कीलकस्तोत्रम्
मूलम्
उपयुक्तो भवति तथा नौषध तथा न किञ्चिदन्यदपि योगसिद्ध्यादिरूपं साधनं विद्यते उपयोगाय । किं तु जाप्यं विना तत्तन्मन्त्रजपरूपकर्माभावेऽपि सर्वमुच्चाटनादिकमाभिचारिकं कर्म तथा समग्राण्यप्यभिलषणीयानि कार्याणि सिध्यन्ति केवलस्तोत्रमात्रेणेति । एतावत्पर्यन्तं सप्तशत्युपासनया केवलया सर्वं कल्याणं भवति । तथा सप्तशत्यन्यमन्त्रोपासनयापि सर्वं कल्याणं भवतीति पक्षद्वयमुपपादितम् ॥ ४ ॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ९ ॥
गुप्तवती
विद्यमानविद्याजातवैयर्थ्यशङ्कां निमन्त्रयामास विचारयामास । विचारमभिनीय दर्शयति । सर्वमिति । एवं कीलकनिर्माणे कृते सति सर्वमिदं विद्याजातं शुभं सार्थकं स्यादिति चण्डीस्तवमात्रपाठेन कृतार्थाः सन्तो लोकाः सर्वाणि धर्मार्थकाममोक्षशास्त्राण्यत्यजन् । अतः कीलननिर्माणेन स्तवमात्रजन्यानां सिद्धीनां प्रतिबन्धः शिवेनेतरविद्यासार्थक्यार्थं कृत इति श्लोकचतुष्काशयः ॥ ५ ॥दुर्गाप्रदीपः
इत्थं पक्षद्वयमपीदमस्तीति या पक्षद्वयविषयिणी लोकानां शङ्का तां प्रथमतो हरः कृत्वा तच्छङ्कानिरासार्थं निमन्त्रयामास निमन्त्रितवानर्थाल्लोकान् । तानागतानाह । किमिति एवं वक्ष्यमाणप्रकारेणेदं सप्तशत्याख्यमेव शुभमिति अः ⟨…⟩ तानाहेति शेषः ॥ ५ ॥मूलम्
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः । समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥६ ॥
गुप्तवती
स्तोत्रमिति । चण्डिकायाः स्तोत्रं गुह्यमप्रचरदवस्थं चकार । क्वचित्प्रचारमात्रेण यत्नाल्लाभेऽपि तस्य पुण्यस्य तज्जन्यफलातिशयस्य या नसमाप्तिरनन्तता तामपि नियन्त्रणां नियन्त्रितां निगूढोपायां चकार ॥ ६ ॥दुर्गाप्रदीपः
अनन्तरं च चण्डिकायास्तु चण्डिकाया एव स्तोत्रं सप्तशत्याख्यं तच्च गुह्यमतिरहस्यं चकार । पूर्वोक्तमन्त्रजपरूपपक्षापेक्षया द्वितीयं पक्षमेव सारभूतं चकारेत्यर्थः । इति मार्कण्डेयेन तन्त्रोक्तं पूर्ववृत्तं कथितं पुनः शिष्यान् सप्तशतीमाहात्म्यं कथयंश्छिवाभिप्रायं कथयति । यस्मादेतत्स्तोत्रपाठजन्यफलस्य न समाप्तिः कदापि भवति । तत्तन्मन्त्रजपजन्यपुण्यस्य तु समाप्तिरस्ति । तस्मात्तां पूर्वोक्तां शिवेन कृतां नियन्त्रणां प्रथमपक्षस्य सङ्कोचरूपां यथावद् यथार्थमेव ज्ञातव्यमिति शेषः॥६॥मूलम्
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७ ॥
गुप्तवती
न ह्येतावता सर्वथा स्तोत्रात् सिद्धिहानिर्मन्तव्या । गुरुमुखात्तादृशोत्कीलनोपायज्ञानशीलस्य तथानुष्ठितवतो यथा पूर्वमितरविद्यानैरपेक्ष्येणैव सिद्धिसम्भवादित्याह । सोऽपीति । तमुपायमेव प्रदर्शयति । कृष्णायामिति । यस्मिन्मासि नूतनार्जनं तस्मिन्मास इति शेषः ॥ ७ ॥दुर्गाप्रदीपः
सोऽपि क्षेममिति । सोऽपि तत्तन्मन्त्रजपकर्तापि एतत्स्तोत्रजपसहितश्चेदेव सर्वं क्षेममवाप्नोति तस्मात्त प्रथमपक्षं विहाय सप्तशतीपाठे एव सर्वैरादरः कर्तव्य इत्यर्थः । एतेनान्ये मन्त्रा अपि सप्तशतीपाठं कृत्वैव जपनीयाः अन्यथा तत्तन्मन्त्रफलप्राप्तिर्न स्यादिति बोधितम् । यत एतत्सर्वमन्त्रसिद्धिप्रतिबन्धकनाशकं भवति तस्मादेव मन्त्राणामभिकीलकमेतदिति पूर्वमुक्तमिति बोध्यम् । अभिकीलकं सिद्धिप्रतिष्टम्भकरं दोषरूपम् । तन्नाशकत्वादस्यापि लक्षणयाभिकीलकत्वम् । नन्वत्रापि नवार्णमन्त्रजपापेक्षास्त्येवेति चेत्सा शीघ्रफलार्थमिति ब्रूमो न तु तद्विना फलमेतस्य नास्तीति एतद्विना तु तत्तन्मन्त्राणां फलमेव न भवतीति विशेषः ॥ ७ ॥मूलम्
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति । इत्थंरूपेण कीलेन महादेवेन कीलितम् ॥ ८ ॥
गुप्तवती
ददातीति । धातुद्वयेन मिलित्वा दानप्रतिग्रहनामकस्यैव कर्मणो विधिः । तत्स्वरूपं च गुरुकीलके व्यक्तीभविष्यति ॥ ८ ॥दुर्गाप्रदीपः
परन्तु हे शिष्यास्तत्स्तोत्रं सर्वेषामप्यचिन्त्यफलप्रदं जातमिति सर्वेऽपि सर्वेश्वरा भविष्यन्तीति ज्ञात्वा महादेवेन कीलितमस्तीत्याह । कृष्णायामिति । कृष्णचतुर्दश्याम् अष्टम्यां वा कृष्णायां समाहित एकाग्रः सन् य उपासको निजं सर्वं धनं न्यायेनार्जितं देव्यै ददाति समर्पयति । हे देवि इत आरभ्येदं सर्वं धनं मदीयं तुभ्यं मया दत्तमस्ति इति समपैयति पश्चात् संसारयात्रानिर्वाहार्थं गृहाणेदं द्रव्यं मत्प्रसादभूतमिति देव्या अनुज्ञां मनसा गृहीत्वा तद्द्रव्यं प्रसादबुद्ध्या प्रतिगृह्णाति । गृहीत्वा च धर्मशास्त्रोक्तमार्गेण तस्य व्ययं कुर्वन्निरन्तरं देव्यधीनो भवति तस्यैषा सप्तशती प्रसन्ना भवति नान्यथा । इत्थंरूपेण कीलेन सिद्धिप्रतिष्टम्भकरेण महादेवेन कीलितमस्ति । अयंच कीलकस्यार्थों रहस्यागमे गुरुकीलकपटले प्रदर्शितः अग्रे स्पष्टीकरिष्यामः ॥ ८ ॥मूलम्
निष्कीलां विधायैनां नित्यं जपति संस्फुटम् । स सिद्धःसगणःसोऽपि गन्धर्वो जायतेऽवने ॥ ९ ॥
ाप्यटतस्तस्य भयं क्वापीह जायते । नाऽपमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥ १० ॥
आरभ्य कुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११ ॥
ग्यादि च यत्किंचिद्दृश्यते ललनाजने । तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥
गुप्तवती
॥ ९ ॥मूलम्
१० ॥ ज्ञानारम्भात्यागरूपं कर्माह । ज्ञात्वेति । कुर्वीत न लज्जेत् । अकुर्वाणः लज्जन्विनश्यति ानो भवति ॥ ११ ॥
१२ ॥
दुर्गाप्रदीपः
तर्हिं किं कर्तव्यमित्याह । यो निष्कीलामिमांति यस्मादेवं तस्माद्यो हि पुरुष एनां सप्तशतीं पूर्वोक्तदानमात्र ीन निष्कीलां विधाय स्फुटं यथा स्यात्तथा संजपति स एव सिद्धो भवति । स एव देव्या गणो भवति । सोऽपि स ने सर्वजगद्रक्षणे गन्धर्वो बृहदारण्यके 'तस्यासीत् दुहिता गन्धर्वैर्गृहीता'इति श्रुत्युक्तदेवताविशेषो गन्धर्वो जायते । स र्थः सर्वजगद्रक्षणे इति ॥ ९ ॥ दृष्टफलान्याह । न चैवाप्यटत इति । स्पष्टार्थमेवैतत् ॥ १० ॥ एतादृशकीलकमज्ञात्वा दोषमाह । ज्ञात्वेति । पूर्वोक्तं कीलकं ज्ञात्वा तत्परिहारं प्रारभ्य पाठं कुर्वीत । तत्परिहारमकुर्वाणो विनश्यति । वं तस्मात्कीलकं ज्ञात्वैव सम्पन्नं निर्दुष्टमिदं स्तोत्रं बुधैः प्रारभ्यते । अत्र विनाशकथनं कीलकज्ञानस्यावश्यकत्वार्थमेव । ⟨…⟩ ंचितपाठस्यापि वचनान्तरैरनुज्ञानात् । तेन जाप्यमिति तेन हेतुनेत्यर्थः ॥ ११ ॥ १२ ॥ तु जप्यमानेऽस्मिन्स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समाप्यापि ततः प्रारभ्यमेव तत् ॥ १३ ॥ यत्प्रसादेन सौभाग्यारोग्यसम्पदः । शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥१४॥ इति लक्ष्मीकीलकस्तोत्रं संपूर्णम् ।गुप्तवती
शनैरिति । अत्वरयेत्यर्थः । न तूपांशुस्वरेण मनसा वा वाचिकस्पष्टजपस्यैवावश्यकत्वोक्तिः ॥१३॥१४॥ ⟨…⟩ तिगुप्तवत्यां लक्ष्मीकीलकव्याख्या समाप्ता ॥दुर्गाप्रदीपः
शनैस्त्विति । शनैः स्वकर्णगोचरं यथा स्यात्तथा पाठे यत्किंचित्सम्पत्तिरेव भवति । उच्चैरुच्चैः पाठे तु सभवत्येव । तत उच्चकैरेवैतत्प्रारभ्यमित्यर्थः ॥ १३ ॥ इत्थं मुनिः कीलकविधिं समाप्य जनानाक्रोशति । ऐश्वर्यमिति । ⟨…⟩ क्षः कैवल्यमोक्षः । अहो मन्दभाग्या एते दृष्टिगोचरं चिन्तामणिं कामदुघां भगवतीं विहाय स्वकल्याणार्थं वराटिकाम ⟨…⟩ पासनारूपां किमर्थं गृह्णन्तीति ॥ १४ ॥ 'श्लोकाश्चतुर्दशैवात्र कीलके सम्प्रतिष्ठिताः' । इति प्रदीपव्याख्यायां लक्ष्मीटीका समाप्ता ॥ रहस्यतन्त्रस्थो गुरुकीलकपटलः । शिव उवाच । सनत्कुमाराय दत्तमेतन्मयानघ । संवर्ताय ददौ तच्च स चान्यस्मै ददौ च तत् ॥ १ ॥ चण्डीस्तोत्रस्य माधुर्येण महीतले । ब्रह्मकाण्डः कर्मकाण्डस्तन्त्रकाण्डश्च सर्वथा ॥ २ ॥ प्रतिहतोऽनेन शीघ्रसिद्धिप्रदायिना । तदा तेषां च सार्थक्यं कर्तुकामेन भूतले ॥ ३ ॥ तिग्रहाख्येन मन्त्रोऽयं कीलितो मया । दानप्रतिग्रहाख्यं यत्तत्कीलकमुदाहृतम् ॥ ४ ॥ भ्य च मन्त्रोऽयं कीलकेनास कीलितः । न सर्वेषां भवेत्सिद्ध्यै ये कीलकपराङ्मुखाः ॥ ५ ॥ ाः कीलकेनेमं जपन्ति परया मुदा । तेषां देवी प्रसन्ना स्यात्ततः सर्वाः समृद्धयः ॥ ६ ॥ ूतस्त्वदाज्ञप्तस्त्वदासस्त्वत्परायणः । त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ ७ ॥ जतमिदं सर्वं तव स्वं परमेश्वरि । राष्ट्रं बलं कोशगृहं सैन्यमन्यच्च साधनम् ॥ ८ ॥ तिं करिष्यामि यत्रार्थे त्वं नियोक्ष्यसि । तत्र देवि सदा वर्ते तवाज्ञामेव पालयन् ॥ ९ ॥ संचिन्त्य मनसा स्वार्जितानि धनानि च । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः १० येन्महादेव्यै स्वार्जितं सकलं धनम् । राष्ट्रं बलं कोशगृहं नवं यत्तदुपार्जितम् ॥ ११ ॥