देवीकवचम्
मार्कण्डेय उवाच ।
मूलम्
गुप्तवती
श्रीगणेशाय नमः ।दुर्गाप्रदीपः
ॐ नमो भगवत्यै ।ब्रह्मोवाच ।
मूलम्
गुप्तवती
॥ २ ॥दुर्गाप्रदीपः
उत्तरमाह । ब्रह्मोवाच । अस्ति गुह्यतमं विप्रेति । हे विप्र त्वया यत्पृष्टं तादृशं देव्यास्तु देव्या एव कवचं पुण्यं एकं निधिबुद्ध्या स्थापितमस्ति तन्महामुने शृणुष्व । सर्वभूतोपकारार्थे प्रवृत्तत्वान्महामुने इति सम्बोधनम् ॥ २ ॥मूलम्
गुप्तवती
॥ ३ ॥दुर्गाप्रदीपः
परंतु सा देवी नवमूर्त्यात्मिका ध्येयेत्यभिप्रायेण तासां मूर्तीनां नामान्याह । प्रथमं शैलपुत्रीति । नामज्ञाने जाते तद्वाच्याकारस्य प्रसिद्धत्वादेव ज्ञानं भविष्यतीति भावः । सर्वोत्तरैश्वर्यवत्यपि भगवती शैलेन भक्तेनातितपश्चर्यया प्रार्थिता सती कारुण्यवशादतिनीचमपि पुत्रीत्वं स्वीकृतवतीत्यहो भक्तवात्सल्यं कियद्वर्णनीयं भगवत्या इति कूर्मपुराणे प्रसिद्धम् । ब्रह्मचारिणीति । ब्रह्म सच्चिदानन्दरूपं तच्चारयितुं प्रापयितुं शीलमस्याः सा ब्रह्मचारिणी ब्रह्मरूपप्रदेत्यर्थः । चन्द्रघण्टेति चन्द्रो हस्तगतायां घण्टायां यस्याश्चन्द्रवन्निर्मला वा घण्टा यस्या इत्यर्थः । यद्वा आह्लादकारिणी देवी चन्द्रघण्टेति कीर्तितेति रहस्यागमोक्तेश्चन्द्रं घण्टयति प्रतिवादितया भाषते स्वस्याह्लादकारित्वाभिमानेनेति चन्द्रघण्टा | चन्द्रापेक्षयाप्यतिशयेन लावण्यवतीत्यर्थः । पटपुटेति दण्डकपठितस्य चुरादेर्घटिधातोर्भाषार्थस्य पचाद्यचि रूपं । चन्द्रस्य घण्टा चन्द्रघण्टा वा । कूष्माण्डेति कुत्सित ऊष्मा सन्तापस्तापत्रयरूपो यस्मिन्संसारे स संसारो अण्डे मांसपेश्यामुदररूपायां यस्याः त्रिविधतापयुक्तसंसारभक्षणकर्त्रीत्यर्थः । अण्डः पेशी च मुष्कं च इति मेदिनी ॥ ३ ॥मूलम्
गुप्तवती
॥ ४ ॥दुर्गाप्रदीपः
स्कन्दमातेति । सनत्कुमारस्य भगवतीवीर्यादुद्भूतस्य स्कन्द इति संज्ञा भगवान्सनत्कुमारस्तं स्कन्द इत्याचक्षते इति छान्दोग्यश्रुतेः । तथा च ज्ञानिभिरपि यदुदरे जन्माभिलषणीयमित्यतिशुद्धेत्यर्थः । कात्यायनीति देवकार्यार्थं कात्यायनाश्रमे आविर्भूता तेन कन्यात्वेन स्वीकृतेति कात्यायनीति नाम भगवत्याः । अस्या निरन्तरं कुमारीत्वेन पत्यनधीनतया स्वतन्त्रत्वम् । कालरात्रीति सर्वमारकस्य कालस्यापि रात्रिर्नाशिकेत्यर्थः । प्रलये कालस्यापि नाशात् । कृदिकारादक्तिनः इति ङीप् । महागौरीति । इयं च महामानिनी । नर्मोक्त्या शिवेन कालीत्युक्ते तपसा गौरवर्णस्य सम्पादितत्वात् । कालीपुराणे स्पष्टमेतत् ॥ ४ ॥मूलम्
गुप्तवती
॥ ५ ॥दुर्गाप्रदीपः
सिद्धिदेति । मोक्षदेत्यर्थः । इतीति शेषः । सिद्धिदेति नवममित्यन्वयः । नवदुर्गा इति । योगिनः कायव्यूहवदेकस्या एव दुर्गाया एते नवभेदा ये शास्त्रे ध्येयत्वेन प्रोक्तास्ते मया कीर्तिता इत्यर्थः । अत एव देव्यास्तु कवचमित्येकवचनं संगच्छते । नाम्नां स्वकल्पितत्वशङ्काव्युदासार्थमाह । उक्तान्येतानीति । महात्मना सर्वज्ञेन ब्रह्मणैव वेदेनैवैतान्युक्तानीत्यर्थः ॥ ५ ॥मूलम्
गुप्तवती
अग्निनेति । यो नवनामानि पठेदिति शेषः । पठन्तमेकमपि बहवोऽन्ये ये शरणं गताः तेषां तस्य चानिष्टनिवृत्तिरिति श्लोकद्वयार्थः ॥ ६ ॥दुर्गाप्रदीपः
इत्थं कवचपाठे ध्येयं देवतास्वरूपं प्रदर्श्य तत्फले अविश्वासो नैव कर्तव्य इति कैमुतिकन्यायेनाह । अग्निनेति । योऽग्निना दह्यमानो रणे शत्रुमध्ये च गतः सन् शरणं गत इति शेषः । अथ ये विषमे दुर्गमे चातिसङ्कटे भयार्ता भयपीडिताः सन्तः शरणं गताः ॥ ६ ॥मूलम्
गुप्तवती
॥ ७ ॥दुर्गाप्रदीपः
तेषां तस्य च भक्तिरहितेन स्मरणमात्रेणापि तज्जन्यं भयादिकं न भवतीत्याह । न तेषामिति ॥ ७॥मूलम्
गुप्तवती
आर्तभक्तिफलमुक्त्वा जिज्ञासुभक्तेः फलमाह । यैस्त्विति । सिद्धिर्ज्ञानम् । आर्तानिष्टनिरासानुगुण एव सप्तमातॄणां सार्वदिक उद्योग इत्याह । प्रेतसंस्थेत्यादिना ॥ ८ ॥ ९ ॥दुर्गाप्रदीपः
यैस्तु भक्त्या स्मृता भवति तेषां पूर्वोक्तं फलम् । ऋद्धिर्धर्मार्थकाममोक्षाणां च भवतीत्यत्र किमु वक्तव्यमित्याह। यैस्त्विति । इदानीं देव्या अतिवात्सल्यं दर्शयति भक्त्युत्पादनार्थं प्रेतसंस्थेति । तत्र सप्तमातॄणां वर्णनं श्लोकद्वयेन ॥ ८ ॥ ९ ॥मूलम्
गुप्तवती
तेषां सिद्धिरिति पाठान्तरम् ॥ १० ॥ ११ ॥दुर्गाप्रदीपः
नानेति । वक्ष्यमाणा देव्यः दृश्यन्त इति । सप्तमातृभिन्ना याश्च देव्यस्ता अपि भक्तरक्षणार्थे क्रोधसमाकुला रथमारूढा । जात्यैकवचनं रथानारूढा दृश्यन्ते अर्थाद्देवादिभिरिति ॥ १० ॥ ११ ॥मूलम्
दुर्गाप्रदीपः
(प्रदीपः ) तासामायुधान्याह । शङ्खमिति ॥ १२ ॥मूलम्
दुर्गाप्रदीपः
(प्रदीपः ) दैत्यानिति । ताः सप्तमातरश्च शङ्खं चक्रमित्यादिश्लोकोक्तानीत्थमायुधानि धारयन्ति । किमर्थं दैत्यानां देहनाशार्थे भक्ताभयार्थे देवहितार्थे चेत्यर्थः । अयं भावः । अप्रार्थिता अपि एता महत्यो देवता जगद्रक्षणे वत्सलतयैव प्रवृत्ता मातृवत् ताः कुतो न मन्दभाग्येन स्वरक्षणार्थे प्रार्थ्यन्त इति ॥ १३ ॥मूलम्
गुप्तवती
इत आरभ्य भक्तः प्रार्थयते महाबले इत्यादिना ॥ १४ ॥दुर्गाप्रदीपः
कवचपाठस्यादाविमं प्रार्थनामन्त्रं पठित्वा पश्चात्कवचं पठनीयं इत्यभिप्रायेणाह । महाबलेति । महद्बलं मायाशक्तिरूपं यस्याः । महानुत्साहो जगद्रक्षणे यस्याः । महाभयं मृत्युरूपं तस्य ज्ञानदानेन नाशिनी । दुःप्रेक्ष्ये दुर्दर्शनीये । न संदृशे तिष्ठति रूपमस्य इति श्रुतेः । शत्रूणां कामक्रोधादिकानाम् ॥ १४ ॥मूलम्
गुप्तवती
प्राच्यां रक्षतु मामैन्द्रीत्यादौ यत्र प्रथमान्तं देवीनाम लोटः प्रथमपुरुषश्च । दक्षिणे रक्ष वाराहीत्यादौ यत्र संबुद्ध्यन्तं नाम मध्यमपुरुषश्च । तत्र निर्विवाद एवाऽन्वयक्रमः । तत्तदुत्तरचरणे यथायोग्यं तत्तत्क्रियापदयोरेवानुवृत्तिश्च । यत्र तूर्ध्वं ब्रह्माणि मे रक्षेदित्यत्र संबुद्धिः प्रथमपुरुषश्च तत्र भवती इत्यस्याध्याहारः । तुल्यन्यायेन प्रथमान्तमध्यमपुरुषयोः सत्त्वेऽध्याहृतस्य त्वमित्यस्य विशेषणत्वेन प्रथमान्तपदं योजनीयम् ॥ १५ ॥दुर्गाप्रदीपः
प्राच्यामिति । प्राच्यां दिशि स्थिता ऐन्द्रीन्द्रशक्तिर्मां रक्षत्वित्यर्थः । प्राच्यां स्थितं मामिति वा । एवमुत्तरत्रापि शक्तिशक्तिमतोरभेदादग्निरूपा देवताग्निशक्तिरित्यर्थः । अत्र रक्षत्वित्यनुवृत्तिः । वाराही वराना हन्ति स वराहो यमः आर्षः प्रयोगः । तस्य शक्तिर्वाराही । अणन्तान् ङीप् । यमशक्तिरित्यर्थः । दशदिक्पालप्रकरणात् । सप्तमात्रन्तर्गता वा वाराही । हे वाराहि दक्षिणे देशे स्थिता त्वं मां रक्षेत्यर्थः । स्थितं मामिति वा । खड्गधारिणी निर्ऋतिशक्तिरित्यर्थः । रक्षत्वित्यस्य मध्ये विच्छेदादध्याहारः ॥ १५ ॥मूलम्
गुप्तवती
॥ १६ ॥दुर्गाप्रदीपः
मृगवाहिनी । वायुदेवताया मृगवाहनत्वाद्वायुशक्तिरित्यर्थः । रक्षेदित्यनुवृत्तिः । कौमारी । कुत्सितो मारो मदो यस्य स कुमारः कुबेरस्तस्येयं शक्तिः कौमारी दिक्पालप्रकरणात् । कौबेर्या रक्षणस्थानमग्रे वक्ष्यमाणमस्ति तथाप्येकस्या एव स्थानद्वयरक्षकत्वे बाधकाभावः । सप्तमात्रन्तर्गता वा कौमारी शूलधारिणी । ईशानशक्तिरित्यर्थः ॥ १६ ॥मूलम्
गुप्तवती
॥ १७ ॥दुर्गाप्रदीपः
ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यऽण् । हे ब्रह्माणि ऊर्ध्वं स्थिता भवती मे मां रक्षेदित्यर्थः । मे ऊर्ध्वं भागमिति वा । एवमिति दशदिक्पालदेवतावदेव । मे इति शेषः । मे मत्संबन्धिनीदेशदिशश्चामुण्डा रक्षेदित्यर्थः । दशदिक्षुस्थिता चामुण्डा मां रक्षेदिति पर्यवसितोऽर्थः । अन्यथा केवलदिशां रक्षणे प्रयोजनाभावः ॥ १७ ॥मूलम्
गुप्तवती
स्थातु तिष्ठतु ॥ १८ ॥दुर्गाप्रदीपः
जया शक्तिः स्थातु तिष्ठतु आर्षः प्रयोगः । मत्संरक्षणार्थम् ॥ १८ ॥मूलम्
गुप्तवती
शिखामिति । उद्योतिनीनामिका देवी मम शिखायां स्थिता सती मच्छिखां रक्षेदिति रीत्या प्रत्यवयवं योजनीयम् । एवमुभयविधस्य मध्ये यदेव यत्र नोच्यते तदन्यतरत्तत्राध्याहार्यम् । यथाऽत्रैव प्रथमचरणेऽवस्थापनस्य द्वितीयचरणे रक्षणस्याध्याहारः । एवं सर्वत्र ॥ १९ ॥दुर्गाप्रदीपः
शिखामिति । उद्योतिनीनामिका देवी मम शिखायां स्थिता सती मच्छिखां रक्षेदिति प्रत्यवयवं सर्वत्र योजनीयम् । ? उमा मूर्ध्नि व्यवस्थिता सती मूर्धानं रक्षेदित्यर्थः । एवं सर्वत्र यथायोग्यमध्याहार्यम् ॥ १९ ॥मूलम्
गुप्तवती
॥ २० ॥ २१ ॥ २२ ॥ २३ ॥दुर्गाप्रदीपः
नासिके नासिकापुटे इत्यर्थः । उत्तरत्र नासिकाशब्देन नासिकादण्ड इति ॥ २० ॥ २१ ॥ 'अधरे' अधरोष्ठ इत्यर्थः ॥ २२ ॥ २३ ॥मूलम्
गुप्तवती
नलिकां कण्ठनालम् ॥ २४ ॥ २५ ॥दुर्गाप्रदीपः
कण्ठस्य वहिर्भागो बहिः कण्ठः । नलिकां कण्ठनालम् ॥ २४ ॥ स्कन्धमारभ्य कूर्परपर्यन्तो भागो बाहुस्तदारभ्याङ्गुलिपर्यन्तो हस्तः ॥ २५ ॥मूलम्
गुप्तवती
॥ २६ ॥ २७ ॥ २८ ॥ जङ्घे इति | प्रोक्ता आगमादिषु प्रसिद्धेत्यादिदेव्या विशेषणं महाबलायाः ॥ २९ ॥ पादाध इति भिन्नं पदम् । तलवासिनी पातालवासिनी ॥ ३० ॥ ३१ ॥दुर्गाप्रदीपः
कुक्षाविति सप्तम्यन्तपाठः प्राचीनसंमतः ॥ २६ ॥ २७ ॥ जानुनी विंध्यवासिनीति पाठः ॥ २८ ॥ प्रोक्तागमादिशास्त्रेषु या महाबला सेत्यर्थः ॥ २९ ॥ पादाथ इति भिन्नं पदम् । तलवासिनी पातालतलवासिनीत्यर्थः । यद्यपि नखाञ्छूलेश्वरी रक्षेदित्यत्र नखरक्षणमुक्तं तथापि यथैकस्या अपि देवतायाः स्थानद्वयरक्षकत्वं न विरुध्यते तथैव देवताद्वयस्यैकस्थाननिरूपितरक्षकत्वे बाधकाभाव इत्यभिप्रायेण नखान्दंष्ट्राःकराली चेत्युक्तम् ॥ ३० ॥ ३१ ॥मूलम्
गुप्तवती
पद्मं हृदयादिरूपमेव कोशो निवासस्थानं यस्य श्वासस्य तस्मिन्वाते स्थिता सती वातं रक्षत्विति यावत् ॥ ३२ ॥दुर्गाप्रदीपः
आन्त्राणीति अम्धातोस्त्रेऽनुनासिकस्य क्वीति दीर्घः 'पद्मकोशे' पद्मं हृदयादिरूपमेव कोशो वासस्थानं यस्य श्वासस्य तस्मिन्वाते स्थिता सती तं रक्षत्विति यावदिति केचित् । अग्रे प्राणानां रक्षणकथनात् पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् इति श्रुत्युक्तं हृदयमेव पद्मकोशशब्देन ग्राह्यमित्यपरे । चूडामणिनाम्नी देवता रक्तासुरवधे प्रसिद्धा ॥ ३२ ॥मूलम्
गुप्तवती
॥ ३३ ॥ अहंकारमिति । अत्र मनःशब्दश्चित्तपरः । अन्तःकरणस्य मनसा सह चतुर्विधत्वात्तेन मनः शोकविनाशिनीत्यनेन न गतार्थता । अथवा मनसः शोकं विनाशयतीति व्युत्पत्त्या । स्तनौ रक्षेन्महादेवीत्यस्य तदेव विशेषणत्वेन योज्यम् । व्यानसमानोदानमिति समाहारे द्वितीयान्तम् ॥ ३४ ॥ ३५ ॥दुर्गाप्रदीपः
नखज्वालां नखनिष्ठं तेजः । अभेद्यानाम्नी देवता सर्वसंधिषु स्थिता सती सर्वसंधीन्रक्षेदित्यर्थः । हे ब्रह्माणि भवती मे शुक्रं रक्षेदित्यर्थः ॥ ३३ ॥ हे धर्मचारिणि । अत्र त्वमित्यध्याहारः । रक्षेति मध्यमपुरुषात् ॥ ३४ ॥ हे इन्द्राणि भवतीत्यध्याहारः ॥ ३५ ॥मूलम्
गुप्तवती
॥ ३६ ॥ ३७ ॥ कवचधारणस्य फलमाह । पदमेकमित्यादिना अधृतकवच इति शेषः ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥दुर्गाप्रदीपः
॥ ३६ ॥ रक्षाहीनमिति । यत्स्थानं रक्षया हीनं भवति कुत इति चेत्कवचेन तु वर्जितं कवचे तस्य स्थानस्योहो न कृतोऽतः तत्सर्वं रक्ष मे देवि यतस्त्वं जयन्ती सर्वोत्कृष्टा पापनाशिनी भवसि ॥ ३७ ॥ अथ पितामहः फलस्तुतिं वक्तुमधिकारिणं प्रथममुपदिशति । पदमेकमिति । यदि शुभमात्मन इच्छेत्तर्हि स पुरुषः कवचेन रहितमेकं पदमपि न गच्छेदिति । क्षणमात्रमपि देवीस्मरणं विना न क्षपणीयमिति तात्पर्यम् । तदुक्तं पुराणेषु ।मूलम्
गुप्तवती
॥ ४२ ॥ ४३ ॥ स्थावरं वत्सनाभादि । जंगमं सर्पादि । कृत्रिमं परस्परयोगजन्यं । यथा तुल्यपरिमाणयोर्मधुसर्पिषोर्योगादिजम् ॥ ४४ ॥ कुलजादयो दुष्टदेवता जातिभेदाः ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥दुर्गाप्रदीपः
दैवीकला चित्कला ॥ ४२ ॥ ४३ ॥ अभिचाराणि परकृतानि ॥ ४४ ॥ कुलजादयो दुष्टदेवता जातिभेदाः । औपदेशिकाः उपदेशेन तन्मात्रेण ये सिद्ध्यन्ति ते क्षुद्रदेवताभेदाः । राज्ञः सकाशादित्यर्थः ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥मूलम्
गुप्तवती
जपेदिति । अत्र कवचं पुरा कृत्वा सप्तशतीं जपेदिति विधौ कृत्वेति सप्तशत्यङ्गत्वस्यानुवादः । कवचसमाख्यया वचनान्तरैश्च कवचस्य चण्डीपाठाङ्गत्वसिद्धेः । पूर्वे फलान्तरकथनं त्ववेष्टिन्यायेन बहिःप्रयोगान्तरस्वीकारान्न दुष्यति । यावद्भूमण्डलमित्यादिस्तु पूर्णताफलश्रुतिवदर्थवादः । पुरेति पूर्वकालमात्रविधिः । ततश्चाव्यवधानांशस्यात्राकथनात् सूक्तपुटितत्वस्य तु रात्रिसूक्तं पठेदादावित्यनेन विवरणात् । आदिमध्यान्तपदैः क्रमपदेन च विवृतस्य श्रौतक्रमत्वेन तद्बाधायोगाद्रात्रिसूक्तात्पूर्वमेव नवार्णस्य निवेशः । एवमर्गलास्तुतेरपीदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः इत्यनेनाङ्गाङ्गिभावमात्रबोधनादद्य भुक्त्वा श्वो व्रजतीति क्त्वाप्रत्ययस्य व्यवधानेऽपि प्रयोगादुक्तश्रौतक्रमाविरोधेन व्यवधानेऽपि तदुपपत्तेः । कवचार्गलयोस्तु पाठादेव क्रमबोधनाद्दशहोतृव्याहृतिहिंकारसामिधेनीनां दशहोतारं वदेत्पुरस्तात्सामिधेनीनां सामिधेनीरनुवक्ष्यन्व्याहृतीः पुरस्तान्निदधाति हिंकृत्य सामिधेनीरन्वाहेत्युक्तानामिव संकर्षणोक्तक्रमन्यायेन कवचार्गलानवार्णरात्रिसूक्तचण्डीस्तवानां क्रम उन्नेयः । स्तवजपसंख्यानन्तरमपि देवीसूक्तनवार्णरहस्यानां क्रम इति ज्ञेयम् ॥ ४९ ॥ ५० ॥ ५१ ॥ इति श्रीगुप्तवत्यां देवीकवचव्याख्या समाप्ता ॥दुर्गाप्रदीपः
अधुना सप्तशत्यङ्गत्वं कवचस्य विधत्ते । जपेदिति पुरा । प्रथमतः । धत्त इति अनन्तनागो यावद्भूमण्डलं धत्ते धारयति तावदित्यर्थः ॥ ४९ ॥ परमं स्थानं मोक्षरूपं ज्ञानद्वारा प्राप्नोति । नित्यं नियमेन । महामाया सर्वकारणमायाशबलब्रह्मरूपा तस्याः प्रसादतः । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् इति श्रुतेः । य एतां मायाशक्तिं वेद स मृत्युं जयति स पाप्मानं तरति सोऽमृतत्वं च गच्छति इति श्रुतेः । अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः इति श्रुतेश्च । पार्वती परमा विद्या ब्रह्मविद्याप्रदायिनी । विशेषेणैव जंतूनां नात्र संदेहकारणम् इति सूतसंहितोक्तेश्च ॥ ५० ॥ ५१ ॥ कवचेऽस्मिन्सार्धपञ्चाशत्संख्याश्लोकसंग्रहः ॥ इति प्रदीपव्याख्याने कवचव्याख्या समाप्ता ॥