अथार्गलास्तुतिः
मार्कण्डेय उवाच ।
मूलम्
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ १ ॥
गुप्तवती
जयन्तीति । मङ्गलेति मत्त्वर्थीयोऽच् ॥ १ ॥दुर्गाप्रदीपः
अथार्गलाव्याख्यानम् । तत्र प्रथमतो देवताया उद्देश्याया गुणान्ध्यानोपयोगिन आह। जयन्तीति। जयन्ती सर्वोत्कृष्टेत्यर्थः। गुणत्रयसाम्यावस्थोपाधिकब्रह्मरूपिण्या भगवत्याः सर्वकारणत्वात् । मङ्गला मङ्गं जननमरणादिरूपं सर्पणं भक्तानां लाति गृह्णाति नाशयति सा मोक्षप्रदा मङ्गलेत्युच्यते। न तस्य प्राणा उत्क्रामन्ती इति श्रुतेः । काली कलयति भक्षयति सर्वमेतत्प्रलयकाले इति काली । ब्रह्म च क्षत्रं चोभे भवत ओदनः मृत्युर्यस्योपसेचनम् इति श्रुतेः । भद्रकाली भद्रं मङ्गलं सुखं कलयति स्वीकरोति भक्तेभ्यो दातुमिति भद्रकाली । भद्रकाली सुखप्रदेति रहस्यागमेऽर्थकथनात् । कपालिनी । कपालोऽस्त्री शिरोऽस्थि स्याद्धटादेः शकलेषु च । इति मेदिनीकोशात् । ब्रह्मादीन्निहत्य तेषां कपालं गृहीत्वा प्रलयकाले अटतीति । प्रपञ्चरूपाम्बुजं हस्ते यस्या इति वा । कपालिनी मत्वर्थीय इनिः । प्रपञ्चाम्बुजहस्ता च कपालिन्युच्यते परेति रहस्यागमात् । दुर्गा । दुःखेनाष्टाङ्गयोगसर्वकर्मोपासनारूपेण क्लेशेन गम्यते प्राप्यते सा दुर्गा। तां दुर्गां दुर्गमां देवीमिति देव्यथर्वशिरसः | क्षमा भक्तानामन्येषां वा सर्वानपराधान्क्षमते सहते जननीत्वात्सातिशयकारुण्यवती क्षमेत्युच्यते। शिवा । चिद्रूपिणीत्यर्थः ।
चिन्मात्राश्रयमायायाः शक्त्याकारे द्विजोत्तमा ।
अनुप्रविष्टा या संविन्निर्विकल्पा स्वयंप्रभा ॥
सदाकारा सदानन्दा संसारोच्छेदकारिणी ।
सा शिवा परमा देवी शिवाऽभिन्ना शिवंकरी ॥
मूलम्
मधुकैटभविद्रावि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २ ॥
महिषासुरनिर्नाशविधात्री वरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३ ॥
वन्दिताङ्घ्रियुगे देवि देवि सौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४ ॥
गुप्तवती
मध्विति । विद्राविणी च सा विधातृवरदा चेति विग्रह: । रूपं स्वीयानां मोहनं द्विषां भीषणं लावण्यं वा ॥ २ ॥ महिषेति । निर्नाशविधात्रीत्येकं पदम् ॥ ३ ॥ ४ ॥दुर्गाप्रदीपः
मधुकैटभयोर्विद्राविणी नाशिनी च सा विधातुर्वरदा चेत्यर्थः । मधुकैटभनाशार्थे ब्रह्मणा स्तुता सती तस्मै वरं ददाविति कथा देवीभागवते प्रथमस्कन्धे प्रसिद्धा । रूपं रूप्यते ज्ञायते इति रूपं परमात्मवस्तु । रूपं भवेद्बिन्दुरमन्दकान्तिरित्यागमात्तद्देहि मह्यं मत्कृतनमस्कारेणैव प्रसन्ना सती तथा जयं जयत्यनेन परमात्मनः स्वरूपमिति जयो वेदस्मृतिराशिस्ततो जयमुदीरयेदित्यत्र प्रसिद्धस्तं देहि । यशो देहि । सहनौ यशः इति श्रुतिप्रसिद्धं तत्वज्ञानसंपादनजन्यं यशस्तद्देहि । द्विषो जहि कामक्रोधादीन्शत्रूञ्जहि नाशय ॥ २ ॥ महिषासुरेति । महिषासुरस्य निर्नाशस्तस्य विधात्री कर्त्रीत्यर्थः । वरदे इति पृथक्पदम् ॥ ३ ॥ वन्दितेति । ब्रह्मविष्ण्वादिभिर्वन्दितमङ्घ्रियुगं यस्यास्तेषामेतदपेक्षया न्यूनोपाधिकत्वात् । भक्त्यतिशयेन देवीत्यस्य पुनरुक्तिः ॥ ४ ॥मूलम्
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५ ॥
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६ ॥
नतेभ्यः सर्वदा भक्त्या चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७ ॥
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८ ॥
गुप्तवती
रक्तबीजस्य वधो यस्याः सकाशात्सेति विग्रहः ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥दुर्गाप्रदीपः
रक्तबीजेति । रक्तबीजस्य वधः कर्तव्यतयास्ति यस्याः सा । अर्शआद्यजन्तम् । रक्तबीजवधकर्त्रीयर्थः । रक्तबीजस्य बधो यस्याः सकाशादिति वा । अत्र शुम्भासुरेति श्लोकपाठोपपाठः प्राचीनैरव्याख्यानात्प्राचीनपुस्तकेष्वपाठाच्च ॥ ५ ॥ अचिन्त्येति । यतो वाचो निवर्तन्ते इति श्रुतेः । यो अस्याध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद इति श्रुतेः ॥ ६ ॥ नतेभ्य इति । सदा सर्वदा भक्त्या नतेभ्यः प्रणतेभ्यो मे प्रणताय च रूपं देहीत्यन्वयः ॥ ७॥ एवं स्तुवद्भ्य इत्यत्रापि ॥ ८ ॥मूलम्
चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९ ॥
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १० ॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११ ॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२ ॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३ ॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४ ॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५ ॥
गुप्तवती
ये त्वामर्चयन्ति तेभ्य इति शेषः ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ जनं भक्तजनं माम् ॥१३॥१४॥१५॥दुर्गाप्रदीपः
चण्डिके सततमित्यत्रापि तथैव ये त्वामर्चयन्ति तेभ्य इति शेषः ॥ ९ ॥ देहि सौभाग्यमित्यर्थान्मह्यम् ॥ १० ॥ विधेहीति । उच्चकैरतिशयेनोच्चं बलं मम विधेहि ॥ ११ ॥ १२ ॥ विद्यावन्तमिति । ब्रह्मविद्यावन्तं जनं स्वभक्तजनं कुरु अथ च रूपं देहीत्यर्थः ॥ १३ ॥ १४ ॥ १५ ॥मूलम्
कृष्णेन संस्तुते देवि शश्वद्भक्तया तथाऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६ ॥
हिमाचलसुतानाथपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७ ॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८ ॥
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९ ॥
गुप्तवती
॥ १६ ॥ १७ ॥ १८ ॥ इन्द्राण्या पतिसद्भावस्य पतिसत्ताया ज्ञानार्थे पूजिते । इन्द्रेण कालविशेषे क्वचित्सरसि कमलविसांतश्चिरं स्थितं तदा देव्याराधनेन पौलोम्या तत्स्थलं लब्धमिति पुराणेषु प्रसिद्धेः । इन्द्राणीपतिना सद्भावेन पूजिते इति वा ॥ १९ ॥दुर्गाप्रदीपः
कृष्णेन संस्तुते इति । इयं च कथा देवीभागवते प्रसिद्धा ॥ १६ ॥ हिमाचलसुतानाथ: शिवस्तेन पूजिते ॥ १७ ॥ सुरासुरेति । अनेन च देवीस्वरूपदर्शनेन निर्वैरताऽद्वैतभावो भवतीति ध्वनितम् । सुरासुरयोः सामानाधिकरण्यकथनात् ॥ १८ ॥ इन्द्राणीति इन्द्राणीपतिना सद्भावेन पूजिते ॥ १९ ॥मूलम्
देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २० ॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१ ॥
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥ २२ ॥
गुप्तवती
॥ २० ॥ भक्तजनेषु ये उद्दामास्तेभ्यो दत्त आनन्दोदयो मोक्षो यया ॥ २१ ॥ तारिणी मार्कण्डेयपुराणप्रसिद्धया मदालसया वासिष्ठरामाणप्रसिद्धया चूडालया च तुल्या आद्यया पुत्रस्तारितोऽन्यया पतिरेव तारित इति तत्राख्यानात् ॥ २२ ॥दुर्गाप्रदीपः
॥ २० ॥ भक्तजनेषु य उद्दामास्तेभ्यो दत्त आनन्दोदयो मोक्षो यया ॥ २१ ॥ तारिणीमिति । मार्कण्डेयपुराणप्रसिद्धया मदालसया वासिष्ठरामायणप्रसिद्धया चूडालया च तुल्या आद्यया पुत्रस्तारितो द्वितीयया पतिरेव तारित इति तत्राख्यानात् ॥ २२ ॥मूलम्
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
स तु सप्तशतीसंख्यावरमाप्नोति संपदः ॥ २३ ॥
इति देव्या अर्गलास्तुतिः समाप्ता ।
गुप्तवती
महास्तोत्रम् एतत्प्रधानभूतं सप्तशतीस्तोत्रं । सप्तशतीसंख्यावरं तज्जन्यपुण्यस्य यत्संख्या वरमानन्त्यरूपं तदेव संपदामप्याप्नोतीत्यर्थः ॥ २३ ॥ इति गुप्तवत्यामर्गलास्तोत्रव्याख्या संपूर्णा ॥दुर्गाप्रदीपः
महास्तोत्रं सप्तशत्याख्यम् । अनेन चार्गलास्तुतेरपि सप्तशत्यङ्गत्वं बोधितम् । य एवमर्गलास्तुतिं पठित्वा सप्तशतीस्तोत्रं जपति स तु स एव सप्तशत्याः संख्या जपसंख्या तया यज्जायमानं वरं फलं तत्प्राप्नोति नान्यः । संपदः संपदश्च प्राप्नोति । तस्मादवश्यमर्गलास्तोत्रं पठनीयमिति भावः । सिद्धिप्रतिबन्धकं पापमर्गलासदृशत्वादर्गला तन्नाशकस्तोत्रस्यापि लक्षणयार्गलेति संज्ञा ॥ २३ ॥ त्रयोविंशतिसंख्यानां श्लोकानामत्र संग्रहः । इति प्रदीपव्याख्याने अर्गलाविवरणम् ॥