस्रुव ⟨…⟩ ॥ ६५ ॥

नागोजीभट्टी

शोणितौघेति असुरसैन्यस्य मध्ये वारणासुरवाजिनां शोणितस्य ओघः प्रवाहो यासु तादृश्य नद्यः प्रसुस्रुवुः । छान्दसत्वात्समासः ॥ ६५ ॥

जगच्चन्द्रचन्द्रिका

शोणितौघेति ६६ ॥ ६५ ॥

दंशोद्धारः

शोणितौघा इति । वारणाश्व असुराश्च वाजिनश्चेति द्वन्द्वः । तेषां शोणितमेव ओघो जलप्रवाहो यासु ॥ ६५ ॥

मूलम्

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका । निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ ६६ ॥

गुप्तवती

॥ ६६ ॥

चतुर्धरी

महासैन्यं समुदायं क्षयं निन्ये नीतवती ॥ ६६ ॥

शान्तनवी

यथा यद्वद्वह्निः तृणदारुमहाचयं क्षणेन क्षणमात्रेण क्षयं विनाशं नयात तथा निन्ये प्रापयामास । नयतिर्द्विकर्मकः; तृणानि च दारूणि च तृणदारूणि तेषां महान् चयः गणः समूहः तम् । यद्वा यथा तथैव साम्यम् ॥ ६६ ॥

नागोजीभट्टी

॥ ६६ ॥

जगच्चन्द्रचन्द्रिका

क्षणेन तदिति ६७ ॥ ६६ ॥

दंशोद्धारः

॥ ६६ ॥

मूलम्

सिंहो महानादमुत्सृजन्धुतकेसरः । शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ ६७ ॥

गुप्तवती

असूनिव विचिन्वति प्राणानिव विचिनोति ॥ ६७ ॥

चतुर्धरी

असून् प्राणान् विचिन्वन् आदाय समुच्चिनोतीत्युत्प्रेक्षायाम् । विचिन्वतीति । अतिपूर्वत्वाच्चिन्वते मभिहारत्वान्नास्त्यपि पञ्चम्या मध्यमपुरुषैकवचनम् । अतिविचिन्वति । अतीति अतिपूर्वत्वात् साध्यं ततश्छन्दसि दूरे ते अतिशब्दस्य परनिपातः । यद्वा विचिनोतीति वक्तव्ये विचिन्वतीत्युक्तम् । तत्र वर्णागमोऽधिकारो वा छन्दानुरोधेन ं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः' । यथा अम्बिका महासैन्यं क्षयं निन्ये सिंहश्च सिंहे असुराणां शरीरेभ्यः असून् प्राणान् विचिन्वति राशिमिव कुर्वति सति ॥ ६७ ॥

शान्तनवी

न केवलमम्बिकैव असुरसैन्यं क्षयं निन्ये अपि तु स सिंहश्च । स प्रसिद्धो देवतावाहनीभूतो धुतकम्पितस्कन्धकेसरः सिंहश्च महानादं महान्तं नादं कण्ठीरवत्वात् कण्ठगर्जनम् । उत्सृजन् कुर्वन् यथोचितं असुरसैन्यं क्षयं न्ये । प्रापयामास । यच्चाख्यत् । 'सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी । चचारासुरसैन्येषु वनेष्विव हुताशनः' । स च सिंहः कर्ता । विचिन्वतीति विचयनक्रियया संबन्धनीयः । स प्रसिद्धः देव्याः सिंहश्च महानादमुत्सृजन् धुतकेसरः मरारीणां सुरद्विषां शरीरिभ्यः सकाशात् असून् प्राणान् विचिन्वन्निव प्राणान् गृह्णीयादिव । विचिन्वतीति चिञ् विध्यादौ लिङर्थे लेट्। कर्तरि खादिभ्यः श्नुः। लेटस्तिप् 'लेटोडाटौ' इति अडागमः । छान्दसो गुणाभावः । इकोय ⟨…⟩ न। किं तु हुश्नुवोः सर्वधातुके यण्। 'इतश्च लोपः परस्मैपदेषु' इति तु वा । तेनात्र इति श्रूयते । अथवा विचित सप्तमीयम्। स च सिंहश्च धुतकेसरः महानादमुत्सृजन् असुरान् व्यापाद्य तच्छरीरेभ्यः प्राणान् विचिन्वतीत्युत्प्रेततश्च तस्मिन्सिंहे अमरारीणां शरीरिभ्यः सकाशात् असून् प्राणान् विचिन्वतीव इतस्ततः संहर्तुं गवेषयतीदेव्यागणैश्च तैः असुरैः सह युद्धं कृतम्। व्यधायीत्यर्थः ॥ ६७ ॥

नागोजीभट्टी

स चेति। क्षयं निन्ये इति शेषः। तत्रोत्प्रेक्षते । अमरारीणां शरीरेभ्यः असून्विचिन्वतीव । ⟨…⟩ ट्' इति अडागमो गुणाभावश्च छान्दसः ॥ ६७ ॥

जगच्चन्द्रचन्द्रिका

स च सिंह इति ६८ ॥ ६७ ॥

दंशोद्धारः

स चेति। विचिनोति वक्तव्ये छान्दसो ऽकारागमः । कश्चित्तु विचिनु अतीति छेदः । अति अन पुनःपुनर्व्यचिनोदित्यर्थः। क्रियासमभिहारे लोट्। अतः परनिपातश्छान्दस इत्यार्षं आह । तदसत् । क्रियासमहारे द्वित्वप्रसंगात्। लोटि कृञोनुप्रयोगापत्तेश्च। नापि समुच्चयस्तत्र सामान्यवचनानुप्रयोगापत्तेश्च । यद्वा विचिन्वलिङ्यर्थे लोट् । इवो भिन्नक्रमः । विचिन्वतीव विचिनुयादिव । लेटस्तिपो ‘लोटोऽडाटौ’ इत्यडागमः । छान्दसो वः । 'हुश्नुवोः' इति यण् । वस्तुतस्तु विचिन्वतीति सप्तम्यन्तं शत्रन्तम् । स च सिंह इति पूर्वार्धम् । असुराणां सैन्यं न्ये इति पूर्वत्रान्वेति । तत्र तस्मिन्सिंहे अमरारीणाम् असून् विचिन्वति सति देव्या गणैर्युद्धं कृतमित्यन्वयः ॥ ६७ ॥ गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः । यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ ६८ ॥ श्रीमार्कण्डेयपुराणे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २ ॥

गुप्तवती

देव्या गणैः कर्तृभिरसुरैः सह तथा युद्धं कृतम् । यथा देवास्तुष्टुवुः ॥ ६८ ॥ इति श्रीगुप्तवत्या याख्याने द्वितियोऽध्यायः ॥ २ ॥

चतुर्धरी

देव्या अम्बिकायाः गणैस्तत्र असुरैः सार्धं तथा युद्धं कृतम् । यथा दिवि देवाः एषां गणानां तुष्टा इत्यन्वयः ॥ ६८ ॥ इति श्रीचतुर्धरीटीकायां द्वितीयो ऽध्यायः ॥ २ ॥

शान्तनवी

तत्र संग्रामभूमौ देव्याः अम्बिकायाः अम्बिकारोषानिःश्वासभूतैर्गणैश्च तैरसुरैः सह युद्धं तथा था दिवि स्वर्गे देवाः दिविषदः पुष्पवृष्टिमुचः संतः एनां देवीं तुष्टुवुः स्तुतवन्तः । पुष्पाणां वृष्टयः ताः मुञ्चन्ति ष्टिमुचः । युद्धं महासुरैः । अथैनां तुष्टुवुरिति पाठे तु देव्याः गणैश्च तत्र युद्धभूमौ तैर्महासुरैः समं युद्धं कृतम् । अथ समपुष्पवृष्टिमुचो देवा दिविषदः एनां युध्यमानां सर्सिंहां सगणामम्बिकां तुष्टुवुः । अहो इदं नामाश्चर्यम् । योद्धारो मायामहासुराः तैः सममेकाकिन्यबला युध्यते । महासुरसैन्यान्यप्यनेकानि दशशाः शतशाः अयुतशः लक्षशः कोटिशः कोटिशश्व क्षयं तयैकयैव नीतानि । तद्रणे कबन्धाः अपि तया अबलया युध्यन्ते । ते च तद्बलारोषहुंकारज्वलज्ज्वलनज्वालाः क्षणेक्षणे भस्मीभवन्ति । अथ च रणमण्डले तद्बलाविखण्डितप्रचण्डविक्रमोल्लासिमहायोद्धृमहासुरवपुर्विगलद्रुधिरौघाः ः प्रवहन्ति इति तामत्यद्भुताद्भुतचरितां लोकाभ्युदयैकफलोदयामम्बिकां दिविषदः स्तुवन्तीत्यर्थः ॥ ६८ ॥