प्रथमोऽध्यायः
मूलम्
चतुर्धरी
॥ श्रीगणेशाय नमः ॥ 'एकमूर्तिरपि भिन्नरूपिणी या जगज्जननपानलक्ष्ये । काच्युतेश्वरतया विवर्तते ⟨…⟩ शक्तिमहमातनोस्मि ताम् ॥ १ ॥ श्रीचतुर्भुजधरामृतान्धसा चण्डिकासुचरितं विविच्यते । धीरसार्थ इह तुष्यतां यतःकीरगीरपि सतां विनोदिनी' ॥ २ ॥ प्राक्किल भगवद्बादरायणान्तेवासी जैमिनिर्महाभारतविषयेषु चित्पदार्थेषु सन्दिहानो मार्कंडेयमहर्षिमुपगम्य प्राचक्षत । अथ नायमस्माकं कथाक्षण इति सर्वार्थाऽभिज्ञान्विन्ध्याचलनिवासिनश्चतुरः पक्षिणः पृच्छ इति मुनिनोपदिष्टोऽसावपि तथैवाकार्षीत् । पुनश्च जैमिनिप्रश्नानुरोधात्सर्गादिपुराणाङ्गव्याख्यानावसरे तुरीयपुराणाङ्गव्याचिख्यासया मार्कण्डेयभागुरिसंवादात्मकमितिहासमनुवर्तयतोऽष्टमं मन्वन्तरमुपक्रममाणा धर्मपक्षिण ऊचुः मार्कंडेय उवाचेति । मृक ⟨…⟩ ण्डोरपत्यं पुमान्मार्कण्डेयः । ( मृगवत्कण्डनेवात्मयोगात् मृकण्डुः । कण्डिके ? मृगव्वादयः । चिन्त्यः प्रलयः । मृगान्कण्डयति वा मृकण्डुः मृगस्यैवास्य कण्डुरिति वा मृकण्डुः । तस्यापत्यं मार्कंडेयः ) । मङ्गलार्थश्चायं चिरंजीविनो ग्रन्थादावुपन्यासः ॥१॥शान्तनवी
श्रीगणेशाय नमः ॥ 'ब्रह्मा यस्यै हरिर्यस्यै रुद्रो यस्यै व्यधान्नमः । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १ ॥ अव्युत्पन्नमुखान्धकूपपतिता गावो मुनेः खिन्दते ताः प्रोद्धर्तुमहो यतध्वमभितः स्वस्वार्थवत्सोत्सुकाः । सूत्रैः पाणिनिसंधृतैरतितरामाकृष्यमाणाः पुनः स्तावः कामदुघा भवन्त्यपि तमस्तोमद्विषः सत्विषः ॥ २ ॥ ऐंह्रींश्रीं पदभावितं जगददस्रष्टुं स्वयं रक्षितुं संहर्तुं समये क्षमामयमयीं ब्राह्मीं श्रियं चण्डिकाम् । आराध्यादिमशक्तिमार्तिदलिनीं श्रीतोमरः शन्तनुर्माकण्डेयपुराणसिद्धमहिमा व्याख्याति विश्वख्यातये ॥ ३ ॥ मार्कण्डेयपुराणोक्तं देवीमाहात्म्यमद्भुतम् । अल्पाक्षरमनल्पार्थमपपाठपराङ्मुखम् ॥ ४ ॥ शुभंयुः शांतयुः शंयुः सत्कीर्तिस्तोमरान्वयः । व्याकरोति पराकृत्य कुव्याख्यानपरंपराम्' ॥ ५ ॥ ॐ नमश्चण्डिकायै । अवत्यस्मादुपासकम् । अवति ब्रह्म चेति विगृह्य अव रक्षणादौ । 'अवतेष्टिलोपश्च' इति मन्प्रत्ययः । तस्य प्रथयस्यैव टिलोपः न प्रकृतेः । अन्यथा हि मडित्येव विदध्यात् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊठौ द्वयोरूठोःसवर्णदीर्घत्वे 'सार्वधातुकार्धधातुकयोः' इति गुणः । 'कृन्मेजन्तः' इत्यव्ययमोमे । 'ॐमित्यनुमतौ प्रोक्तं प्रथमे चाप्युपक्रमे । ॐमित्येकाक्षरं ब्रह्म सर्वमन्त्राधिदैवतम् । गुर्वादिभजने दाने नमः स्यात्क्वाप्यनादरे । चतुर्थां स्यान्नमोयोगान्नमःस्वस्त्यादिसूत्रतः' । चण्डिकायै । चण्डते कुप्यते चण्डा चण्डी च । चण्डैव चण्डिका कोपना । 'बह्वादिभ्यश्च' इति वा ङीप् । 'केणः' इति ह्रस्वः । कुत्सिता शत्रुभिर्निन्दितेति संज्ञायां कन् । अथवा ह्रस्वा दीर्घविलक्षणाकारा सूक्ष्मरूपतया दुरधिगमत्वात् । संज्ञायां कन् । अथवा चण्ड उग्रः तस्य स्त्री चण्डी । पूर्ववत्संज्ञायां कन् । अथवा चण्डते चण्डिका । संज्ञायां ण्वुल् । 'युवोरनाकौ' 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः' इति इत्वम् । मार्कण्डेय उवाच । कडि मदे । मृगवत् कण्डते योगान्माद्यति मृकण्डुः । 'मृकण्ड्वादयश्च' इत्युः । मृगान् कण्डयति मर्दयति वा मृकण्डुः । मृगस्येवास्य कण्डुरिति वा । पृषोदरादित्वात्साधुः । 'वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्' मृकण्डोरपत्यं पुमान् मार्कण्डेयः । शुभ्रादिभ्यश्चेत्यपत्ये ढक् प्रत्ययः । किति चेत्यादिवृद्धिः । 'ढे लोपो कद्वाः' इत्युकारलोपः । ढस्य एयादेशः । उवाच ऊचिवान् । स्वशिष्यायाष्टममनूत्पत्तिहेतुमुक्तवानिति यावत् ।' इह खलु ब्रह्मकल्पे चतुर्दश मनवः क्रमशः क्रमन्ते । तद्यथा । 'स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषो मनुः । औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । षडेते मनवोऽतीता अथ वैवस्वतो मनुः । सावर्णाः पञ्च रौच्यश्च भौत्यश्चागामिनस्त्वमी' । तत्र सवर्णायाः संबन्धिनः सुताः पञ्चापि सावर्णाः सावर्णेयो मनवः कथ्यन्ते । ततश्च स्वायंभुवाद्याः षट् सप्तमो वैवस्वतः अष्टमः सावर्णिः नवमो दशमः एकादशो द्वादशश्च सावर्णेय एव । त्रयोदशो मनुरौच्यः । चतुर्दशस्तु मनुर्भौत्यः । इति चतुर्दश मनवः । तत्राष्टमस्य मनोः सावर्णेरुत्पत्तिं स्वशिष्याय वेदयितुं प्रस्तौति मार्कण्डेयो भगवान् ॥नागोजीभट्टी
॥ १ ॥जगच्चन्द्रचन्द्रिका
॥ श्रीगणेशाय नमः ॥ श्रीहेरम्बं नमस्कृत्य गुरूभीलं सरस्वतीम् । प्रकाश्यते सप्तशती ध्यायः १ ] गुप्तवर्यादिषट्टीकासंवलिता । ४१ भाजनम् ॥ १ ॥ कूर्माचलाधिराजेन्द्रज्ञानचन्द्रनृपात्मजः । श्रीकुमारो जगच्चन्द्रस्तत्सेव्यस्ति भगीरथः ॥ २ ॥ तिपन्नो हर्षदेवसुतो बुधः । तेनेयं क्रियते टीका श्रीजगच्चन्द्रचन्द्रिका ॥ ३ ॥ गोविन्दकारिकाणामावसथ्यामिसुसंताच्च क्रियते ग्रन्थश्चिरायुर्भवतात्प्रभुः ॥ ४ ॥ अनिर्वाच्यं जगज्जन्मलयस्थेमभ्रमाश्रयम् । सत्त्वाद्युपहितात्मानमाश्रये ॥ ५ ॥' अनिर्वाच्यं वक्तुमशक्यमीदृशं यज्जगद् भूर्भुवःस्वराह्वयं तस्य ये जन्मलयस्थेमानः सृष्टिनाशस्थितयस्तेषां तस्तदाश्रयं तदाधारम् । यद्वा अनिर्वाच्या ये जन्मलयस्थेमानस्तेषां भ्रमस्तदाश्रयम् । यद्वा अनिर्वाच्यो यः प्रेमभ्रमस्तदाश्रयम् । प्रियस्थिरेत्यादिना इमनिचि स्थादेशः । सत्त्वादिभिः सत्त्वरजस्तमोभिरुपहित उपाआत्मा यस्य तम् । यद्वा सत्त्वायुपहितश्चासौ आत्मा चेति । सगुणं निर्गुणं चेति भावः । उपपूर्वाद्धातेर्हि ⟨…⟩ ति उमाया गौर्या आश्रय आधारभूतस्तम् । तस्यार्धाङ्के स्थितत्वात् । ईदृशं तं शिवम् आश्रये त्वत्स्वरूपेणोपश्रिञ् सेवायाम् ॥ 'विघ्ननिर्विघ्नकर्तारं दुरितघ्नस्मृतिस्तवम् । वन्दे विघ्नहरं देवं प्रसन्नं करुणार्णवम्' इति ॥ ६ ॥ त्तानां निर्विघ्नस्य विघ्नाभावस्य कर्तारं विहितारं विधातारं वा । 'अधीनो निघ्न आयत्तः' इत्यमरः । दुरितघ्नो तिस्तवौ स्मरणस्तवौ यस्य स तम् । पापनामनि 'अंहोदुरितदुष्कृतम्' इत्यमरः । 'अमनुष्यकर्तृके च' प्रसन्नं संतुष्टम् । विघ्नं हरतीति विघ्नहरस्तम् । ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमरः । करुणायाः दयाया दृस्तम् ईदृशम् । दीव्यतीति देवस्तम् । गणेशमित्यर्थः । पचाद्यच् । वन्दे नमस्करोमि । वदि अभिवादनस्तु‘चतुर्दशजनान्तःस्था या चतुर्दशरूपिणी । चतुर्दशोद्धिता मायाद्धाचतुर्दशनाच्छभा ॥ ७ ॥’ चतस्रो दशा यौवनवृद्धत्वाख्या अवस्था येषां ते चतुर्दशास्ते च ते जनाः प्रजाश्च तेषामन्तः अन्तःकरणे तिष्ठतीति चतुर्दश। चतस्रो दशा येषां ते चतुर्दशा जना इत्यर्थः । चतुर्दशभुवनानि वा । षोडशत्वपक्षे चतुर्दशतत्त्वानि वा । तद्रूपीति चतुर्दशरूपिणी तत्स्वरूपयुक्ता । ‘अत इनिठनौ’इति इनिः । यद्वा तद्रूपमती तच्छीला ताच्छीलिको णिनिः । रूपपिणी । तेषां रूपिणी वा । गृह्यादित्वादिनिः । नान्तत्वान्ङीप् । चतस्रश्च ता दशा अवस्थाश्च ताभिरूहिता परित्यक्ता । स्थितेत्यर्थः । अद्धा तत्त्वतः । ‘तत्त्वे त्वद्धांजसा द्वयम्,’ इत्यमरः । चत्वारो दशाना दन्ता यस्य स चतुर्दशनः तत्र नीला भा कान्तिर्यस्याः सा चतुर्दशनाच्छभा । यद्वा चतुर्दशनच्छ अच्छः स्फटिकश्च चतुर्दशनाच्छौ तद्वद् ‘भा यस्या’ छः स्फटिकभल्लुकः’ इति वैजयन्ती । यद्वा चतुर्दशनवत् अच्छा भा यस्याः सा ईदृशी या माया अस्तीति शेषः । इति कः । ‘दशावस्थानेकविधा’ इत्यमरः ॥ ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते मङ्गलाचरणं कर्तव्यमिति भाष्यात् न्थादौ वस्तुनिर्देशात्मकं नमस्काररूपात्मकं च मङ्गलं कृतम् ‘आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम्’ इति सत्त्वाद्युपहितात्मानमाश्रये तमुमाश्रयमिति । चतुर्दशोहिता मायाद्वा चतुर्देशनाच्छभेत्यत्र च वस्तुनिर्देशः । कमिति । रं देवमित्यत्र नमस्काररूपात्मकं चेति । ननु देवस्मरणादिना मङ्गलं भवत्येवेति लेखनं किमर्थमिति चेत् शिष्यति । यथा गुरुभिर्ग्रन्थादौ लेखनं कृतं तथास्माभिरपि कर्तव्यमित्येतदर्थम् । उमाश्रयं आश्रये इति उभाभ्यां सायुज्यं यथा वामाङ्गे उमास्ति तथा दक्षिणाङ्गेऽहं स्यामिति भावः । 'अष्टसप्तत्युत्तराणां श्लोकानां शतपञ्चकम् । प्रोक्तं त्रे तत्सप्तशतिसंख्यया । विभज्य जुहुयान्मन्त्रैरिति कात्यायनीमतम्'इति कात्यायनीतन्त्रस्य मतमित्यर्थः । तत्सयेयत्र ह्रस्वेकारपाठश्चिन्त्यः । लोकप्रमादाद्वा कल्पनीयः । वयं तु सप्तगुणिता शतसंख्याऽनयेत्यर्थं इति ब्रूमः । नां समाहारः सप्तशती इति न संभवति । श्लोकगणनया अष्टसप्तत्युत्तरशततमे पञ्चकमेव स्यात् । यद्वा सप्तसत्यो श्वरी कौमारी वैष्णवी वाराही माहेन्द्री चामुण्डा विद्यन्तेऽस्यामिति सप्तसतीत्युक्तिरयमित्यादिप्रसङ्गात् । ‘ तालन्या श्व शाम्बशूकरपांसवः’ इतिवत्तालव्या अपि दन्त्याः स्युरित्यपि वक्तुमशक्यत्वाच्च । कुत्रापि पतिव्रतावाचकस्य य कोशेषु तालव्यादेरदृष्टत्वात् । तद्व्याख्यातृभिरपि दन्त्याः स्युरित्यपि वक्तुमशक्यत्वाच्च । कवचार्गलाकीलकादिविशतीमन्त्रस्य सप्तशताहुतयो भवन्तीत्यपि केचिदिति चेन्न । तेनापि न्यूनाधिकसंख्यासंभवात् दोषश्रवणाच्च । ‘यो मूर्खः कवचं हुत्वा प्रतिवाचं नरेश्वरः । स्वदेहपतनं तस्य नरकं च प्रपद्यते । अन्धकश्च महादैत्यो दुर्गाहोमकवचाहुतिप्रभावेण महेशेन निपातितः' इति । अतः सप्तशतीमन्त्रहोमः कथं कर्तव्य इत्याशङ्क्याह । मार्कण्डेय इति । मार्कण्डेय उवाच इत्येको मन्त्रः । 'बलिदाने नमोन्तश्च होमे वह्निप्रिया तथा'इत्यागमात् । मार्कण्डेय उवाच को मन्त्रः ॥ दंशोद्धारः ) ॥ श्रीगणेशाय नमः ॥ मदोन्माद्युद्दामदिग्दन्तिगण्डोन्मदोन्माद्यदिन्दीवरालीविराजन् । अनायांयासपन्नः स पायादपायादुमायास्तनूजः ॥१॥ विद्वत्कुलशिरोरत्नं नत्वा तातं समासतः । दंशोद्धारं सप्तशत्यास्तनोमि ॥ २ ॥ इह खलु तत्रभवान् कृष्णद्वैपायनशिष्यो जैमिनिव्यासमुखादखिलं धर्मजातं श्रुत्वाप्यवशिष्टान् कांश्चित्रभगवन्तं मार्कण्डेयं पृष्ट्वानपि मार्कण्डेयेन श्रीभगवद्ध्यानप्रवणचित्ततया ऽवसराभावाद्विन्ध्याचलनिवासिनं" तुःपक्षिद्वारा बोधितः । तैश्च पक्षिभिर्मार्कण्डेयभागुरिसंवादमुपक्रम्य मन्वन्तरकथाप्रसङ्गेन सप्त मन्वन्तराणि निर्वर्ण्याष्टममन्वन्तरचरितं प्रोच्यते मार्कण्डेय उवाचेत्यादिना । मृकण्डोरपत्यं मार्कण्डेयः । शुभ्रादित्वाड्ढक् । ढेलोप इत्युकारलोपः ॥ सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्वदतो मम ॥ १ ॥गुप्तवती
सावर्णिरिति । अष्टमः स्वायंभुवस्वारोचिषोत्तमतामसरैवतचाक्षुषवैवस्वतादिनाम्नां चतुर्दशानां मध्ये । विस्तरात् ग्रन्थबाहुल्येन ॥ १ ॥चतुर्धरी
सवर्णा छाया तस्या अपत्यं सावर्णिः । वाह्वादित्वादिञ् । यद्वा अग्रजस्य वैवस्वतमनोः समानो वर्णो यस्य इति सावर्णिः । स्वार्थे तद्धिताभिधानात् । तथाच विष्णुपुराणे । ‘ ‘छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णोऽतो सावर्णिस्तेन कथ्यते’ । सूर्यतनयः सूर्यतनय इति दक्षसावर्ण्यादीनां निरासार्थम् । यः सावर्णिरष्टमो मनुः सुरथः कथ्यते तदुत्पत्तिं निशामय जानीहीत्यर्थः । निशामयेति ‘शम लक्ष आलोचने’ इत्यस्य चौरादिकस्य रूपम् । ‘शमोऽदर्शने’ इति दर्शनेतरविषय एव सानुबन्धसंज्ञाविधाना ⟨…⟩ खाभावः । तदुत्पत्तिमितिवाच्यवाचकभेदाभिप्रायेण । विस्तारात्प्रपञ्चतः गदतः कथयतः ममत्यपवादविषये क्वचि(दस्या)दुत्सर्गस्यापि समावेशात्पञ्चम्यर्थे षष्ठी अव्ययं वा पञ्चम्यन्तम् । यद्वा मम विस्तरान्मम शब्दप्रपञ्चात् । ‘विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः’ इत्यभिधानात् । मम मुखाद्वा । अन्ये तु मम गदतः मम वचनादित्याहुः । गद्यतेऽनेनेति गदो मुखम् । गदनं गदो वचः । घञर्थे कः । तदन्तात् तसु ॥ १ ॥शान्तनवी
शृणोति क्रियते वर्ण्यते च वर्णनं च वर्णः । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे' वर्णेन स्तुत्या सहवर्तमाना सवर्णा । अथवा आत्मभर्त्रा सवित्रा समानो वर्णो यस्याः सा सवर्णा । सवर्णायाः अपत्यं पुमान् सावर्णिः । 'स्त्रीभ्यो ढक्' इति ढकं वाधित्वा ‘बाह्वादिभ्यश्च’इति इञ् प्रत्ययः । सावर्णिः पश्चेति तु प्रयोगः । संबन्धविवक्षया दाशरथो राम इति वद्दन्तो ज्ञेयः । सूर्यस्य तनयः सूर्यतनयः । स कतमो मनुरित्यपेक्षायामाह । यो मनुः कथ्यतेऽष्टम इति । 'यच्छब्देनोच्यते योर्थस्तच्छब्दस्तस्य वाचकः’ । यः पुराणैर्वैवस्वतमनोः सप्तमादनन्तरं सूर्यतनयः सावर्णिर्नाम मनुः कथ्यते सोऽष्टमो मनुर्भविष्यतीत्यर्थः' । अत्रमत्वं विधेयम् । सावर्णिरष्टमो मनुरित्येवोक्तौ सवर्णायाः प्रागुक्तसामान्यव्युत्पत्त्या तादृशः अन्यजोपि कश्चिन्मनुः स्यात् । आ उक्तं सूर्यतनय इति । सूर्यतनयोऽष्टमो मनुरित्येवोक्तौ छायासुतो ऽपि सूर्यतनयः शनैश्चरो मनुः स्यात् । अत उभयमुक्तं सावर्णिः सूर्यतनय इति । तस्य सावर्णिरष्टममनोरुत्पत्ति विस्तरात् शब्द रप्रपञ्चाद्रुदतो मम मुखं वा संमुखं निरामय । हे शिष्य दत्तावधानः सन् पश्येत्यर्थः । निशामय शृणविति तु कुव्याख्यानम् । तथाहि शमु उपशमे दिवादिः । शमऌ आलोचने चुरादिः । आभ्यां यथायोगं णिचि ‘अत उपधायाः’इति वृद्धौ । शमाऽदर्शन शमोणौ दर्शनादन्यत्रार्थे मित्संज्ञो भवति । अमन्तत्वादेव मित्वसिद्धौ नियमार्थोऽयं योगः । मितां ह्रस्वः। शमयति व्याधिं निवर्तयति निशामयति श्लोकान् शृणोति । दर्शने तु मित्वाभावात् हस्तत्वाभावादत उपधाया वृद्धिरेव । निशामयति रूपं पश्यति निशामयति । चक्षुषा रूपं पश्यतीत्यर्थः । 'निःशर्करमिदं तीर्थं भारद्वाज निशामय' । चक्षुषा पश्येत्यर्थः । तथाच दुर्घटः । निशाम्य तदुर्गतिमित्यत्र निशामनं चक्षुःसाधनं ज्ञानमिति व्याख्यत् ॥ १ ॥नागोजीभट्टी
सावर्णिरिति । सवर्णायाश्छायाया अपत्यं सावर्णिः । बाह्वादित्वादिञ् । विस्तराद्वदतो ममेति अपादानशेषत्वविवक्षायां षष्ठी । निशामय जानीहि । चुरादे रूपम् । तस्य 'नान्यमितोऽहेतो'इति मित्वनिषेधः । सूर्यस्य तनय रिति दक्षसावर्ण्यादिनिरासार्थम् । यद्वा यः यकारादष्टमो मनुरिहाकारस्तस्य विशेषणं सूर्यतनय इति । सञ्ज्ञाभिस्तेजस्वित्वं न तन्नेदिष्टत्वात्तेन तद्बीजं रेफो लभ्यते । तद्ध्रुवं च हकारस्य लक्षणमुच्यते । तस्यैव विशेषणान्तरात्सावर्णिरिति । सवर्णा लोहितशुक्लकृष्णवर्णसहिता प्रकृतिः तस्यां अपरस्यवरसंबन्धि तद्वाचक इकारः । तद्रूपत्वं लक्षणया अन्तिमो बिन्दुस्तु श्लोके स्वरूपत एव निवेशिते इति । ह्रींइतिबीजं लब्धम् । तदुत्पत्तिं तन्मन्त्रं प्रतिपाद्यदेवताया उत्पत्तिं निशामयेति संबन्धः । यद्यपि एतदुपञ्चमप्रश्ने 'अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने । मनवस्तान् समाचक्ष्व तेषु देवादयश्च ये' इत्येवोक्तं तथापि सावर्णिकाख्यानकथनोत्तरं मार्कण्डेयपुराणे 'सावर्णिकमिदं सम्यक् प्रोक्तं मन्वन्तरं तव । तथैव देवीमाहात्म्यं पृष्टमेतत्त्वयोदितम्' इत्युपसंहारेण तद्विषये कोष्टुकिं प्रश्नस्यानयनात् उपक्रमप्रश्ननिबन्धरूपलक्षणमिति बोध्यम् ॥ १ ॥जगच्चन्द्रचन्द्रिका
एवं प्रतिमन्त्रं स्वाहापदं देयमिति निष्पन्नम् । सावर्ण्याद्यास्ततः परं श्लोकमन्त्राः सप्तदश इति । ततः परं मार्कण्डेय उवाचेतिमन्त्रात्परं सावर्णिरित्ययं श्लोक आद्यो येषां ते सावर्ण्याद्याः । सावर्णिः सूर्यतनय इति प्रथमश्लोकः । मन्त्रस्तु द्वितीयो जात इत्यर्थः । श्लोकरूपमंत्राः सप्तभिरधिका दश सप्तदश । तत्संख्याका वर्तन्त इति शेषः । तथाहि सावर्णिरिति २ ॥ १ ॥दंशोद्धारः
सवर्णा छाया तस्या अपत्यं सावर्णिः । बाह्वादेराकृतिगणत्वादिन् । निशामय जानीहि इत्यर्थः । शमोऽदर्शने । मित्त्वविधानादालोचनार्थस्य चौरादिकस्य रूपम् । मम गदतः गदनं गदः । घयऽर्थे कविधानमिति कः । तस्माज्जानीहीत्यन्वयः । यद्वा गदतो मम । पञ्चम्यर्थे षष्ठी । गमेत्यर्थे विभक्तिप्रतिरूपकमव्ययं वा । ममत्वमिति त्वप्रत्ययप्रकृतिवत् । यद्वा गदतो मम विस्तरात् शब्दप्रपञ्चात् । 'विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः' इत्यभिधानात् ॥ १ ॥मूलम्
नागोजीभट्टी
स्वारोचिषे इति । स्वारोचिषाधिकारोपलक्षिते द्वितीयमन्वन्तरे पूर्वमिति कथाकालापेक्षया । चैत्रस्तस्यैव मनोः सुतः । नामेति प्रसिद्धौ ॥ ३ ॥जगच्चन्द्रचन्द्रिका
स्वारोचिष इति ४ ॥ ३ ॥दंशोद्धारः
स्वारोचिष इति । स्वारोचिषे द्वितीयमन्वन्तरे । चैत्रः स्वारोचिषस्य सुतः ॥ ३ ॥मूलम्
गुप्तवती
कोलाविध्वंसिन इति । कोलेति क्षत्रियाणां कुलविशेष इति केचित् । कोलेति सुरथस्यैव राजधान्यन्तरमित्यन्ये ॥ ४ ॥चतुर्धरी
तस्येति । सम्यक् नीतिशास्त्रानुसारेण प्रजा लोकान् औरसान् धर्मपत्नीप्रभवान्पुत्रानिव पालयतस्तस्य शत्रवस्तथा तादृशा अत्युद्रिक्ता बभूवुः । के ते इत्यपेक्षायामाह । कोलाविध्वंसिन इति । कोलेति अन्येषामेव काचिराजधानी तां विध्वंसितुमध्यासितुं शीलं येषाम् । विशब्देन धातोरन्यार्थकरणात् । तेन कोलाविध्वंसिनः कोलानिवासिनो भूपास्तस्य शत्रवो विपक्षा बभूवुरित्यर्थः । तथा तादृशा उद्रिक्ता इति यावत् । तदेति वा पाठः । अथवा कोलेति सुरथस्यैव राजधान्यन्तरं तां ध्वंसितुमुपमर्दितुं शीलं येषां ते तस्य शत्रवो भूपास्तथा बभूवुः । यथा कोलाविध्वंसिन इत्यन्वयः । अथवा तदा तत्काले तस्य शत्रवः कोलाविध्वंसिनो बभूवुः कोलां तिध्वंसितवन्त इत्यन्वयार्थः केचिदाहुः । यद्वा कोलाः सूकरास्तान्न विध्वंसन्ति न खादन्ति ते कोलाविध्वंसिनो यवनाः । व्रताभीक्ष्ण्ययोश्चेति णिनिः कोलानाम शस्त्रविशेषः तथा विध्वंसितुं शीलं येषां ते । 'कोला शस्त्रप्रभेदे स्यात्' इत्यमरः ॥ ४ ॥शान्तनवी
तदा तस्मिन्स्वारोचिषमन्वन्तरे काले औरसानुरसोत्पादितान् । उरसा निर्मितान् । 'उरसो यच्' पुत्रानिव सम्यक् अनवद्यं यथा स्यात्तथा प्रजा लोकान्पालयतः दुःखेभ्यो रक्षतस्तस्य सुरथस्य राज्ञः कोलाविध्वंसिनो भूपाः शत्रवः शातयितारो बभूवुरित्यन्वयः । को ब्रह्मा । अः विष्णुः । उः महेश्वरः । तान् ब्रह्मविष्णुमहेश्वरान् लाः लान्ति अर्च यितुं गृह्णन्ति इति कोला ब्राह्मणादयः तान् आसमन्ताद्विध्वंसयन्तीति कोलाविध्वंसिनः रक्षोयोनयः । अथवा कोलाः सूकराः तान्विध्वंसयन्ति इति कोलाविध्वंसिनो यवनाः । अथवा कोलान्सूकरान्विध्यन्ति ताडयन्तीति कोलाविधः । नहिवृति व्रषिव्यधि' इति दीर्घः । कोलाविधः क्षत्रियादयः तान् ध्वंसयन्ति इति कोलाविध्वंसिनो यवनाः । ननु च कोलान्सूकरान् अवन्ति रक्षन्तीति कोलाविनो यवनाः तान् ध्वंसयति इति कोलाविध्वंसी तस्य कोलाविध्वंसिनः । सुरथस्यापि विशेषणमे तत्स्यात् । अस्तु यदीत्थं व्युत्पादेत । उत्तरश्लोके तु कोला ⟨…⟩ विध्वंसिभिरित्येतद्यवनविशेषणतया व्युत्पादयिष्यामः । उरसा निर्मितः । 'उरसो यत्' 'औरसो धर्मपत्नीजः' इति स्मृतिः । पुत् अव्ययं नरकवाचि । पितरं पुत् नरकात्रायते पुत्रः । अथवा पूङ् पवने पुनाति पुत्रः । पुवो ह्रस्वश्चेति क्त्रन् । 'पुत्रः स्यादात्मसंभवः । पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । ततः पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा' इति स्मृतिः ॥ ४ ॥नागोजीभट्टी
तथेति । सम्यक् नीतिशास्त्रानुसारेण । कोला सुरथस्यैव राजधान्यन्तरम् । तथा अतिशयेन कोलाविध्वंसिन इत्यर्थः ॥ ४ ॥जगच्चन्द्रचन्द्रिका
तस्य पालयत इति ५ ॥ ४ ॥दंशोद्धारः
तथेति । कोलान्सूकरान्न विध्वंसन्ति ते कोलाविध्वंसिनो यवनाः । यद्वा कोलान्विध्यन्ति ते कोलाविधः 'नहिवृतिवृषि–' इति दीर्घः । क्षत्रियादयस्तान् ध्वंसयन्तीत्यर्थः । को ब्रह्मा अः विष्णुः उर्महेशः तान् लान्ति पूजार्थं गृह्णन्ति ते कोलाः ब्राह्मणास्तानासमन्तात् विध्वंसयन्तीति वा । यद्वा कोला शस्त्रविशेषस्तेन विध्वंसिनः । यद्वा कोला सुरथराजधानी तद्विध्वंसिनः । यद्वा कोला येषामेव राजधानी तस्यां विध्वंसिनो निवासिनः । उपसर्गेण धात्वर्थस्यान्यथात्वकरणात् ॥ ४ ॥मूलम्
गुप्तवती
॥ ६ ॥मूलम्
गुप्तवती
॥ ७ ॥चतुर्धरी
अमात्यैरिति । ततस्तस्य । सार्वविभक्तिकस्तस् । तत्र स्वपुरे अप्यमात्यैः कोशोऽपहृतो बलं चापह तमित्यन्वयः । बलिभिः संजातबलैः दुष्टैर्जांतप्रकोपैः दुर्बलस्य शत्रुक्षयितबलस्य दुरात्मभिः लोभाद्युपहृतान्तःकरणैः कोशोऽर्ध संचयः बलं सैन्यम् ॥ ७ ॥शान्तनवी
तत्रापि तन्मात्रे सपत्नाहतभूचके गर्हिते स्वपुरे सतो निवसतो दुर्बलस्य शत्रुभिर्गृहीतभूचक्रस्य प्रभुमन्त्रो त्साहशक्तिशून्यस्य सुरथस्य कोशो बलं च बलिभिर्बलवद्भिर्दुष्टैरुल्लङ्घितमर्यादैर्दुरात्मभिर्दुराशयैः राज्यं ग्रहीतुं कृतनिश्चये रमात्यैर्मन्त्रिभिः आपहृतम् । आत्मसात्कृतमित्यन्वयः । अमी सह समीपे वा भवा अमात्याः 'स्थौल्यसामर्थ्यसैन्येषु बलं ना का ⟨…⟩ सी रिणोः ।' कोशः स्वर्णादिलोहाष्टकसंग्रहः । 'सुवर्णं रजतं ताम्रं रितिः कांस्यं तथा त्रपु । सीसं कालायसं चैव ह्यष्ट लोहानि चक्षते' । आपहृतः कोशः अपहृतं च बलमिति विगृह्य 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकशेषः । एकवद्भावश्च । अपिशब्दो गर्हायाम् । दुरीषदर्थकुत्सनैवैवर्ण्यांसंभवलाभेषु । दुष्टैरिति । दुष वैकृत्ये । क्तः कर्तरि । वैकृत्यं रूपभ्रष्टः ॥ ७ ॥नागोजीभट्टी
अमात्यैरिति । ततः तस्य । सार्वविभक्तिकस्तसिः । तत्र स्वपुरेऽतिकोशोऽर्थसंचयः बलं सैन्यं चापहृतम् । आत्मसात्कृतम् । दुष्टत्वं राजविषयद्वेषवत्त्वं दुरात्मत्वं राज्यलोभाक्रान्तत्वं दुर्बलत्वं क्षीणबलत्वं रिपुकृताभिभवात् ॥ ७ ॥जगच्चन्द्रचन्द्रिका
अमात्यैरिति ८ ॥ ७ ॥दंशोद्धारः
अमात्यैरिति । दुष्टैः कामक्रोधादिदोषयुक्तैर्दुरात्मभिः स्वाभिद्रोहेण निन्दितान्तःकरणैरित्यपौनरुक्त्यम् । अपहृतमिति । 'नपुंसकमनपुंसकेन' इति नपुंसकशेषः । ततस्तस्य । सार्वविभक्तिकस्तसिः । सत इति वा पाठः । पञ्चम्यन्तं वा ॥ ७ ॥मूलम्
गुप्तवती
॥ ८ ॥चतुर्धरी
ततो मृगयेत्यादि । मृगयाव्याजेन मृगवधच्छलेन हृतं स्वाम्यमाधिपत्यं च यस्य सः । एकाक्यद्वि तीयः । गहनं दुर्गमं वनम् ॥ ८ ॥शान्तनवी
ततः अमात्यैरपहृतकोशबलत्वात् हृतस्वाम्यः अपहृतस्वामित्वः स सुरथो भूपतिः एकाकी अश्व ⟨…⟩ केवलं मृगयाव्याजेन हयमारुह्य गहनं निरन्तरव्याप्तलतादिपिहितोदरं काननं जगाम गतवानित्यन्वयः । मृग्यन्तेऽन्वेष्यन्ते प्राणिनो मृगादयोऽस्यां मृगया पापर्द्धिः तस्या व्याजः । तेन थाखेटकवृत्तिनिरूपण मुनिवनोपगमनमेवात्र मुख्यं कार्यं नतु मृगयाचरणम् । मुख्यकार्यस्वरूपाच्छादनं व्याजः । स्वामिन ईश्वरस्य भावः स्वाम्यम् । हृतं स्वाम्यं यस्मात् स हृतस्वाम्यः । एक एव एकाकी । 'एकादाकिनि ⟨…⟩ सहाये' । 'एकाकी त्वेक एककः' । 'कुटिलं गहनं समे' ॥ ८ ॥नागोजीभट्टी
तत इति । हृतस्वाम्यः हृताधिपत्यः । एकाकी असहायः ॥ ८ ॥जगच्चन्द्रचन्द्रिका
ततो मृगयेति ९ ॥ ८ ॥दंशोद्धारः
तत इति । ततोऽनन्तरमित्यर्थः एकाकी असहायः । यद्वा न कमकं दुःखं एकं च तदकं चैकाकं तदस्यास्तीत्येकाकी । 'एके मुख्यान्यकेवलाः' । कर्मधारयान्मत्वर्थीयस्तु प्राग्वत् । सुखार्थस्य कशब्दस्य नाक इत्यादावमान्तस्यापि दर्शनान्मान्तस्यैव सुखार्थैकत्वं नाशङ्कनीयम् ॥ ८ ॥मूलम्
गुप्तवती
मेधस इति सुमेधोनामकमुनिविशेषस्य । लक्ष्मीतन्त्रे तु 'जन्मानि चरितैः सार्धं स्तोत्रै ⟨…⟩ वेदवादिना। कथितानि पुरा शक्र वसिष्ठेन महात्मना । स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने । समाधये च वैश्याय प्रणतायावसीदते' इत्युक्तम् । अनयोरेकमन्यस्य विशेषणं वा द्वयोरपि नामत्वे कल्पभेदेन दा समाधानम् ॥ ९ ॥चतुर्धरी
स तत्रेति । आश्रमं मुनिवासोचितं स्थानं द्विजवर्यस्य ब्राह्मणश्रेष्ठस्य मेधसो मेधोभिधानस्य । प्रशान्तैः परहिंसाविरहितैः श्वापदैर्हिंस्रपशुभिः आकीर्णमभिव्याप्तम् । मुनेर्मेधसः चित्त्वा मुनिशिष्याः मुनयो मननशीलाश्च ते शिष्या वेति वा मुनयश्च शिष्याश्चेति वा तैरुपशोभितमलंकृतम् ॥ ९ ॥ ोऽध्यायः १ ] गुप्तवत्यादिसप्तटीकासंबलिता । ४७शान्तनवी
द्विजेति संबुद्ध्यन्तम् । वर्य इति तु राजविशेषणम् । मार्कण्डेयः स्वशिष्यं संबोधयति । हं द्विज थचरित्रकथाश्रवणप्रवणो भवति । स वर्यः वर्योऽहं सुस्थः तत्र तस्मिन्वने सुमेधसो नाम मुनेः शिष्योपशोभितं प्रपदाकीर्णम् आश्रममद्राक्षीद्ददर्शेत्यन्वयः । मुनेरिति सुमेधसो विशेषणं विधेयत्वेन । आश्रम्यन्ति तपस्यन्त्यत्रेत्याश्रमः । मातृमौञ्जीभ्यां जायते द्विजः । हे द्विज । सुष्ठु शोभना मेधा यस्य स सुमेधाः । 'नित्यमसिच्प्रजामेधयोः' इत्यसि। तस्य मुनेः तपःसामर्थ्यात्प्रशान्ताः संत्यक्तहिंसता ये श्वापदा व्याघ्रादयस्तैराकीर्णं व्याघ्रम् । शुन इव पदानि येषां ते । 'शुनो दन्तदंष्ट्राकर्णककुद्वराहलाङ्गूलवत्पुच्छेषु' इति दीर्घत्वम् । वरं पुना राज्यावाप्त्यष्टममनुत्वावाप्तिलक्षणमर्हतीति वर्यः 'दण्डादिभ्यो यः' । अथवा 'छन्दसि च' इति यत् । छन्दोवत्पुराणानि भवन्ति । 'तपोभिरिष्यते यस्तु देवेभ्यः स ः' । 'देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये' । शिष्यैर्वेदानधीयद्भिरुपशोभितं शोभान्वितं संजातशोभम् ॥ ९ ॥नागोजीभट्टी
स तत्रेति । मेधा इति ऋषिनाम । वस्तुतो वसिष्ठस्य नामान्तरमिदम् । 'अमुष्याः सावताराया न्या अमानुषम् । जन्मानि चरितैः सार्धं स्तोत्रैर्वा वेदवादिनाम् । कथितानि पुरा शक्र वसिष्ठेन महात्मना । स्वारोचिराज्ञे सुरथाय महात्मने । समाधये च वैश्याय प्रणताय च सीदते' इति लक्ष्मीतन्त्रोक्तेः । 'श्रीशस्तु रूपमास्थाय पुरा मेधसः । स्वमायां ज्ञापयामास सुरथाय समाधये’इत्यन्यत्र । प्रशान्तत्वं परहिंसाविरहत्वम् । मुनिभिस्तच्छिष्यैश्च शोयर्थं ः ॥ ९ ॥जगच्चन्द्रचन्द्रिका
स तत्राश्रममिति १० ॥ ९ ॥दंशोद्धारः
स तत्रेति । मेधसः मेधोऽभिधानस्य । प्रशान्तैःपरस्परत्यक्तवैरः परहिंसारहितैर्वा श्वापदैर्व्याघ्रादिणम् । मुनेर्मेधसः शिष्यैर्मुनिभिर्मननशीलैर्यांशिष्यैरुपशोभितम् ॥ ९ ॥मूलम्
गुप्तवती
॥ १० ॥चतुर्धरी
कंचित्कालमित्यत्यन्तसंयोगे द्वितीया । स चेत्यन्वयः । तेन मुनिना मेधसा सत्कृतः । पूजितःसन्निनियतदिग्देशम् । मुनिवरेति भागुरेः संबोधनं मेधसो विशेषणं वा ॥ १० ॥शान्तनवी
तेन सुमेधसा मुनिना सत्कृतः आहृतः पूजितः स सुरथस्तस्मिन्मुनिवराश्रमं इतश्चेतश्च विचरन् त् कंचित्काल तस्थौ स्थितवांश्चेत्यन्वयः । कालमिति कालाध्वनोरत्यन्तसंयोगे द्वितीया । मुनिषु वरः श्रेष्ठः सुमेधा मुश्रमे । अथवा स सुरथस्त ⟨…⟩ मुनिवराश्रमे तेन मुनिना इतः प्राप्तः अभ्यागतः सत्कृतश्च सन् कंचित्कालं चेतश्च न विचरन् तपःक्षमं स्यान्न वेति विचिन्तयन् तस्थावित्यपरो ऽन्वयः ॥ १० ॥मूलम्
जगच्चन्द्रचन्द्रिका
सोऽचिन्तयदिति १२ ॥ ११ ॥दंशोद्धारः
सोऽचिन्तयदिति । ममेति षष्ठ्यन्तप्रतिरूपकाद्भावे त्वप्रत्ययः ॥ ११ ॥मूलम्
गुप्तवती
॥ १२ ॥चतुर्धरी
मद्भृत्यैरिति । असद्वृत्तैरिति हेतुगर्भं विशेषणम् । अतएव धर्मतः पाल्यते नवेति विकल्पः । धर्मतः ⟨…⟩ र्वाचितनीया । प्रसिद्धः प्रधानो मुख्यः । उक्तलिङ्गे त्यजन्त्यपीति न्यायात्पुंस्त्वम् । तथा च रामायणे लङ्काकाण्डे 'ये प्रधानाः ⟨…⟩ नङ्गमाः' इति । यद्वा प्रधानानि महामात्रास्तैः सहितः । यद्वा सप्रधानो महामात्रसहितः ॥ १२ ॥शान्तनवी
मद्भृत्यैरिति । असद्वृत्तेतरसच्चरितैस्तैर्मद्भृत्यैर्मदमाद्यप्रभृतिभिः पुंभिर्धर्मतः धर्ममाश्रित्य दुःखेभ्यः पाल्यते किं नवेति सोऽचिन्तयत्सुरथ इत्यन्वयः । 'स्वान्ववायागतं वस्तु धर्मायार्थोपसाधनम् । स्वान्ववायोद्भवैः सम्यक् पालनीयं हि धर्मतः' इति यमगीतातो युक्तैषा राज्ञः स्वपुरानुस्मृतिः । मत्पूर्वैः मम वा पूर्वा मत्पूर्वांस्तैः । पूर्वकाले भरणीयाः स्तुत्याः । भृञो संज्ञायां क्यप् । 'हिहेताववधारणे । वृत्त पथे च्चरित्रे ⟨…⟩ वर्तांते दृढनिस्तलं । धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः। उपमायां विकल्पे वा' । स प्रधानः शूरः सदामदः मम वैरिवशं यातः गतः मद्वैरिगृहीतः मे हस्ती सांप्रतं कान् भोगान् लप्स्यते । किंनु भविष्यतीति तन्न जाने इति सोचिन्तयदित्यन्वयः । सुखेन अकृच्छ्रेण प्रकर्षेण धीयते धार्यते पोष्यते च स प्रधानः । 'आतो युक्' इति ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु दधातेर्युक् 'युवोरनाकौ' । स प्रधान इत्यपपाठः । स इति छेदेपि प्रधान इति न स्यात् । प्रदधाति प्रधानमिति नपुंसकत्वात् । यदभ्यधुः । परमात्मविप्रकृतिमहामात्रमुख्येषु प्रधानमजह्लिङ्गमद्वयोरिति । प्रधानेनामात्येन सह वर्तते सप्रधान इति चेत्तन्न । मम वैरिवशं यात इत्यनेन पौनरुक्त्यप्रसङ्गात् । प्रसह्याक्रान्तराज्यत्वादमात्या एव हि वैरिण इत्यलं विस्तरेण । सदा सर्वदा मदो यस्येति सदामदः । यद्वा । स इति छेदः । सपदात् सः प्रसिद्धो मे हस्तीति संबन्धनीयम् । दामानि यति खण्डयति इति दामदः । 'आतोऽनुपसर्गे कः' 'न पुंसि दाम संदानम्' ॥ १२ ॥नागोजीभट्टी
मद्भृत्यैरिति । तथा पालने हेतुरसद्वृत्तैरिति । प्रधानैर्महामात्रैः सहितः सप्रधानः शूरहस्तीति कर्मधारयः । किमवस्थ इति न जाने इत्यन्वयः ॥ १२ ॥जगच्चन्द्रचन्द्रिका
मद्भृत्यैरिति ॥ १३ ॥ १२ ॥दंशोद्धारः
मद्भृत्यैरिति । सप्रसिद्धः प्रधानो मुख्यः । पुंस्त्वमार्षम् । यद्वा प्रधानेन महामात्रेण सहितः सप्रधान इत्येकं पदम् । स प्रधान इति पाठे सुप्रधानाख्यः स प्रसिद्धः । दामन्बन्धनं द्यति खण्डयति इति दामदः मदोन्मत्त इत्यर्थः । 'आतो' नुपसर्गे कः' । दाम्ना सह सदामा स्तंभस्तं दतीति समस्तं वा ॥ १२ ॥मूलम्
गुप्तवती
॥ १३ ॥चतुर्धरी
ममेति । वैरिवशं विपक्षपारतन्त्र्यं यातः प्राप्तः । कान् कियतः कीदृशान्वा ( भोगान् ) उपलप्स्यते उपलभ्यत इति न जाने । साध्याहारोऽन्वयः । अनुगताः सेवकाः । प्रसादस्तुष्टिदानम् । धनं वर्षदेयं दानम् । भोजनं प्रतिदिनं देयम् । यद्वा प्रसादोऽनुग्रहः धनं प्रीतिदानं भोजनं चेतनं च तैर्हेतुभूतैरिति काकाक्षिवदुभयत्र संबध्यते ॥ १३ ॥शान्तनवी
भुज्यन्त इति भोगाः । 'पालनेऽभ्यवहारे च निर्वेशे च पणे स्त्रियाम् । भोगः सुखे भुजंगानां शरीएफणयोरपि' । जाने इति । ज्ञाजनोर्जा शिति । अनुपसर्गाज्ज्ञ ⟨…⟩ इत्यात्मनेपदम् । ये नित्यं संततमनवरतं शश्वत्प्रसादधनभोजनैः प्रसादैरुचितदानैर्धनैर्वेतनरूपैर्भोजनैः मम अनुगता अनुजीविनः ॥ १३ ॥नागोजीभट्टी
ममेति । वशं पारतन्त्र्यम् । कान् कियन्तःकीदृशान्वां न जाने इत्यस्यानुषङ्गः । अनुगताः सेवकाः । सेवकत्वे हेतुः प्रसादेत्यादि । प्रसादस्तुष्टिदानम् । धनं सासिका ⟨…⟩ दिवेतनम् । भोजनं प्रतिदिनं दीयमानं तैः ॥ १३ ॥जगच्चन्द्रचन्द्रिका
मम वैरिवशमिति १४ ॥ १३ ॥मूलम्
जगच्चन्द्रचन्द्रिका
अनुवृत्तिमिति १५ ॥ १४ ॥दंशोद्धारः
असम्यगिति पृथक् पदम् । एतदसम्यगित्यर्थः । यद्वा आयात् तृतीयांशव्ययः सम्यग्व्ययः । तद्र सम्यग्व्ययः विटवेश्यादिषु वा तच्छीलैः ॥ १४ ॥मूलम्
गुप्तवती
॥ १५ ॥चतुर्धरी
दुःखेनेति । दुर्गतं खमिन्द्रियं यस्मिन्निति दुःखम् । दुःखवशात् अदाक्षिण्यात् षात्यदान्तादात तिषेधः । सुखदुःखतत्क्रियायाम् इति धातुपाठात्केचित् दुःखेनेत्याहुः । संचित इति ॥ १५ ॥शान्तनवी
सः पार्थिवः सुरथः । एतच्च पूर्वोक्तम् अतोन्यच्च सततं विस्तारितमन्तःपुरगत पुरान्तरगत दशा च स्वकीयं वस्तु सर्वं चिन्तयामासेत्यन्वयः । सततमित्यत्र स इति छेदः । ततं विस्तारितमित्यर्थः । एकपदत्वे तु सततमिति हि व्याख्यानं स्यात् । ततश्च सुरथश्चिन्तासंततिकाक्रान्तस्वान्ततया वक्ष्यमाणप्रासव्याऽऽम ⟨…⟩ मनुत्वदायात नुकूलतया समाधानविधानविधुरः प्रसज्येत । 'विघ्नं तु विमलार्थकम्’ ‘विधुरं तु प्रविश्लेषे’ ‘विधुरो दुःखिते हीनार्थे च तः' । ननु च सोऽचिन्तयदिति क्रियापदे कृते पुनश्चिन्तयामासेति वाचोयुक्तिर्न युक्तिमतीति चेत् तत्र । उक्तं चानुक्तं पुनःपुनश्चिन्तितमेवाचिन्तितमिवाचिन्तयद्राजेति युक्तिमत् ⟨…⟩ ेव तद्वाचोयुक्तिरिति । पृथिव्या ईश्वरः यां विदितः ज्ञातश्च पार्थिवः । ‘तस्येश्वरः’ ‘तंत्र विदितः’ इतिचेत्यत्र ॥ १५ ॥नागोजीभट्टी
दुःखेनेति निर्विसर्गं पठन्ति । विसर्गैलः । कोशो मूलधनम् । अन्यदनुक्तमपि ॥ १५ ॥जगच्चन्द्रचन्द्रिका
संचित इति १६ ॥ १५ ॥दंशोद्धारः
संचित इति । एतच्च अन्यच्च राज्यभ्रष्टस्य मम पुनः कथं राज्यप्राप्तिरिति ततं विस्तीर्णं पुरान्तरच चिन्तयामास । सततमित्येकपदत्वे तु नैरन्तर्यार्थत्वेन निरन्तरचिन्तासंतानाक्रान्तत्वेन भाव्युदयापया ⟨…⟩ स्य वक्ष्यमाणस्याऽसङ्ख्यापत्तेः इहापि विप्रस्याश्रमः विप्रेति संबोधनं वा ॥ १५ ॥मूलम्
गुप्तवती
॥ १६ ॥चतुर्धरी
विप्रेति भागुरेः संबोधनं मेधसो विशेषणं वा । अभ्याशे निकटे स राजा एकम् अद्वितीयं वैश्यं ददर्श । र्यः तेन राज्ञा । भो इत्यामन्त्रणे । अत्र आश्रमे ॥ १६ ॥शान्तनवी
स सुरथः तत्र तपोवने तथातथा तत्र स्वकीयं वस्तु विचिन्तयन् सन् विप्राश्रमाभ्याशे विप्रस्य सुमेधसो मुनेः आश्रमस्याभ्याशे निकटे देशे एकं कंचित् वैश्यं तृतीयं द्वितीयं द्विजं च ददर्श दृष्ट्वानित्यन्वयः । तृतीयम् आत्ममुन्यपेक्षया । द्वितीयमात्मापेक्षयेत्यर्थः । विशोऽपत्यं जातिर्वैश्यः । गर्गादित्वाघञ् । ददर्शेति क्वचित्पाठः । स इति तु प्रकरणतो लभ्यते । 'तुहिचस्महवै पादपूरणे' । अशू व्याप्तौ । तालव्यान्तः । कर्मणि घञ् अभ्यश्यते व्याप्यते अभ्याशः । एकं केवलमेकाकिनम् । तेन सुरथेन स वैश्यः पृष्टः । किं पृष्ट इत्याह । भो अहो त्वं कः कोऽसि जातितः । किंच । अत्र मुन्याश्रमे तवागमने को हेतुः किं कारणमित्यन्वयः । अव्ययमेष भोशब्द इति भाष्यम् । अथवैतद्भवच्छब्दस्य संबुद्धौ रूपम् । 'क्त्वोल्यप्तल्लोपेषु......। सामान्योल्लेखतो ज्ञातमपि वस्तु विशेषतः । जिज्ञासमानो जिज्ञास्यं पृच्छत्येवान्यदीप्सितम् ।' राजा वैश्यं पुनः पृच्छति ॥ १६ ॥नागोजीभट्टी
तत्रेति । विप्रेति भागुरिसंबोधनं ⟨…⟩ धार्थकतयाऽश्रमविशेषणं वा । अभ्याशे निकटे । स वैश्यः । भोः इत्यामन्त्रणे । अत्र आश्रमे ॥ १६ ॥जगच्चन्द्रचन्द्रिका
तत्र विप्राश्रमेति १७ ॥ १६ ॥दंशोद्धारः
स पृष्ट इति ॥ १६ ॥मूलम्
गुप्तवती
॥ १७ ॥चतुर्धरी
इष्टवियोगानुचिन्तनं शोकः । दुः ःखनिबन्धनश्चित्तावसादो दौर्मनस्यम् । सशोक इव उपहतशरीरत्वात्। र्मना इव क्रियास्वस्थिरत्वात् । इतीदशमाकर्ण्य श्रुत्वा । प्रणयोदितं विश्रम्भेणोदीरितम् ॥ १७ ॥शान्तनवी
भोः अहो त्वं कस्माद्धेतोः सशोक इव लक्ष्यसे संदृश्यसे सखेद इव प्रतीयसे । कस्माच्च हेतोः त्वं दुर्मना इव लक्ष्यसे विमनस्क इव लक्ष्यसे वीक्ष्यसे इत्यन्वयः । 'मन्युशोकौ तु शुक् क्रियाम्' । 'मन्युर्दैन्ये क्रतौ क्रुधि'। शोकेन सहवर्तमानः सशोकः । 'दुर्मना विमना अन्तर्मनाः स्यात्' इति कोशः । दुष्ट मनो यस्य स दुर्मनाः । इवेति साम्ये । शारदाभ्रमिव पलनमासुरिति वत् । इतीत्थं प्रणयोदितं प्रणयेन प्रेम्णा उदितं कथितं तस्य भूपतेः सुरथस्य वचः आकर्ण्य श्रुत्वा ॥ १७ ॥नागोजीभट्टी
स ⟨…⟩ क इति । इष्टवियोगानुचिन्तनं शोकः । दुःखनिबन्धनश्चित्तावसादो दुर्मनादौर्मनस्यम्। सशोक इव उपहतशरीरत्वात् । दुर्मना इव क्रियास्वस्थैर्यात् । इत्याकर्ण्येति । श्लोकः स्पष्टार्थः । प्रणयो विश्रम्भः ॥ १७ ॥जगच्चन्द्रचन्द्रिका
सशोक इति १८ ॥ १७ ॥ मिलित्वा मन्त्रास्तु अष्टादश जाता इत्यर्थः ॥ १७ ॥दंशोद्धारः
शोकः स्वजनवियोगचिन्तनम् । दुःखकृतचित्तावसादो दौर्मनस्यम् ॥ १७ ॥मूलम्
गुप्तवती
॥ १८ ॥चतुर्धरी
प्रत्युवाच प्रतिवचनं दत्तवान् । प्रश्रयावनतो विनयान्नम्रः ॥ १८ ॥शान्तनवी
स वैश्यः तं नृपं सुरथमुद्दिश्य प्रश्रयावनतः प्रश्रयेण विनयेनावनतो नम्रः सन् प्रत्युवाचेत्यन्वयः सुरथकृतप्रश्नानां प्रत्युत्तरं वक्तुं वाक्यमग्रहीदिति भावः । ‘विश्रम्भयाञ्चाप्रेमाणः प्रणयेन समार्थकाः’ । धनिनां कुले उत्पन्नोऽहं समाधिर्नाम विख्यातः जातया वैश्योऽस्मीत्यन्वयः । अनेन कस्त्वं भो इति प्रश्नस्योत्तरमुक्तम् । ‘इभ्य आढ्यो धनी’ ‘कुलं गृहेऽपि वंशेऽपि' ॥ १८ ॥नागोजीभट्टी
प्रश्रयो विनयः । मार्कण्डेयेन सुरथं प्रति ऋष्युक्तावनुदितायां भागुरेः किं वैश्य उवाचेति जिज्ञासामालक्ष्य मार्कण्डेय आह । वैश्य उवाच । समाधिरिति ॥ १८ ॥जगच्चन्द्रचन्द्रिका
अर्धश्लोकात्मकतः एकोनविंशतिरेवं स्युरिति । ततो अष्टादशमन्त्रानन्तरम् अर्धश्लोकरूपो मन्त्रः । श्लोकपादद्वयात्मक इत्यर्थः । एवं प्रकारेण एकोनविंश एकेन ऊनो विंशो मिलित्वा नवाधिका दश मन्त्रा जाता इत्यर्थः । तथाहि प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपं स्वाहा १९ । वैश्योक्तिर्विंशतिस्तथेति । तथा तेनैव गणनाप्रकारेण वैश्योक्तिर्वैश्य उवाचेति कथनं विंशतिर्विंशतिसंख्याको मन्त्रः । वैश्य उवाच स्वाहा २० । पुनरर्धं इति । पुनः अर्धो अर्धात्मको मन्त्रः । श्लोकपादद्वयात्मको मन्त्र इत्यर्थः । तद्यथा । समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले स्वाहा २१ ॥ १८ ॥दंशोद्धारः
॥ १८ ॥ ध्यायः १ ] गुप्तवत्यादिसप्तटीका र्संवलिता । ५१ ध्यायः १ ] गुप्तवत्यादिसप्तटीका र्संवलिता । ५१ स्तश्च धनलोभादसाधुभिः । विहीनः स्वजनैर्दारैः पुत्रैरादाय मे धनम् ॥ १९ ॥ गुप्तवती ) ॥ १९ ॥ चतुर्धरी) पुत्रदारैरिति । पुत्रैश्च दारैश्च । चकारात्स्वजनैश्च निरस्तोऽधिक्षिप्तः । भर्त्सित इति यावत् । असाहेतुगर्भं विशेषणम् । विहीनश्चेति । न केवलमधिक्षिप्तः । किंतु धनमादाय निरस्तो निःसारितः । एवमहं धनैर्दारैः भिश्च विहीनो वनमभ्यागत इत्यन्वयः । केचित्तु धनैरिति पुत्रदारैरित्यस्य विशेषणम् । ते हि मम धनानि तैरेव हं विहीन इत्याहुः । आप्ताः सुहृदः । बान्धवो ज्ञातयः । पादानुवृत्तिर्नामालंकारोऽयम् ॥ १९ ॥ शान्तनवी) धनेषु लोभात् गार्ध्यात् असाधुभिः असज्जनैः पुत्रैश्च दारैश्च पुत्राणां दारैश्च निरस्तश्च निराकृतो। एतेन सशोक इव कस्मात्त्वम् इति प्रश्नस्योत्तरमुक्तम् । स्वजनैर्बान्धवैश्च विहीनः रहितोऽस्मि । इत्यपि सखोन्वयः । दारैः पुत्रैः आदायि मे धनं मर्दायैर्दारैः पुत्रैश्च मे धनम् आदाय गृहीतमित्यन्वयः । अनेन दुर्मना इव मादिति प्रश्नस्योत्तरमुक्तम् ॥ १९ ॥ नागोजीभट्टी) असाधुभिः पुत्रदारैर्धनलोभान्निरस्तः अधिक्षिप्तः । भर्त्सित इति यावत् । चादन्यैरपीत्यर्थः । । वारैः पुत्रैर्मे धनमादाय गृहीत्वा धनैर्विहीनश्च । अंशस्याप्यदानात्तद्रहितः कुतोहम् ॥ १९ ॥ । वारैः पुत्रैर्मे धनमादाय गृहीत्वा धनैर्विहीनश्च । अंशस्या प्यदानात्तद्रहितः कुतोहम् ॥ १९ ॥ । वारैः पुत्रैर्मे धनमादाय गृहीत्वा धनैर्विहीनश्च । अंशस्या प्यदानात्तद्रहितः कुतोहम् ॥ १९ ॥ जगच्चन्द्रचन्द्रिका) पुनः श्लोकत्रयमिति । पुनः श्लोकत्र जगच्चन्द्रचन्द्रिका) पुनः श्लोकत्रयमिति । पुनः श्लोकत्रयं यं श्लोकत्रयात्मकाः प्रत्येकं त्रयो मन्त्राः, इति । तथाहि जगच्चन्द्रचन्द्रिका) पुनः श्लोकत्रयमिति । पुनः श्लोकत्र श्लोकत्रयात्मकाः प्रत्येकं त्रयो मन्त्राः, इति । तथाहि २२ ॥ १९ ॥ यं श्लोकत्रयात्मकाः प्रत्येकं त्रयो मन्त्राः, इति । तथाहि दंशोद्धारः) विहीन इति मे धनमादाय निरस्त इत्यन्वयः । अतएव धनादिभिर्विहीनः । आदायीति वा यि गृहीतमित्यर्थः ॥ १९ ॥ गतो दुःखी निरस्तश्चाप्तबन्धुभिः । सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ २० ॥ गुप्तवती ) ॥ २० ॥ वा प्रवृत्ति वार्ताम् ॥ २० ॥ चतुर्धरी) स तथाविधोऽहं कुशलाकुशलात्मिकां शुभामशुभां शान्तनवी ) मदीयैरासीर्बन्धुभिः पुत्रमित्रकलत्रादिभिरप हृतधनो निरस्तस्त्वाहं दुःखी उद्विग्नमनाः सन् वनमभ्यायन्वयः । अनेन हेतुस्वागमनेऽत्र क इति प्रश्नस्योत्तरमुक्तम् । तथाविधः सोहं अत्र वने संस्थितः सन् पुत्राणां स्वजनानां च कुशलाकुशलात्मिकां कुशलरूपां अकुशलरूपां च द्विविधरूपाम् ॥ २० ॥ नागोजीभट्टी ) धनहीनत्वादेवासैः सुहृद्भिः बन्धुभिश्च निरस्तस्त्यक्तोऽहं वनमभ्यागत इत्यन्वयः । सो॥ २० ॥ ॥ ॥ २० ॥ जगच्चन्द्रचन्द्रिका ) वनमभ्यागत इति २३ ॥ २० दंशोद्धारः ) ॥ २० ॥ ॥ स्वजनानां च दाराणां चात्र संस्थितः । किं नु तेषां गृहे क्षेममक्षेमं किं नु सांप्रतम् ॥२१॥ गुप्तवती ) प्रवृत्ति वृत्तान्तम् ॥ २१ ॥ चतुर्धरी ) तामेव विविच्य दर्शयति । किंन्विति । किमिति संदेहे । न्विति विकल्पे । तेषां पुत्रदारस्वजनानां पत्यादौ क्षेमं कल्याणं अक्षेममकल्याणं सांप्रतमिदानीं कथं किंविधम् । वृत्तं शीलम् । सुता इत्युपलक्षणम् । दाराः यपि बोद्धव्यम् ॥ २१ ॥ शान्तनवी ) प्रवृत्तिं वार्तां न वेद्मि न जानामीत्यन्वयः । संगतोऽत्रत्यैः स्थितः संस्थितः । 'सं ⟨…⟩ स्वाधारे स्थितौ वा । दारशब्दः पुंस्येव भूम्न्येव कलत्रवाची । कुशलं चाकुशलं चात्मा स्वभावो यस्याः सा तथोक्ता । 'शेषाद्विभाषा' समासान्तः इत्वं च । किं नु इति छेदः । 'किंपृच्छायां जुगुप्सने' 'नु पृच्छायां विकल्पने च' । तत्र किमित्यनव्ययं एव सांप्रतम् । 'प्रज्ञादिभ्यश्च'इत्यण् । इह क्षेमत्वाश्रयो विकल्पः नुशब्देन सूच्यते । सांप्रतमिदानीं तेषां पुत्रादीन ये क्षेमं नु वर्तंते । अथवा सांप्रतमिदानीं तेषां पुत्रादीनां गृहे किं क्षेममक्षेममपि नु वर्तते इति तदुभयं न यः । क्षेमं वाऽक्षेमं वा न वेद्मीत्यर्थः । 'कुशलं क्षेममस्त्रियाम् ।' क्षिणोति हिनस्ति क्लेशान् क्षेमम् ॥ २१ ॥ 'आदायि' इति शान्तनवीस्थः पाठः । ५२ दुर्गासप्तशती । प्रथमोऽध्यायः ९नागोजीभट्टी
प्रवृत्तिर्वार्ता । ता एव विशृणोति । किं न्विति । किं नु इति द्वयं विकल्पे । तेषां पुत्रदारस्वजनानां गृहे दारापत्यादौ ॥ २१ ॥जगच्चन्द्रचन्द्रिका
प्रवृत्तिमिति २४ ॥ २१ ॥दंशोद्धारः
॥ २१ ॥मूलम्
गुप्तवती
॥ २२ ॥चतुर्धरी
यैर्निरस्त इति । धनहेतुभूतैः । किमिति प्रश्ने । भवतः मानसं मनः स्नेहमनुबध्नाति आसंजयति॥२३॥शान्तनवी
ते सुताः सांप्रतं किं सद्वृत्ताः नु । अथवा ते सुताः सांप्रतं किं दुर्वृत्ताः नु इति तदुभयं कथं ⟨…⟩ ज्ञेयं स्यादित्यन्वयः । ते सुताः सांप्रतं सद्वृत्ता वा दुर्वृत्ता वा कथं मया ज्ञेया इति भावः । सत् साधु वृत्तं चरितं येषां ते सद्वृत्ताः । अथवा सतामिव वृत्तं चरितं येषां ते सद्वृत्ताः । दुष्टमसाधु वृत्तं चरितं येषां ते दुर्वृत्ताः अथवा दुष्टानामसज्जनानामित्र वृत्तं चरितं येषां ते दुर्वृत्ताः । 'इति दुर्दैवतो वैश्याद्द्रुह्यत्पुत्रादिबन्धुतः। दुःखतः कथितं वाक्यमाकर्ण्य ⟨…⟩ पुनर्नृपः'। हे समाधे हं वैश्य भवान् धनैः कारणैः लुब्धैर्गृध्नुभिः । यैः पुत्रदारादिभिर्दुर्वृत्तैर्बन्धुभिर्निरस्तोऽभूत् तेषु भवतः मानसं कर्तुं। स्नेहं किमनुबध्नाति किमर्थं करोतीत्यन्वयः । तादृशेषु स्नेहनिबन्धनं जुगुप्सितं गर्हितं त्यजनीयं भवतीति भावः। यदाहुः 'भावतः स्निह्यति स्नेहे दुहे च द्रुह्यते पुनः । सौजन्यं सुजने कुर्याद्दौर्जन्यमपि दुर्जने' इति। भवाँल्लुब्धैरित्यत्र 'तोलि ⟨…⟩ ' इति नकारस्य परसवर्णोऽनुनासिको लकारः ॥ २१ ः ॥नागोजीभट्टी
कथं ते किंविधास्ते । वृत्तं व्यवहारः । सुता इत्युपलक्षणम्। राजोवाच। यैरिति। धनैरिति भर्त्सनरूपे निरासे हेतुः । किमिति प्रश्ने ॥ २२ ॥जगच्चन्द्रचन्द्रिका
अर्धं पुनर्भवेदिति । पुनर्भूयोपि अर्धोऽर्धश्लोकात्मको मन्त्रो भवेत्। एवंप्रकारेण पञ्चविंशति संख्या स्यादित्यर्थः । तथाहि । 'कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः स्वाहा २५'।'राजा षड्विंशतिस्ततः' इति।ततः पञ्चविंशतिमन्त्रानन्तरं राजा राजोवाचेति मन्त्रः । षडधिका विंशतिः पञ्चविंशतिः अधिकैक इत्यर्थः। तथाहि 'राजोवाच स्वाहा २६ ।' अर्धश्लोकात्मकं मन्त्रद्वयमिति श्लोकस्य यैर्निरस्त इत्यादेः पूर्वार्धापरार्धमन्त्रद्वयं द्वौ मन्त्रौ भवतः। तथाहि 'यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभ किं भवतः स्नेहमनुबध्नाति मानसं स्वाहा २८॥" २२ ॥दंशोद्धारः
॥ २२ ॥मूलम्
गुप्तवती
॥ २३ ॥ ॥चतुर्धरी
एवमिति अस्मद्गतमस्मद्विषयम् । मम मनो निष्ठुरतां पारुष्यं न बध्नाति न भजत इत्यन्वयः ॥२३॥शान्तनवी
वैश्य उवाच । यन्मद्गतमित्यपि क्वचित्पाठः सभ्यः । ममेत्येकवचनपाठौचित्यादस्मद्व्रतमिति पाठे राजाग्रे वैश्यस्य प्रश्रयावनतस्य सतः प्रागल्भ्यानौचित्यप्रसङ्गाच्च । हे नृप भवान् यन्मद्व्रतं वचः यथा प्राह प्रब्रवीति एतद्वचः एवमिदमित्थमेव । अथाप्यहं किं करोमि मम मनः । कर्तृ । निष्ठुरतां परुषतां न बध्नाति नाचरति नाश्रयति इत्यन्वयः । ‘इवेत्थमर्थयोरेवम्’ अस्मान् गतम् अस्मद्गतम्। अस्मत्पृथक् । मद्व्रतं मां गतं मद्व्रतं मत्पृथक् । अथवा अस्माभिर्गतं ज्ञातम् अस्मद्तम् । मया गतं ज्ञातम् अस्मद्गतम् । गत्यर्था धातवो ज्ञानार्थाः अपि भवन्ति ॥ २३ ॥नागोजीभट्टी
वैश्य उवाच । एवमिति । अस्मद्व्रतमस्मदीयविषयकम् ॥ २३ ॥जगच्चन्द्रचन्द्रिका
वैश्यः पुनर्भवेदिति । पुनः वैश्य उवाच इति मन्त्रो भवेत् तथाहि । 'वैश्य उवाच खाह् २९ ।' 'एकोनत्रिंशदेव तु मन्त्रसंख्या प्रकीर्तिता' इति । तु पुनः एवं गणनप्रकारेण एकेन ऊना त्रिंशत् एकोनत्रिंशत् । अष्टा. विंशात्मकाधिकैक इत्यर्थः । संख्यायते गण्यतेऽनया संख्या मन्त्राणां संख्या मन्त्रसंख्या । प्रकीर्तिता कथिता । पुनरर्धमिति । पुनरर्धश्लोकात्मको मन्त्रो भवेत् । तद्यथा । 'एवमेतद्यथा प्राह भवानस्मद्धृतं वचः स्वाहा ३० ।' पुनः श्लोकत्रयमिति । पुनः श्लोकात्मकाः प्रत्येकं मन्त्राः । तथाहि । किं करोमीति ३१ ॥ २३ ॥मूलम्
नागोजीभट्टी
तेषामिति । तन्निमित्तं यन्मे निः श्वासादिकं जायते अप्रीतिषु प्रीतिरहितेषु अपि तेषु यन्मे मनो निष्ठुरं न तर्हि करोमीत्यन्वयः ॥ २६ ॥जगच्चन्द्रचन्द्रिका
अर्धं पुनर्भवेदिति । अर्धं अर्धश्लोकात्मको मन्त्रो भवेत् । तथाहि—‘करोमि किं यत्र मनस्तेष्वप्रीतिषु निष्ठुरं स्वाहा ३४' ॥ २६ ॥दंशोद्धारः
॥ २६ ॥मूलम्
गुप्तवती
॥ २७ ⟨…⟩ पार्थिवेषु राजसु सत्तमः साधुतमः ॥२७॥चतुर्धरी
तत इत्यादि । हे विप्र तं मेधसं समुपस्थितौ उपसन्नौ । पार्थिवेषु राजसु सत्तमः साधुतमः ॥ २७॥शान्तनवी
हे विप्र हे शिष्य समाधिर्नाम असौ वैश्यश्च पार्थिवसत्तमः स सुरथश्च तौ द्वौ सहितौ मिलितौ हित· संयुक्तौ वा संतौ तं प्रसिद्धं सुमेधसं नाम मुनिं समुपस्थितौ सम्यक् उपजग्मतुरित्यन्वयः । तिष्ठतिरुपपूर्वो गत्यर्थोऽपि । पार्थिवेषु सन् अतिशयेन पार्थिवसत्तमः ॥ २७ ॥नागोजीभट्टी
मार्कण्डेय उवाच । तत इति । सहितौ मित्रत्वेन संगतौ समुपस्थितौ समुपसन्नौ ॥ २७ ॥जगच्चन्द्रचन्द्रिका
मार्कण्डेय इति । तथाहि—'मार्कण्डेय उवाच स्वाहा ३५' इत्येको मन्त्रः । पुनश्चार्द्धश्लोक इति पुनरर्धश्लोकात्मको मन्त्रश्च भवेत् । तथाहि—'ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ स्वाहा ३६' । श्लोकात्मकः पुनरिति । पुनः श्लोकात्मकः श्लोकरूपो मन्त्रो भवेत् । तद्यथा । समाधिर्नामेति ३७ ॥ २७ ॥दंशोद्धारः
॥ २७ ॥मूलम्
गुप्तवती
॥ २८ ॥चतुर्धरी
कृत्वेति । यथान्यायं यथागमं यथार्हं यथाचारं तेन मुनिना सह संविदं संभाषां 'संविदि ⟨…⟩ यां प्रति· षायामाकारे ज्ञानसंकरे । संभाषायां क्रियाकाले संकेते नाम्नि भाषणे' इत्यभिधानात् ॥ २८ ॥शान्तनवी
अल्पाच्तरत्वाद्वैश्यस्य पूर्वनिपातः । अभ्यर्हितस्तु पार्थिवः क्षत्रियत्वात् । यथान्यायं तु शब्दद्वयोक्त विधिमनतिकम्यैव यथार्हम् अर्हं पूज्यं वृद्धम् अनतिकम्यैव यथाश्रमं तस्मै 'सुमेधसे मुनये संविदं संभाषणाचारं कृत्वा तेनापि पूजितौ तदनुमत्या उपविष्टौ संतौ तौ वैश्यपार्थिवौ काश्चित्स्वार्थपराः उचिताः कथाः उक्तीः चक्रतुः विदधतुरित्यन्वयः । 'तु स्याद् ⟨…⟩ देऽवधारणे' । 'स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु' । 'प्रतिज्ञातोषणाचारेष्वपि संवित्प्रयुज्यते' ॥ २८ ॥नागोजीभट्टी
कृत्वेति । यथान्यायं यथाशास्त्रं यथार्हं यथायोग्यं संविदं संभाषाम् उपविष्टौ । अन्तर्भावितण्यर्थत्वेन । उपवेशितावित्यर्थः । तेनेति कर्तरि तृतीया । काश्चित्स्वपरविषयाः ॥ २८ ॥जगच्चन्द्रचन्द्रिका
अर्धश्लोकात्मको मन्त्र इति । अर्धश्लोकरूपो मन्त्रः । तथथा 'उपविष्टौ कथाः काश्चिच्चकतुर्वैश्यपार्थिवौ स्वाहा ३८' ॥ २८ ॥ ⟨…⟩ योग्यं संविदं भाषणम् । काश्चित्स्वपरवि-दंशोद्धारः
कृत्वेति । यथान्यायं यथाशास्त्रं यथार्हं यथामहत्सु योग्यं संविदं भाषणम् । काश्चित्स्वपरविषयाः ॥ २८ ॥राजोवाच ।
मूलम्
गुप्तवती
दुःखायेति । स्वचित्तजयाभावसहकारिकं मनसि दुःखापादकं वस्तु किमित्यर्थः ॥ २९ ॥चतुर्धरी
भगवन्निति । एकं वस्तु यन्मनसः स्वचित्ते हृदि आयत्ततां निरोधं विना मे मम मनसो दुःखाय दुःख कारणं तद्वदस्वेत्यर्थः । वदस्वेति ‘सर्वे विधयः छन्दसि विकल्पन्ते' । इत्यात्मनेपदम् । पुराणमपि ऋषिप्रणीतत्वाच्छान्दसमेव । मोऽध्यायः ] गुप्तवत्यादिसप्तटीकासंवलिता । ९५ म वदन्ति । अत्रार्थे आत्मनेपदम् । मनोजयो हि न किमपि नरं दुःखाकरोति संकल्पविकल्पात्मकं चित्तम् । 'अ निघ्न आयत्तः' इत्यमरः ॥ २९ ॥शान्तनवी
हे भगवन् हे सर्वैश्वर्यसंपन्न हे मुने त्वाम् अहम् एकं रहस्यं प्रष्टुमिच्छामि तद् वदस्व रहसि उपदिश । पसंभाषा॰'सूत्रेणोपमन्त्रणं रहस्युच्छन्दने आत्मनेपदम्। कं रहस्यं प्रष्टुमिच्छामि तद् वदस्व रहसि उपदिश । पसंभाषा॰'सूत्रेणोपमन्त्रणं रहस्युच्छन्दने आत्मनेपदम्। यद्यस्मात्कारणात्स्वचित्तायत्तां विनावस्थानं मे मनसः दुःखाय पसंभाषा॰'सूत्रेणोपमन्त्रणं रहस्युच्छन्दने आत्मनेपदम्।यद्यस्मात्कार न्वयः । यदहम् एकं रहस्यं त्वां प्रष्टुमिच्छामि तन्मयावश्यमाकर्णनीयम् । अन्यथा तदाकर्णनाभावे स्वचित्तायत्तत्वं न तदभावस्तु मे मनसः दुःखाय स्यात् संशयापन्नत्वात् । तस्मात्तद्रहस्यं मया श्रोतव्यमेवेति भावः । 'ऐश्वर्यस्य समग्रस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीरणा' ॥ २९ ॥ ४ नागोजीभट्टी) राजोवाच । भगवन्निति । वदस्वेति यत्नार्थ आत्मनेपदम् । यत्नेन वदेत्यर्थः । एकं रहस्यं वदत्र । मे मनसः संकल्पात्मकस्यान्तःकरणस्य स्वचित्ते निश्चयात्मके स्वस्वरूपं आयत्ततां निरोधं विना दुःखाय यदित्यन्वयः । कल्पात्मकमेवमन्तःकरणं न निश्चयात्मकमतो न मे तन्निर्णयेऽधिकार इति भावः ॥ २९ ॥ ५ जगच्चन्द्रचन्द्रिका) राजेति । ‘राजोवाच स्वाहृत्ययं मन्त्रः ३९' । अर्धश्लोकमन्त्रक इति अर्धश्लोकरूपो मन्त्रः । ‘भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् स्वाहा ४०’ । मन्त्राश्चत्वारिंशदेवमिति । एवं प्रकारेण चत्वारिंशत् विंशतिः स्युः । श्लोकमन्त्रचतुष्टयमिति श्लोकरूपा ये मन्त्रास्तेषां चतुष्टयम् । श्लोकरूपाः प्रत्येकं चत्वारो मन्त्रा इत्यर्थः । स्वाहायेति ४१ ॥ २९ ॥ ६ दंशोद्धारः) भगवन्निति । वदस्वेति यत्ने । ‘भासनोपसंभाषा’ इत्यात्मनेपदम् । यत्नेन वदेत्यर्थः ॥ २९ ॥ गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥ ३० ॥ २ गुप्तवती ) राज्याङ्गेषु स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलेषु सप्तसु ॥ ३० ॥ ३ चतुर्धरी )ममत्वमिति । राज्यस्येति । सुपां सुपू इति सप्तम्यर्थं पत्री । मम राज्यादौ यन्ममत्वंम ⟨…⟩ तात्मक निबन्ध। अन्यदाह । राज्यस्य राज्यक्रियाया इति राज्याङ्गेषु स्वाम्यादिषु । 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । प्रकृतयः पौराणां श्रेणयोऽपि च' इति नामलिङ्गानुशासनात् । अखिलेषु समस्तेषु ॥ ३० ॥ शान्तनवी ) मुनिरतिशयेन सन् विपश्चित् मुनिसत्तमः । हं मुनिसत्तम । जानतोऽपि उत्पन्नज्ञानस्यापि शत्रुहस्तगतसाम्राज्यस्य मे अखिलेष्वपि राज्याङ्गेषु यथाज्ञस्य जडस्यैव ममत्वम् ममता वर्तते किमेतन् इत्यन्वयः । स्य पुंसः राज्याङ्गेषु किं ममत्वेन कृतं स्यादिति भावः । 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च' इति सम रा। 'ववायथातथैव ⟨…⟩ म् '॥ ३० ॥ नागोजीभट्टी ) दुःखहेतुत्वमाह । ममत्वमिति । राज्यहृदेति सप्तम्यर्थस्य शेषत्वविवक्षया षष्ठी । राज्ये ष्वमदीयत्वं जानतोऽपि मम यथा अज्ञस्य अज्ञस्यैव राज्यादिषु ममत्वं एतत्किम् । किंनिबन्धनमित्यर्थः । 'स्वात्कोशराष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च' एषु स्वाम्यं प्रधानम् ॥ ३० ॥ जगच्चन्द्रचन्द्रिका ) जानतोऽपि४२ ॥ ३० ॥ जगच्चन्द्रचन्द्रिका ) जानतोऽपि४२ ॥ ३० ॥ वंशोद्धारः ) ॥ ३० ॥ वंशोद्धारः ) ॥ ३० ॥ ⟨…⟩ शाद्वारः ) ॥ ३० ॥ निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः । स्वजनेन च संत्यक्तस्तेषु हार्दीं तथाप्यति ॥ ३१ ॥ शुभवती ) निकृतः वञ्चितः । अतिहार्दो अतिशयस्नेहवान् ॥ ३१ ॥ चतुर्धरी ) अयमिति । अयं वैश्यः निकृतो दुःखीकृतः उज्झितस्त्यक्तः । तथेति समुच्चये । अति अतिशयेन न् ॥ ॥ ३१ ॥ शान्तनवी ) अयं वैश्यश्च यद्यपि पुत्रैः निकृतः विप्रकृतः खिलीकृतः । तथा दारैः कलत्रैः भृत्यैरमात्यैश्च उज्झि। स्वजनैर्भ्रात्रादिभिर्बन्धुभिरपि संत्यक्तः तथापि तेषु पुत्रादिषु ममत्वेन अतिहार्दीं अतिस्नेहोपेतो वर्तत इत्य ⟨…⟩ ेष्वेषु पुत्रादिषु ममत्वेनातिस्नेहवानिति भावः 'निकृतः स्याद्विप्रकृतः' निःक्रियते खिलीक्रियतेऽस्मै निकृतः । ⟨…⟩ तस्त्वनृजुः शठः' निकृणोति हिनस्ति निकृतः हिंसकोऽयमनृजुः शठ इत्युज्झत इत्यर्थः । 'कुघतिर्निकृतिः ⟨…⟩ क्त इत्यप्रस्तुतार्थकत्वादपपाठः । तथाहि निष्कृतिः प्रायश्चित्तिः । यदाहुः 'कामतो ब्राह्मणवधे जीवतो नास्ति ⟨…⟩ कृतः' 'निःकृतः' इति पाठौ शान्तनवीटीकायां संगृहीतौ ⟨…⟩ कृतः' 'निःकृतः' इति पाठौ शान्तनवीटीकायां संगृहीतौ ⟨…⟩ च । ⟨…⟩ श्चित्तिर्नास्तीत्यर्थः । 'प्रायश्चित्तिस्तु निष्कृतिः' । अथवा निरर्थकः अतो निःकृतः । अथवा निष्कान्तः निष्कृतिः' इति । प्रायश्चित्तिर्नास्तीत्यर्थः । 'प्रायश्चित्तिस्तु निष्कृतिः' । अथवा निरर्थकः अतो निःकृतः । अथवा निष्कान्तः कृतात् करणात् राज्याद्वा निःकृतः ॥ ३१ ॥ ⟨…⟩ च निकृतः इति । निकृतः तिरस्कृतः । उज्झितः त्यक्तः ।नागोजीभट्टी
नाहमेव तथा अयमपीत्याह । अयं च निकृतः इति । निकृतः तिरस्कृतः । उज्झितः त्यक्तः ।नागोजीभट्टी
नाहमेव तथा अयमपीत्याह । अयं नीत्युपसर्गपूर्वात्कृञः क्तः । तथेति समुच्चये ॥ ३१ ॥ च निकृतः इति । निकृतः तिरस्कृतः । उज्झितः त्यक्तः ।जगच्चन्द्रचन्द्रिका
स्वजनेन चेति । दृष्टदोषेऽपीति ४३ ॥ ३१ ॥दंशोद्धारः
अयं चेति । अतिशयेन हार्दीं स्नेहवान् ॥ ३१ ॥मूलम्
गुप्तवती
॥ ३२ ॥ ⟨…⟩ ॥ ३२ ॥चतुर्धरी
एवमिति । विषये (वस्तुनि) पुत्रदारादौ ॥ ३२ ॥ एवंभूतस्यैवैता ⟨…⟩ दृशी मूढता भवति । नतु विवेकिनः तत्कथमावयो ⟨…⟩ योर्नृपवंश्ययोर्मोहो भवतीति यत् तदेतत् किमित्यन्वयः । ⟨…⟩ र्प्यावयोर्नृपवंश्ययोर्मोहो भवतीति यत् तदेतत् किमित्यन्वयः । कयोर्ज्ञानिनोः को नु मोह इत्यत आह । हे मुने मूढस्य विवेकान्धस्य मम च अस्य च सुरथसमाधिसंज्ञयोर्नृपवंश्ययोः एषा मूढता 'अचक्षुषि तमस्यन्धं जले तिमिरकृत्यपि' ॥ ३३ ॥ दोषवत्त्वज्ञानवतोरपि । ममास्य चेति सर्वान्वयि । उभयनिष्ठमाहास्यायु अविवेकत्वतः भवति ननु दो ⟨…⟩ ज्ञानिरूपा ⟨…⟩ अर्धम् अर्धश्लोकात्मको मन्त्रः । तथाहि 'ममास्य च भवत्येषा विवेका ⟨…⟩ र्धम् अर्धश्लोकात्मको मन्त्रः । तथाहि 'ममास्य च भवत्येषा विवेका भागं महद्भागमस्य तत्संबुद्धिः । विवेकेऽप्यन्धस्य ममास्य च । यथा त्वस्य गूढता स्वाहा ४५ ॥ ३२ ॥ ं भागं महद्धागमस्य तत्संबुद्धिः। विवेकेऽप्यन्धस्य ममास्य च । यद्वा विवेकान्धस्य जनस्य या मूढता सा ज्ञानिनः स्यावयोः कथमिति प्रश्नः ॥ २३ ॥ ⟨…⟩ ऋ ⟨…⟩ षिरुवाच । ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे । विषयश्च महाभाग याति चैवं पृथक्पृथक् ॥ २४ ॥गुप्तवती
तत्र ज्ञानमात्रमूढत्वाभावव्याप्यं ज्ञानविशेषो वा नाद्य इत्याह । ज्ञानमस्तीति । विषयगोचर इति पदगुप्तवती
तत्र ज्ञानमात्रमूढत्वाभावव्याप्यं ज्ञ ज्ञानविशेषो वा नाद्य इत्याह । ज्ञानमस्त ⟨…⟩ १ ‘त ⟨…⟩ ’ इति चतुर्धरीटीकास्थः पाठः । २ ‘विषयाश्च’ इति ख. पाठः । ३ ‘जातिश्चैव’ इति ⟨…⟩ कस्य पाठः । म्दाश्चैक एवार्थः । तथापि शब्दस्पर्शादिरूपो विशेषस्ततःसामान्यं तन्निष्ठो विषयतासंवन्धश्चेति त्रयपरत्वान्न पौनरुानं शब्दादिविषयसबन्धी भवत्येवेत्यर्थः । विषयश्च याति ज्ञानेन संवन्धी भवत्येव ॥ ३४ ॥मूलम्
नागोजीभट्टी
तदेवाह । दिवान्धा इति । केषांचिदुलूकादीनां दिवा ज्ञानाभावः । केषांचित्काकादीनां रात्रौ । केषांचित्किंचुलुकादीनां(उलूकादीनां) सर्वदा तथातथा तुल्यदृश्यः । अन्धा अनन्धा इत्यर्थः । एवं च ज्ञानमात्रस्य मोहवैयधिकरणं दिनादौ उलूकादीनां मोहो न स्यादिति भावः । किंच राक्षसादीनां दिवा रात्रौ च विषयज्ञानवतां न कदाचिदपि मोहः स्यात् । किंचुलुका(उलूका)दीनां सर्वदैव मोहप्रसङ्ग इति । तेषामपि किंचिद्विषये मोहदर्शनात् । एवं च न ज्ञानमात्रस्य मोहवैयधिकरण्यम् । नापि ज्ञानाभावस्य मोहसामानाधिकरण्यमित्युक्तं भवति । अत्र तथेति रात्रिसमुच्चये ॥ ३५ ॥जगच्चन्द्रचन्द्रिका
केचिद्दिवेति ४९ ॥ २५ ॥दंशोद्धारः
उक्तं स्फुटयति । दिवान्धा इति । केचित्प्राणिन उलूकादयः । दिवान्धाः । अर्थाद्रात्रावनन्धाः । केचिच्च काकादयो रात्रावन्धाः । दिवा पश्यन्तीत्यर्थः । केचित्तु छुच्छुन्दर्यादयो रात्रौ दिवा चान्धा इत्याहुस्तत्र 'छुच्छुन्दरी गन्धमुखी दीर्घतुण्डी दिवान्धिका'इत्यमरेण दिवान्धत्वोक्तेस्तथैवोपलभ्यमानत्वाच्च । केचिद्वानरमार्जारादयो दिवा रात्रौ च तुल्यदृष्टयोऽनन्धा एव । दिवारात्राविति पदं देहलींदीपन्यायेनोभयत्र संबध्यते । अयं भावः । ज्ञानमात्रस्य मोहवैयधिकरण्यं दुरुपपाद्यम् । तथा सत्युलूकादीनां रात्रौ शामसत्त्वेन काकादीनां च दिवा ज्ञानसत्त्वेन निर्मोहत्वापत्तेः । अतो न ज्ञानमात्रेण मोहनिवृत्तिः ॥ ३५ ॥मूलम्
गुप्तवती
मनुष्यज्ञानं मूढत्वाभावव्याप्यमिति चेत्तत्राह ज्ञानिन इति । ते केवलं ज्ञानिनो नहि । अज्ञानसमानाधिकरणज्ञानवन्त एवेत्यर्थः । ज्ञानस्याव्याप्यवृत्तित्वेन स्वभावसामानाधिकरण्याभावस्यैवासिद्धेरिति तार्किकाः । वस्तुतस्तु 'तद्विमुक्तस्तु केवली' इति शिवसूत्रे योगिविशेषनिष्ठज्ञानविशेषस्य केवलमिति संज्ञया व्यवहारात्तस्य जानातिक्रियाविशेषणत्वात्तस्यैव च मूढत्वाभावव्याप्यत्वात्तादृशा ज्ञानिनो भवादृशाः सर्वेऽपि न भवन्तीत्यर्थः । पशवो गवादयः । मृगा हरिणादयः ॥ ३६ ॥चतुर्धरी
अथ नास्माभिः सर्वसत्त्वानां ज्ञानित्वमभिप्रेतं किंतु मनुष्याणामेवेत्याह । ज्ञानिन इति । ननु भवन्मते मनुष्यमात्रस्य ज्ञानित्वं मनुष्यविशेषस्य वा । तत्राद्यं खण्डयितुमुपक्रमते । ज्ञानिन इति । ते मतं सत्यं केवलं च । मनुजा ज्ञानिन एव नहि किंत्वज्ञानिनोऽपीत्यर्थः । एवंचाज्ञानसंवलितज्ञानेनापि ज्ञानित्ववैपरीत्यमेव न स्यात् । सर्वसत्त्वानां चाज्ञानित्वं सदवस्थमित्याह । यत इति । हिशब्दोऽवधारणे भिन्नक्रमः । यतः पश्वादयोपि ज्ञानिन एवेत्यन्वयः । तेष्वप्यज्ञानसंवलितस्य ज्ञानस्य संभवात् । पशवो ग्राम्या गवाद्याः । मृगा आरण्याः हरिणादयः । अथवा ते मनुजाः केवलं ज्ञानिनो नहि किं त्वन्ये ज्ञानिनः सन्तीत्याह । यत इति । पश्वादीनामपि विषयज्ञानसंभवात् । गौरविरजोऽश्वोऽश्वतरो गर्दभो मनुष्यश्चेति सप्त ग्राम्याः पशवः । महिषवानरराक्षससरीसृपहंसपृषतमृगाश्चेति सप्तारण्याः पशवः ॥ ३६ ॥शान्तनवी
मनुजाः ज्ञानिनः सन्ति सत्यम् । किंनु ते एव केवलं ज्ञानिनः नहि, यतो मनुजेभ्योऽन्येऽपि सर्वे पशुपक्षिमृगादयः ज्ञानिनः सन्त्येव हीत्यन्वयः । सर्वेऽपि मनुजादयः यथाविषयं यथोचितज्ञाना एवेति भावः । मनुजा मानवाः सन्ति साधु सत्यम् । 'नु स्याद् भेदेऽवधारणे' 'हि हेताववधारणे' 'अभावे नह्यनोनापि' । केवलं नियतमपरं क्रियाविशेषणम् । इदानीं ज्ञानित्वाविशेषात्प्राणिनां प्रतिनियतज्ञाननिबन्धनव्यवहारसिद्धिः कथं स्यादित्याशङ्क्य तानुपपादयितुमाह ॥ ३६ ॥नागोजीभट्टी
ननु मनुष्या एव ज्ञानित्वेनाभिमता इति चेत्तत्राह । ज्ञानिन इति । मनुजा ज्ञानिन इति ते मतं सत्यम् । पृच्छति । ते केवलं ज्ञानिनः ज्ञानिन एव किंनु स्वयमेव वितर्क्योत्तरयति । नहि । किंत्वज्ञानसंवलितज्ञानिन इत्यर्थः । एवम् अज्ञानिन ज्ञानित्वाभिमानस्त्वयुक्तः । यतः सर्वे पश्वादयोऽपि एवं सति ज्ञानिन एव स्युः । हिरिवार्थे भिषक्म ⟨…⟩ । पशुत्वेनैव सिद्धे मृगग्रहणं तद्विशेषप्रतिपत्त्यर्थमित्यर्थः ॥ ३६ ॥जगच्चन्द्रचन्द्रिका
यतो हि ज्ञानिन इति ५० ॥ ३६ ॥दंशोद्धारः
मनु प्राणिमात्रस्य ज्ञानित्वं नास्माकमभिप्रेतं किंतु मनुष्याणामेवेति चेत्तत्र किं मनुष्या ज्ञानवन्त एवेति निर्धार्यते उत मनुष्या एव ज्ञानिन इति विकल्प्य पक्षद्वयं दूषयति । ज्ञानिन इति । सत्यं मनुजा ज्ञानिनः किंतु केवलं ज्ञानिनो नहि । अज्ञानमिश्रत्वात् । एवंच मनुष्या ज्ञानिन एवेति निरस्तम् । एतेन पश्वादीनां ज्ञानित्वमेवेत्यपि न नियन्तुं ‘शकथ्यत इति सूचितम् । किंच यत इति । पश्वादयोपि ज्ञानिन इति । मनुष्या एव ज्ञानिन इत्यपि निरस्तम् । पशवो ग्राम्याः । मृगा आरण्याः । यद्वा मनुजा एव केवलं ज्ञानिनो नहि किं तु पश्वादयोपीत्यर्थः । तेषामपि विषयज्ञानस्य सत्त्वात् । सर्वा मनुजाः प्रथमोऽध्यायः १ ] । ५९ निनः शास्त्रीयज्ञानवन्तः सत्यम् । परंतु केवलं विज्ञानरहितेन तेन किम् । विज्ञानमनुभवः तदुक्तं मोक्षधर्मे 'विज्ञानरहितं नं नहि बन्धविमोचकम् । नहि दीपस्य वार्ताभिस्तमो नश्यति तत्क्षणात्' ॥ ३६ ॥मूलम्
गुप्तवती
उभयोर्मनुष्यतिरश्चोरन्यदपि आहारनिद्राभयमैथुनादिकमपि तुल्यमेव ॥ ३७ ॥चतुर्धरी
ननु ज्ञानविशेषस्तु मनुष्यमात्रे वसतीत्याह । ज्ञानं चेति । यदीदृशं मृगपक्षिणां ज्ञानं तत्तादृशमेव तेषां शां तद्विभानां मनुष्याणामपि । मनुष्याणां पशुमनुष्ययोस्तुल्यं साधारणम् । तत् तदेव तेषां मृगपक्षिणामपीत्यन्वयः । यदाहारादिकमप्युभयोः पश्वादिमनुष्ययोस्तुल्यं साधारणमित्यर्थः । 'आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् । नराणामधिकं विशेषो ज्ञानेन हीनाः पशुभिः समानाः' ॥ ३७ ॥शान्तनवी
तेषां मृगपक्षिणां यत् ज्ञानं स्वभावजं स्वस्वजातिनियतं तत् मनुष्याणां मानुषत्वजातिनियतानां तेषां मनुष्याणां च यत् ज्ञानं स्वभावजं शास्त्रजमव्याहतज्ञानं च तत् मृगपक्षिणां न । तुल्यमन्यत्तथोभयोः । तथा तेन रेण प्रतिनियतं तत्तत्स्वजातिप्रयुक्तोपयुक्तविषयज्ञानादन्यत् यज्ज्ञानं शरीरमात्रोपयोगि तत् उभयोर्मृगादिमनुष्ययोरनिद्राविषयं तुल्यं समानमित्यन्वयः । उभयेषामपि तेषां मृगादिमनुष्याणां व्यवस्थिततत्तज्जातिविषयनिबन्धनव्यवहारक्यसंसिद्धेरसांकर्यमिति भावः । प्रागुक्तं राज्ञा यन्मोहो ज्ञानिनोरपि तत्किमेतदिति तत्र किमार्थर्यमित्याह सदृष्टान्तम्॥ ३७॥नागोजीभट्टी
तमेवार्थं मनुष्याणां पश्वादिभिस्तुल्यत्वप्रतिपादनेन दृढयति । ज्ञानं चेति । यत् यादृशम् । तत् शं मनुष्याणां च यत्तेषां मृगादीनामित्यर्थः । अन्यदाहारभयमैथुननिद्रारूपमिति उभयोस्तुल्यं साधारणमित्यर्थः ॥ ३७ ॥जगच्चन्द्रचन्द्रिका
मनुष्याणामिति ५१ ॥ ३७ ॥दंशोद्धारः
ननु सर्वेषां ज्ञानवत्त्वेपि मनुष्याणां विशेषो ऽस्तीत्यत आह । ज्ञानं चेति । यन्मृगपक्षिणां वैषज्ञानं तदेव मनुष्याणाम् । चकारोऽवधारणार्थः । यद्यादृशं मनुष्याणां तेषां मृगपक्षिणामपि तत्तादृशमेव । तथान्यदाहाकम् उभयोः पशुमनुष्ययोस्तुल्यं साधारणम् । नतदिति पाठे यन्मृगपक्षिणां ज्ञानं स्वभावजं स्वस्वजातिनियतं तन्मनुष्याणां यन्मनुष्याणां शास्त्रीयं तन्मृगपक्षिणां न । शेषं यथोक्तमेव ॥ ३७ ॥मूलम्
गुप्तवती
॥ ३८ ॥चतुर्धरी
मनुष्यमात्रस्य पश्वादिसाधारण्येऽर्थक्रियासाम्यमस्तीत्याह । ज्ञानेपीति । एतान् ब्रह्माण्डोदरचरान् न् पक्षिणः शावचञ्चुषु अपत्यत्रोटिषु कणमोक्षादृतान् आहारांशे निक्षेपयत्नान् । मोहान्ममत्वलक्षणाद्धेतोः क्षुधा या पीड्यमानानपि पश्य । वैषयिकज्ञानमोक्षयोः सामानाधिकरण्यं साक्षात्कुर्वित्यर्थः । 'खगे विहंगविहगविहंगमविः । शकुन्तपक्षिशुकनिशकुन्तशाकुनद्विजाः । पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः । 'पोतः पाकोऽर्भको ः पृथुकः शावकः शिशुः' इत्यमरः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः ॥ ३८ ॥शान्तनवी
हे राजन् ज्ञाने सत्यपि मोहात् ममत्वात् शावचञ्चुषु शिशुत्रोटिषु कणमोक्षादतान् आहृतकणमोक्षान् बुभुक्षया पीड्यमानानपि एतान् पतङ्गान् विहङ्गान् पश्येत्यन्वयः । ज्ञाने सत्यपीति । एते शावचञ्चुषु निक्षेप्तव्यकणास्ते भिरेव भक्षयेरन् तर्हि नूनं वयं क्षुधां न पीड्यामहे इति स्वार्थं जानन्तोपि ( स्वयं क्षुधा पीड्यमाना अपि ) मोहात् ममवात्सल्याद्वा शावचञ्चुष्वेव कणान् निक्षिपन्ति पक्षिण इति भावः । 'पतेरङ्गच् पक्षिणि' 'चञ्चुत्रोटिरुभेस्त्रियौ' । आहृताः क्षाः यैस्ते कणमोक्षादृताः । वाहिताग्न्यादिषु परनिपातः । कणमोक्षादृतानित्यपि क्वचित्पाठः ॥ ३८ ॥नागोजीभट्टी
अर्थक्रियासाम्यमपि तयोरस्तीत्याह । ज्ञानेपीति । तद्भोजनेन नास्माकं तृप्तिरिति ज्ञाने सत्यपि । इति निरनुस्वारम् ॥ ३८ ॥जगच्चन्द्रचन्द्रिका
कणमोक्षेति ५२ ॥ १८ ॥दंशोद्धारः
तदेव स्पष्टयति । ज्ञाने सत्यपि क्षुधा पीड्यमानानप्येतान्पतङ्गान्पक्षिणः मोहाद्धेतोः शावचञ्चुषु कृणक्ष्यनिक्षेपे आहृतान्पश्य । पशुज्ञानस्य मोक्षसामानाधिकरण्यं दर्शितम् ॥ ३८ ॥मूलम्
गुप्तवती
॥ ३९ ॥चतुर्धरी
मनुष्याणामपि इयमेव रीतिरित्याह । मानुषा इति । भो मनुजव्याघ्र मनुजश्रेष्ठ । व्याघ्रशब्दः श्रेष्ठा ‘नन्वेते किं न’ इति पाठः । वचनः । एते मनुष्याः सुतान्प्रति साभिलाषाः साकाङ्क्षा इति किं न पश्यसीति साध्याऽहारोऽन्वयः । प्रत्युपकाराय पोषणात्युपकारार्थं लोभस्तस्मान्ननु । एतेन ज्ञानविशेष एव मोहविरोधी । स च मनुष्यविशेषनिष्ठ एवेति भवतोर्मोह उत्पद्यत एवेति भावः ॥ ३९ ॥शान्तनवी
हे मनुजव्याघ्र राजन् मानुषाः लोभात्प्रत्युपकाराय प्रत्युपकृतिलोभाद्धेतोः सुतान् प्रति सुतेषु विष ⟨…⟩ येषु कालान्तरे प्रत्युपकारमेतेऽस्मदर्थं करिष्यन्तीति साभिलाषाः सकामाः भवन्ति इति पादत्रयान्वयः । तत्र निदर्शनमाह । नन्वेतान् किं न पश्यसि । ननु भो राजन् त्वम् एतान् लोके प्रसिद्धान् पक्षिमृगादीन् ममत्वात्सुतान् प्रति साभिलाषान् सादरान किं न पश्यसि इति चतुर्थपादान्वयः । अहो राजन् एते पशुपक्षिमृगाद्योपि किल प्रत्युपकारनिरपेक्षा अपि केवलं ममत्वादेव सुतान् प्रति साभिलाषाः सादरा दृश्यन्ते किमुत मानुषां ममत्वाकृष्टमानसाः प्रत्युपकारगृध्नवः सुतान् प्रति साभिलाषाः स्युः । अतितरामेवेति भावः मनुजोऽयं व्याघ्र इव शूरः श्रेष्ठः मनुजव्याघ्रः । ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ इति समासः । 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः’ । ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ सुतान्प्रति इति प्रतियोगे द्वितीया सप्तम्यर्थे । अत्रापि उपकृतपुत्रकर्तव्यप्रत्युपकारलोभात् पितरो मनुष्याः पुत्रवात्सल्यं कु ⟨…⟩ मत्वाच्च विशेषत इत्यलं विस्तरेण ॥ ३९ ॥नागोजीभट्टी
स्वशरीरापेक्षया वहिरङ्गेष्वपि अतिप्रीतिरिति तेषु मोहज्ञानयोः सामानाधिकरण्यमुपपाद्य मनुष्येष्वप्याह । मानुषा इति । व्याघ्रशब्दः श्रेष्ठवाची । मानुषाः लोभात्प्रत्युपकारलोभात् सुतान्प्रति साभिलाषाः एते सुताश्च तु निश्चयेन प्रत्युपकाराय न भवन्ति । इदं किं न पश्यसीत्यर्थः । एवं पूर्वंपूर्वंव्यवहारं पश्यन्तोपि अग्रे अग्रे पुनः सुता ⟨…⟩ भिलाषा इति मोहज्ञानयोः सामानाधिकरण्यं तेष्वपीति भावः ॥ ३९ ॥जगच्चन्द्रचन्द्रिका
लोभात्प्रत्युपकारायेति ५३ ॥ ३९ ॥दंशोद्धारः
एवं मनुष्याणामपीत्याह । मानुषा इति । लोभात्सुतान्प्रति सुतविषये कालान्तरे प्रत्युपकारम् एते करिष्यन्तीति प्रत्युपकाराय साभिलाषाः । निरभिलाषा अपि पश्वादयः केवलं ममत्वादेव साभिलाषा दृश्यन्ते किमुत मानुषाः प्रत्युपकारा गृ ⟨…⟩ व इति भावः । एतेन मोहविरोधि ज्ञानं वैषयिकज्ञानात्पृथक् तदभावाद्भवतोर्मोह इति ध्वनितम् ॥ ३९ ॥मूलम्
गुप्तवती
न द्वितीयः । सर्वेषां तदभावादित्याह । तथापीति ॥ ४० ॥चतुर्धरी
नचैवमपि सर्वेषां ज्ञानविशेषाय प्रवृत्तिः सुलभेत्याह । तथापीति । तथा वैषयिकज्ञानमोहयोः सामानाधिकरणस्य साक्षात्कारे सति मोहगर्ते मोहस्याकरे । विषयज्ञाने इति यावत् । अस्वीये स्वीयज्ञानं ममता सैव आवर्तोऽम्भःसंभ्रम इव यस्मिन् । ममता हि विषयज्ञानं पुनःपुनरावर्तयति । महामायाप्रभावेण कर्त्रा निपातिताः निक्षिप्ताः । मानुषा इत्यनु षज्यते । तेषां विशेषणं संसारस्थितिकारिण इति । अपूर्वदेहेन्द्रियवासनासंबन्धः संसारस्तस्या स्थितये कर्तुं कर्माण्याचरितं शीलं येषां प्रवृत्तिमार्गाणामित्यर्थः । संसारस्थितिकारिणो विष्णोर्महामायाप्रभावेणेति वा । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः ॥ ४० ॥शान्तनवी
यद्यपि अमी मानुषा यथा प्रत्युपकारार्थं पुत्रान् पालयन्ति तद्वत् मोक्षार्थमपि यतन्त एव । तथापि संसारस्थितिकारिणा महामायाप्रभावेण ममतावर्ते मोहगर्ते निपातिताः इत्यन्वयः । ममता आवर्त इव ममतावर्तः । मोहः गर्त इव मोहगर्तः । तत्रतत्र च महत्याः मायायाः प्रभावः सामर्थ्ये सर्वाकलनशक्तिविजृम्भणं ःतेन । अथवा महामायां प्रति पूरयति महामायाप्रः स चासौ भावश्चेति तेन । ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' । संसारस्य स्थितिप्रवाहनित्यतयावस्थानम् । न कदाचिदनीदृशं जगदिति भावाभावावपि जगद्रूपौ ( बन्धमोक्षावपि जगद्रूपौ ) संसाररूपावेव । संसारस्थिति करोतीति तच्छीलः संसारस्थितिकारी तेन ॥ ४० ॥नागोजीभट्टी
नन्वेवंविधव्यवहारदर्शिनां संसाराद्विरक्तिः कुतो नेत्यत आह । तथापीति । एवंविधलोकव्यवहारसाक्षात्कारो यद्यप्यस्ति तथापीत्यर्थः । महामायाप्रभावेण कर्त्रां । ममता ममेदमिति बुद्धिरेव भ्रामकत्वादावर्त इवावर्तः । संसारे पुनःपुनरावर्तकः यत्र तादृशे मोहगर्ते निपातिताः मानुषाः संसारस्थितिं तामेव कुर्वन्ति नतु ततो विरज्यन्त इत्यर्थः । ‘स्यादावर्तोऽम्भसां भ्रमः’ ॥ ४० ॥जगच्चन्द्रचन्द्रिका
महामायेति ५४ ॥ ४० ॥दंशोद्धारः
नन्वेवंसति सर्वेषां मोहनिवर्तकं ज्ञानं कुतो न भवतीत्याशङ्क्याह । तथापीति । यद्यपि स्नेहादिदुःखं जानन्ति तथापि महामायाप्रभावेण कर्त्रां मोहगर्ते निपातिताः सन्तः संसारस्थितेः कारिणः करणशीलाः । तथाच ोऽध्यायः १ ] गुप्तवत्यादिसप्तटीक कासंवलिता । ६१ वृतानां तज्ज्ञानं दुरुदयमिति भावः । यद्वा संसारस्थितिकारिणः ईश्वरस्य महामायाप्रभावेणेति संबन्धः । तथा चेदृशी न हेतुः । अन्यथा सर्वेषां पारमार्थिकज्ञानोदये सर्वेऽपि मुक्ताः स्युः । तथाच संसारस्थितिरेव भज्येतेति भावः ॥ ४० ॥ विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैत्तया संमोह्यते जगत् ॥ ४१ ॥ १ गुप्तवती ) ॥ ४१ ॥ २ चतुर्धरी ) उपसंहरति । तदिति तत्तस्मादत्र भवन्मोहे विस्मयोऽसंभावना न कार्यो न करणीय इत्यर्थः । महामायया एतत् जगन्मोह्यते । ननु कासौ महामायेत्याह । योगेति । महामाया नाम हरेरीश्वरस्य योगनिद्रा मयी शक्तिः । जगत्पतेरिति भगवतो मोह्यकोटिबहिर्भावसूचकं विशेषणम् ॥ ४१ ॥ ३ शान्तनवी) चशब्दो हेतौ । यतः महामायेति या अनादिः प्रसिद्धास्ति भगवती एषा जगत्पतेर्हरेर्विष्णोर्योगनिते । तया जगत् संमोह्यते मोहाय संप्रयुज्यते मोहपरायणं क्रियते । तत्तस्माज्ज्ञाने सत्यपि पुत्रादिषु ममत्वं कथं ति अत्र विस्मयो न कार्य इत्यन्वयः । विस्मयो मोहः । योगो निद्रैव योगनिद्रा निष्प्रपञ्चात्मावगमो योगस्तद्ध्यानविषयेभ्यश्चित्तवृत्तिनिरोधो विवक्षितः । न तु साक्षान्निद्रा अस्वप्नत्वादेवानाम् । 'योगः संहननोपायध्यानसंगतियुक्तिषु' वेषयेभ्यश्चित्तवृत्तिनिरोधो विवक्षितः । न तु साक्षान्निद्रा अस स्वमतवादेवानाम् । 'योगः संहननोपायध्यानसंगतियुक्तिषु' तुलाभेऽपि भेषजेऽपि चरेऽपि च' । 'मम माया दुरत्यया'इति भगवद्वचनात् ॥ ४१ ॥ ४ नागोजीभट्टी ) ननु मायाया आश्चर्येयं शक्तिरत आह । तदिति । योगनिद्रा तमःप्रधाना शक्तिः । एतज्जगत्तया इत्यन्वयः । जगत्पतित्वेन तस्य मोक्षकोटिबहिर्भावः सूचितः ॥ ४१ ॥ ५ जगच्चन्द्रचन्द्रिका ) महामाया हरेरिति ५५ ॥ ४१ ॥ ६ दंशोद्धारः ) उपसंहरति । तन्नात्रेति । कासौ महामायेत्यत आह । योगनिद्रेति । परमानन्दशक्तिरित्यर्थः ॥ ४१ ॥ मपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ ४२ ॥ १ गुप्तवती ) ज्ञानिनामपि केवलिनामपि । अन्येषां किमुतेति तात्पर्यम् ॥ ४२ ॥ २ चतुर्धरी ) न केवलं प्रवृत्तिमार्गाणामसौ मोहिका भवति किंतु ज्ञानिनामपीत्याह । ज्ञानिनामपीति । ज्ञानिनां वतामपि चेतांसि अन्तःकरणानि सा प्रसिद्धा महामाया भग त किंतु ज्ञानिनामपीत्याह । ज्ञानिनामपीति । ज्ञानिनां वतामपि चेतांसि अन्तःकरणानि सा प्रसिद्धा महामाया भगवती अचिन्त्यमहिमा देवी द्योतनशीला हि यस्मात् क्षितः आकृष्य विवेकाद्यावर्त्यं मोहाय प्रयच्छति मोहानुगामीनि मोहानुकूलानि करोति । भवद्विधानां का कः ॥ ४२ ॥ ⟨…⟩ करोति । ज्ञानिनां ⟨…⟩ ३ शान्तनवी ) महामायायाः प्राधान्यमाह । हि यस्मात् अनादिः प्रसिद्धा वैष्णवी महामाया भगवती ऐश्वर्यादियुता देवी स्वेच्छया दीव्यन्ती सती ज्ञानिनामपि उपनिषदुत्थज्ञा ज्ञानिनामपि पुंसां चेतांसि बलात्सामर्थ्यादाकृष्य मोहाय वाय ममत्वाय प्रयच्छति ददाति । चित्तानि ममत्वाधीनानि करोति इत्यन्वयः । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना णोः' । 'दाणो यच्छः शिति' ॥ ४२ ॥ ४ नागोजीभट्टी ) भवादृशानां संसारिणां का वार्ता । अपक्वकषायाणां योगिनामपि सा मोहिकेत्याह । ज्ञानिनामआकृष्येत्यस्य विवेकादित्यादि । मोहाय प्रयच्छति मोहवन्ति करोतीत्यर्थः । एवं च स्वकर्तव्यसृष्टिवृद्धये एवंप्रर्थः ॥ ४२ ॥ ५ जगच्चन्द्रचन्द्रिका ) बलादाकृष्येति ५६ ॥ ४२ ॥ ६ देशोद्धारः ) न केवलं विषयिण एव मोहयति किंतु ज्ञानिनोऽपीति कैमुतिकन्यायेनाह । ज्ञानिनामपीति॥४२॥ सृज्यते विश्वं त्रैलोक्यं सचराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ ४३ ॥ १ गुप्तवती ) ॥ ४३ ॥ २ चतुर्धरी ) तयेति । तया मूलप्रकृतिरूपया विश्वं जगच्चराचरमिति पर्यायैरशेषावान्तरं कार्यजातमभिप्रैति । मोछतीत्युक्तम् । ततश्च प्रायेणा(श्रेयो)नुपपत्तिप्रसङ्ग इत्याह । सैषेति । सा बन्धकारणमपि एषा भगवती प्रसन्ना प्रीता सती नृणां मुक्त्यै कार्यव्यूह(द्वयवि)ध्वंसाय वरदा भवतीत्यन्वयः ॥ ४३ ॥ 'हरेश्चैषा तया' इति पाठः शा।न्तनव्यादिसंमतः ।शान्तनवी
तया देव्या चराचरं विश्वं विसृज्यते विशेषेण सृज्यते उत्पाद्यते । अथ च तया देव्या तदेव चराचरं जगत् अविसृज्यते न सृज्यते किंतु रक्ष्यते । अथ च सैषा या देवी नृणां पुंसां वरदा भवति । 'अप्रसन्नाऽवरदा भवति । अथ च सैषा देवी नृणां भक्तानां प्रसन्ना सती मुक्तये च भवतीत्यन्वयः । तया विसृज्यते तया अविसृज्यते इत्यकारप्रश्लेषोविवक्षातो ज्ञेयः । अ इत्येतत् पृथगव्ययम् । 'अमानोना प्रतिषेधवचने' इति स्मरणात् । अभ्यधुश्च ।'अभावे नह्यनोनापि' इति । चरतीति चराचरं जंगमरूपं विश्वमित्यर्थः । 'चरिष्णु जङ्गमचरं ⟨…⟩ सर्वमिदं चराचरम्' ।'चारिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यांसत्य०' चरादीनां पचाद्यचि द्विर्भावोऽभ्यासस्य अगागमश्च । अग्निधानसामर्थ्यांच हलादिःशेषो न । अन्यथा आकारादेश एवं वक्तव्यः स्यात् । न चेह चरा चाचरा चेति विगृह्यैकवद्भावेन विश्वविशेषणम् । चराचरमित्येतदितिशङ्कनीयम् ।विश्वग्रहणादेतज्जगद्ग्रहणादेव वा तत्सिद्धेः पौनरुक्त्यप्रसङ्गात् । नहि स्थावरं ⟨…⟩ ंगमात्मकादन्यद्विश्वस्य शब्दवाच्यं वास्ति तस्मात् चराचरमिह जंगममेव विवक्षितम् । विश्वजगच्छब्दयोरिह भिन्नवाक्यस्थया विवक्षितत्वादपौनरुक्त्यम् । समं सर्वं 'विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्' 'विष्टपं भुवनं जगत्' । गच्छतीति जगद्विश्वम् 'जगत्स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु'इति रुद्रकोशः ॥ ४३ ॥नागोजीभट्टी
विश्वं समस्तम् । नन्वेवं मुक्तिर्दुर्लभैव स्यात्तदाह । सैषेति । मोहकारणमपि सा उपासनादिभिः स्वार्पितनिलयकर्मादिभिश्च प्रसन्ना मोक्षाय वरदा भवति ॥ ४३ ॥जगच्चन्द्रचन्द्रिका
सैषा प्रसन्नेति ५७ ॥ ४३ ॥दंशोद्धारः
तामेव विशिनष्टि द्वाभ्याम् । विसृज्यते उत्पाद्यते । यद्वा अकारप्रश्लेषेण अविसृज्यते न त्यज्यते । 'अमानोना प्रतिषेधे' ॥ ४३ ॥मूलम्
गुप्तवती
॥ ४४ ॥चतुर्धरी
एकस्यापि ( आकृष्य ) बन्धमोक्षोभय यकारणत्वं समर्थयति । सेति । विद्या ब्रह्मज्ञानलक्षणा । परमपुरुषार्थसाधनत्वात् । संसार एव बन्धस्तस्य हेतुः । चशब्दाद्विद्यारूपावसायनित्याशुचिदुःखानात्मसु ( किमित्य ) शुचिसुखात्मख्यातिः । सर्वेषां ब्रह्मादितृणान्तानामीश्वरी प्रवृत्तिनिवृत्तिव्यापारा । ईश्वर्यंव्याहृतेच्छा । सर्वेश्वराणां ब्रह्मादीनां ईश्वरीति वा । सर्वेश्वरेति राज्ञः संबोधनं वा ॥ ४४ ॥शान्तनवी
इह महामाया अविद्यारूपा बन्धहेतुः । विद्यारूपा तु मुक्तिहेतुरिति प्रतिपाद्यते । तत्र अविद्यापक्षे तावत् सा प्रसिद्धा देवी अविद्या विद्येतरा । यद्वा वेत्ति वित् ब्रह्मज्ञानसंपन्नः ततोऽन्यः अवित् सांसारिकः तं याति अविद्या । कीदृशी अविद्या । अपरमा परा उत्कृष्टा मा मोक्षलक्ष्मीः ततोऽन्या अपरमा । अथवा न विद्यते परा उत्कृष्टा मा मोक्षलक्ष्मीर्यस्याः सा अपरमा । अथवा अः विष्णुः तस्यैव अपरा उत्कृष्टा मा मोक्षलक्ष्मीर्यतो भवति सा अपरमा । अथवा अ ⟨…⟩ विष्णुः परमः परोऽन्योधिकरणभूतो यस्याः सा अपरमा । पुनः कीदृशी अविद्या । अमुक्तेर्हेतुभूता न विद्यते मुक्तिर्यस्मा ⟨…⟩ वर्गात्सोऽमुक्तिः त्रिवर्गो धर्मकामार्थलक्षणः क्षयस्थानवृद्धिलक्षणो वा त्रिवर्गः तस्य हेतुभूता । पुनःकीदृशी अविद्या असनातनी। न सना सदाभवा असनातनी । अनादिरपि ह्यविद्या विद्याविनि वर्तनीयत्वादनित्या अथवा । पुनः कीदृशी अविद्या सर्वेश्वरी सर्वे ईश्वराः ईशनशीलाः स्वामिनः स्वस्वामिभावसंबन्धसंबन्धिनो भवन्ति । यतः सा सर्वेश्वरी अखिलप्रपञ्चरूपा सैवेश्वरी ऐश्वर्यसंपन्ना अतएव सा संसारबन्धहेतुः संसार इति बन्धःतस्य हेतुःकारणम् । अथवा सर्वेषां लोकानाम् ईश्वराः ब्रह्मविष्णुमहेश्वराःतेषां ब्रह्मादीनाम् ईश्वरी ब्राह्मी वैष्णवी माहेश्वरीति व्यपदेशतस्तत्र तद्वशीकृत्यौचित्या । स्वामिनीति यावत् । पुनः कीदृशी अविद्या सा अः विष्णुः तेन सह वर्तमाना । विष्णुमायेत्यर्थः । चकारेण विद्यारूपापि महामायेति पक्षः समुच्चीयते । तथाहि । सा वैष्णवी माया सैव विद्या अतीतप्रपञ्चब्रह्मगोचरा उपनिषदुत्थज्ञानरूपा । अथ वेत्ति वित् आत्मज्ञानं याति विद्या । पुनः कीदृशी विद्या। परमा परात्मात्मतत्त्वगोचरत्वादुत्कृष्टा । पुनः कीदृशी विद्या । सनातनी 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मरूपत्वान्नित्या । ब्रह्म ⟨…⟩ त्वगोचरत्वोपचारौचित्यापि । शाश्वती 'शाश्वतस्तु ध्रुवो नित्यसदातनसनातनः'।'सायं चिरम्' इत्यादिना ट्यु ⟨…⟩ तुट् टित्त्वात् ङीप्। पुनः कीदृशी विद्या । सर्वां संपूर्णां विश्वरूपा । पुनःकीदृशी विद्या । ईश्वरस्य ईश्वरी ईश्वरेश्वरी। ईश्वरस्यापि हि स्वरूपदिदृक्षुत्वोचिर्यावाप्तव्यत्वादवश्याश्रयणीयत्वात्तस्याः । 'स्वेदाभासपिशङ्गो वरम्' इति ⟨…⟩ । ईष्टे इति ईश्वरः। ईश्वर इति रूपम्। अश्नुते अशू व्याप्तौ । व्याप्नोति इति विष्णुश्च ईश्वरीति भवति । ⟨…⟩ श्नोतेरा ⟨…⟩ कर्मणि वरट् चेचोपधाया इत्यौणादिको वरट्। पुनःकीदृशी विद्या । संसारबन्धहेतुः । पुंसां मुक्तेः कारणभूतेत्यर्थः । संसारबन्धरूपत्व हेता गता संसारबन्धहेता तस्य संसारबन्धहेतुः पुंसः मुक्तेर्मोक्षस्य हेतुभूता । 'ज्ञानादेव तु कैवल्यम्' इति सिद्धान्तश्च । विद्यैव मुक्तिनिदानमिति तात्पर्यम्। हेतुरिति। हि गतौ। मोऽध्यायः १ ] गुप्तवत्यादिसप्तटीक ष्ठ्येकवचनान्तमेतत् । षष्ठीसमासः । ‘कर्तरि च’ इति तु ासंवलिता । ६३ गालिङ्गादवसीयते । हेतुशब्दस्तु उकारान्तः कारणवाची । षष्ठीसमासप्रतिषेधः प्रायिको ‘जनिकर्तुः प्रकृतिः’ इति पाणि मुनिं महामायामहिमानं प्रष्टुं वाक्यम् ऊचे ॥ ४४॥ अविद्या अहंमतिः विद्या तु मोक्षफलं ज्ञानम् । सुरथःनागोजीभट्टी
नन्वेकस्यैव वस्तुनः बन्धमोक्षोभयहेतुता देका । अतो न काचिदसंभावना तस्यामित्यर्थः । किंच ानुपपन्नेत्यत आह । सा विद्येति । सर्वेश्वरस्येश्वरी ईश्वरसाधनाभूता विद्या ब्रह्मज्ञानरूपा सैव सनातनी अनाद्यनन्ता विद्याविद्योभयरूपत्वादपि नैतदसंगतिरित्याह । परमा उत्तमत्मकत्वादुभयहेतुता उपपन्नेति भावः ॥ ४४ ॥ च संसारबन्धहेतुरविद्या च सैवेत्यर्थः । एवंच चिज्जडप्र-जगच्चन्द्रचन्द्रिका
पुनरर्धं इति । पुनः श्लोकरूपो ⟨…⟩ ॥ ४४ ॥ मन्त्रः । तथाहि संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ⟨…⟩ ॥ ४४ ॥ ⟨…⟩ दंशोद्धारः) सेति । एवंच विद्याऽविद्याविभेदेन सैव मोक्षमोहकर्त्रीति भावः ॥ ४४ ॥राजोवाच ।
मूलम्
गुप्तवती
नित्यैव सेत्यादिना रूपं देवानामित्यादि नोत्पत्तेरौपचारिकत्वं चोक्त्वा प्रभावं वक्तुमारभते ॥ ४७ ॥चतुर्धरी
अत्रोत्तरमृषिरुवाचेति तत्राद्यन्तौ पक्षौ समाधत्ते । नित्येति । नित्या प्राक्प्रध्वंसाभावशून्या । द्विती॰ ⟨…⟩ ग्राह । सेति । यत्किंचित्सृष्ट्यादिकर्मजातमाप्यते (प्रतीयते) तत्सर्वमस्या एवेत्यर्थः । सर्वनाम्नः प्रसिद्धाभिधायित्वात् । तुरी॰ ⟨…⟩ ऽप्याह । जगदिति । जगदेव मूर्तिः (व्यक्ताकारा) व्यक्तिराकारो यस्याः । सर्वत्रैव सदर्थंविहीनप्रत्ययार्थावगमात् । तृतीय॰ ⟨…⟩ प्याह । तथेति । इदं सर्वं तया ततं व्याप्तमिति । चित्स्वभावासा ⟨…⟩ वित्यर्थः । उत्पत्त्याद्यभ्युपगमेनाह । तथापीति । ममेत्यव्ययम् । मत्त इत्यर्थः ॥ ४७ ॥ न जगन्मूर्तिः सा देवी नित्यैव । तया देव्या इदं लोकमयं सर्वंशान्तनवी
अथ सुमेधा ऋषिरुवाच । हे राजन् जगन्मूर्तिः सा देवी नित्यैव । तया देव्या इदं लोकमयं सर्व ततं कृतम् । सा तु केनापि न तता न कृता । तथापि लोकोपकारार्थं तत्समुत्पत्तिः तत्प्रादुर्भावो वहुधा अनेकैः प्रकारैर्मम वाचो युक्तिः त्वया श्रूयतामित्यन्वयः । जगत् जगति वा मूर्तिः कायो यस्याः सा तथोक्ता । तस्याः समीचीना उत्पत्तिः तत्समुत्पत्तिः । 'मूर्तिः काठिन्यकाययोः' ॥ ४७ ॥नागोजीभट्टी
उत्तरयति । ऋषिरुवाच । नित्यैवेति । जगन्मूर्तिरित्यनेन जगदतिरिक्तमुख्यशरीराभावो ध्वनितः। जगदाश्रयभूता शक्तिरित्यर्थः । केनेति जातिप्रश्नोत्तरं स्वरूपप्रश्नोत्तरं च । तया सर्वमिदं ततमित्यनेन स्वभावोत्तरम् । सृष्टिस्वभावा सेत्यर्थः । ततं विस्तारितमित्यर्थः । व्याप्तमिति चे इत्यर्थकस्य चित्स्वभावा चेत्यर्थः । सृष्टीत्युपलक्षणम् । नित्यत्यनेन मुख्योत्पत्तेरभावात्कारणस्य सुतरामभावेन गौण्यो कारणोत्पत्तीति दर्शितम् । ते उत्पत्तितत्करणप्रश्नोत्तरं तत्समुत्पत्तिः गौरी सा । ममेत्यपादानस्य शेषत्वविवक्षायां षष्ठी । मत्त इत्यर्थः ॥ ४७ ॥जगच्चन्द्रचन्द्रिका
पुनः ऋषिरिति । पुनः ऋषिरुवाच स्वाहेति मन्त्रः ६३ । पुनरर्धमिति । पुनः अर्धं श्लोकार्धं पादद्वयात्मक इत्यर्थः । तथाहि नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततं स्वाहा ६४ । पुनः श्लोकाः षट्मन्त्रा इति पुनश्लोकाः श्लोकरूपाः षट् मन्त्राः षट्संख्याका मन्त्रा इत्यर्थः । तथाहि तथापीति ६५ ॥ ४७ ॥दंशोद्धारः
अत्रोत्तरमृषिरुवाच । नित्यैवेति । का यत्स्वरूपेत्यनयोरुत्तरं जगन्मूर्तिरिति । किमस्याः कम यत्स्वभावेत्यस्योत्तरं तया सर्वमिदं ततमिति । कथमुत्पन्ना । यदुद्भवेत्यस्योत्तरं नित्यैवेति । तथापीत्यादिचेत्यूह्यम् । ममस्वव्ययं प्रागवत् ॥ ४७ ॥ देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।गुप्तवती
॥ ४८ ॥चतुर्धरी
ननु नित्यायाः समुत्पत्तिरिति भवति ॥ ४८ ॥शान्तनवी
सा देवी देवानां कार्यसिद्ध्यर्थं उत्पन्ना लब्धजन्मेति अभिधीयते कथ्यते । जनतयेऽस्यन्वयः तस्या इति भावः । 'प्रकाशे प्रादुराविः स्यात्' । आविर्भवति नगतिको लोको न लोकः पारमार्थिकः । सतीमप्यसतीमाह मंस्यते । चन्द्र इत्यत्र किं कुर्मो गतानुगतिकं जगत्' ॥ ४८नागोजीभट्टी
देवानां कार्यसिद्ध्यर्थमिति कथमुत्पन्नेत्युत्तरमपि ॥ ४८ ॥जगच्चन्द्रचन्द्रिका
उत्पन्नेतीति ६६ ॥दंशोद्धारः
ननु नित्यत्वोत्पत्त्योः परस्परं विरोध इत्याशंक्यौपाधिकी उत्पत्तिरिति दर्शयितुमवतारप्रयोज ⟨…⟩ मितिहासं प्रस्तौति । देवानामित्यादियावदध्यायसमाप्ति । ४८ ॥ योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत्कल्पान्ते भगवान्प्रभुः ॥ ४९ ॥गुप्तवती
योगनिद्रामित्यादिना । विष्णोरप्येषा मोहिकेति प्रदर्शनायानेनैवपदेन विशेष्यनिर्देशः । तेन पा ⟨…⟩ कराङ्कुरोऽलंकार इति काव्यविदः । शेषं सर्वविशेषं कल्पान्ते सर्वनाशसमये आस्तीर्य तावन्मात्रस्यैवावशिष्टत्व ⟨…⟩ शेषपदेन निर्देशः ॥ ४९ ॥ ायः १ ] गुप्तवत्याद्यष्टटीकासंवलिता । ६९ तुर्धरी) अत्रापीतिहासमवतारयति । योगेति । योगनिद्रां स्वच्छोपात्तां निद्रां विष्णुरीश्वरः शेषमनन्ताहिमास्तीर्य भजत् अध्यास्ते । कल्पान्ते ब्रह्मदिवसाऽवसाने भगवान्समग्रगुणावरोधः तथाच । विष्णुपुराणे । 'उत्पत्तिं प्रलयं गति गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' । प्रभुरप्रतिहतेच्छः ॥ ४९ ॥ ान्तनवी ) कल्पान्ते प्रलये ब्रह्मादीनां निशावसाने जगति भुवने एकार्णवीकृते एकार्णवत्वेन कृते सति एकोथापिते सति भगवान् ऐश्वर्यादिसंयुतः प्रभुः स्वामी विष्णुः व्यापको नारायणः शेषम् अनन्तं फणीश्वरम् आस्तीर्य कृत्य यदा योगनिद्राम् अभजत् योगनिद्रामिवासेवत । तदा तस्मिन्काले योगनिद्रोपलक्षिते काले विष्णुकर्णमभयंकरौ मधुकैटभाविति विख्यातौ नाम्ना कथितौ द्वौ असुरौ सुरविद्विषौ ब्रह्माणं विष्णोर्नाभिकमलस्थं वेधसं म् उद्यतौ उद्युक्तौ उन्मुखावभूतामिति श्लोकयुग्मान्वयः । योगनिद्रैव ध्यानाङ्गनिद्रा ताम् । वेवेष्टि व्याप्नोति विश्वं यते जगत् तस्मिन् । यस्मिन्रणन्ति अम्भांसि सन्ति बहूनि सोऽर्णवः । 'अर्णसो लोपश्च' इति वः । एकः केवमुद्रः पूर्णो यस्मिंस्तत् एकार्णवम् । जगत् प्रलयतः प्राक् सत्तार्णवत्वेन जगद्व्यवस्थापितम् । प्रलये तु एकार्णवस्य ऐकार्णव्यम् । ब्राह्मणादित्वात् ष्यञ् वृद्धिः । स्त्रियाम् एकार्णव्यमेव ऐकार्णवी । 'षिद्गौरादिभ्यश्च' इति ङीप् । या एकार्णवत्वेन कृतं व्यवस्थापितं जगत् तस्मिन् । अथवा विधिना अभूततद्भावविवक्षायां सप्तार्णवमनेकार्णवं कृतं निर्मितं रचितम् एकार्णवीकृतं तस्मिन् जगत्येकार्णवीकृते । अथवा नित्यया भगवत्या जगत्येकार्णवेकृते संशयः पाठः । 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' 'कल्पः शास्त्रे निधौ न्याये संवर्ते ब्रह्मणो दिने' । ऽवधिः कल्पान्तः तस्मिन् । मन्यतेऽहमेव शूरः इति मधुः । 'मधुः पुंस्यसुरे चैत्रे मधुकं सुरभावपि । क्लीबं तु ाक्षौद्रे पुष्परसेऽपि च' कीटस्येव भा प्रभा यस्य तत् कैटभं कर्णजं मलं तत्र भवः कैटभः । तृंहति वर्धते ब्रह्मा कर्णौ तयोर्मलं ततः उद्भूतौ ॥ ४९ ॥ नागोजीभट्टी) कथं देवप्रार्थनया तत्कार्यसिद्ध्यर्थमवतार इति जिज्ञासायां तां निवर्तयितुं मोहकारणस्यैव च नादौ मोहिकायास्तमोगुणप्रधानाया अवतारं वक्तुमितिहासमाह । योगनिद्रामिति । कल्पान्ते ब्रह्मदिनान्ते योगीं शक्तिं भगवान् । 'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' णः । तेन भूतानां प्रलयकालं ज्ञात्वा सेयं पालनव्यवहारतिरोधानमन्तरा तदसंभवं मत्वा स्वपालनव्यवहारतिरोधासीं शक्तिम् अभजत् । पटेनेव तयात्मानमावृतवानित्यर्थः । प्रभुरित्यनेन स्वेच्छया तदङ्गीकारः । न तु तया बलामिति ध्वनितम् । अत एव योगनिद्रेत्युक्तम् । इतरजननिद्रावत् मोहपारवश्यापादनीभवति लीलया सखीवल्लोमात्रं करोति । तदुक्तं हरिवंशे 'सखी सर्वसहस्यैषा माया विष्णोः शरीरजा । सैषा नारायणमुखे स्थिता कमललो। तेन अतः स्वस्वरूपज्ञानावरकत्वं प्रदर्शितम् ॥ ४९ ॥ जगच्चन्द्रचन्द्रिका ) आस्तीर्यति ६७ ॥ ४९ ॥ दंशोद्धारः ) योगनिद्रामिति । एकः केवलोऽर्णवः पूर्णो यस्मिन्नित्येकार्णवं प्रलयात्प्राक् सप्तार्णवत्वेन व्यवहित ऐकार्णवी । ब्राह्मणादित्वात्ष्यञ् । षित्वान्ङीप् । 'हल् ⟨…⟩ ⟨…⟩ द्वितस्य’ इति यलोपः । तथाकृते व्यवस्थापिते । एकार्णति पाठः सुगमः ॥ ४९ ॥ सुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥ ५२ ॥ १ गुप्तवती ) ॥ ५० ॥ २ चतुर्धरी ) ब्रह्माणं विरञ्चिम् ॥ ५० ॥ ३ शान्तनवी ) पूर्वश्लोके एवास्य श्लोकस्य व्याख्यास्ति ॥ ५० ॥ ४ नागोजीभट्टी ) तदेति । मलोद्भूताविंत्यनेनानयोरतितामसत्वं सूचितम् । इतरत्स्पष्टम् ॥ ५२ ॥ ५ जगच्चन्द्रचन्द्रिका ) विष्णुकर्णेति ६८ ॥ ५० ॥ ६ दंशोद्धारः ) तदेति । मन्यतेऽहमेव शूरः इति मधुः । कीटस्येन्द्रगोपस्येव भा प्रभा यस्य तत्कीटभं कर्णमल कैटभः ॥ ५० ॥ भिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्॥५१॥ १ गुप्तवती ) इयं च योगनिद्रा प्रथमचारित्रदेवता महाकाल्येव । तमोगुणप्रधानत्वात् । पूर्वम् एवंस्तुतेत्यनेन तामसी तुतेरुपसंहाराच्च ॥ ५१ ॥ २ चतुर्धरी ) प्रजानां पतिर्नियन्ता ॥ ५१ ॥ [ प्रथमोऽध्यायः ] ब्रह्मा तावसुरौ च उग्रौ दृष्ट्वा जनार्दनं च प्रसुप्तं योगनिद्राहरिनेत्रकृतालयां तां योगनिद्रां महामायां तुष्टाव स्तुतवान् । तत्र वा नाभौ कमलं तत्र स्थितः उपाविष्टः ब्रह्मा । विष्णोऽपि तत्र वा नाभौ कमलं तत्र स्थितः उपविष्टः ब्रह्मा । विष्णोऽपि अत उक्तं ब्रह्मेति । अर्दं हिंसायां चुरादिः । जनान् अर्दति गच्छति । ष्टुञ् स्तुतौ । स्तवनक्रियाफल स्तवनक्रियाफलं पारंपर्याद्देवरक्षणे 'लक्षणमेवेति'युक्तं परअथवा स्तवनक्रियाफलं पारंपर्याद्देवरक्षणे 'लक्षणमेवेति'युक्तं पर। हरेः प्रबोधनार्थायेति तु यद्यपि अव्यवहितं स्तवनपारम्पर्यांवधृतं देवसंरक्षणमेव स्तवनक्रियाफलम् । एवम् अद्वितीस्थितः निष्कम्पः । अथवा एकम् अद्वितीयमग्र्यं प्रधानं हत्गुप्तवती
॥ ५२ ॥चतुर्धरी
तुष्टावेति । एकाग्रहृदयोऽनन्यनिश्चगुप्तवती
॥ ५२ ॥ निद्राया अभिव्यक्तिः वस्तुतस्तु सर्वाङ्गा स्थितैव सा ॥ ५२शान्तनवी
पूर्वश्लोके एव व्याख्यातास्य श्लोकस्यनागोजीभट्टी
तुष्टावेति । स एकाग्रमनवच्छिन्नं शर्परे खरि वा विसर्गलोपः । विबोधनार्थाय पालनव्यवहा योरेव भूयो निद्राभिव्यक्तिमत्त्वात् नेत्रेत्युक्तिः ॥ ५२दंशोद्धारः
तुष्टावेति । एकाग्रेण हृदयेन स्थितःजगच्चन्द्रचन्द्रिका
विबोधनार्थेति ७० ॥ स्थितो दत्तावधानः । हरिणा नेत्राभ्यां कृत आलयो यस्याः ॥ स्थितो दत्तावधानः । हरिणा नेत्राभ्यां कृत आलयो यस्याः ॥गुप्तवती
॥ ५३ ॥चतुर्धरी
कथं तां तुष्टावेत्याह । ब्रह्मोवाच । तत्कारणीं स्तौमि वाचा पूजयामि । विरतेन्द्रियप्रदेशे मनोलयो यस्य । क्वचित्तु स्तौमीत्यादिपदार्धस्थाने निद्रां भगवतीं विष्णोरतुलां वेत्यनेनैवान्वयः । अतुलाम् अनन्यसमां ( सा अतुला तां कस्य विष्णोः प्रभुरिति ब्रह्मणो विशेषणम् । तेजसः प्रभुः ब्रह्मेति यस्याः सा अतुला कस्य तेजसः इति वा ॥ ५३ ॥शान्तनवी
ब्रह्मा तावत्तां स्तोतुं स्वयमेव तेजो यस्य सः अतुलतेजाः तस्य अतुलतेजसः विष्णोर्ध्यानरूपां कीर्तितम्' । तेजः असहनत्वेऽपि । यदाहुः ।'अधिक्षेपावमानादेः निभाल्य ईश्वरीं व्यापिकां ायः ९ ⟨…⟩ संवलिता । ६७ ायः १ ] गुप्तवत्यादिषट्टीकासंवलिता । ६७ ातो धारयित्रीं पोषयित्रीं च । पुनः कीदृशीम् । स्थितिसंहारकारिणीं स्थितिसर्गसंहारमध्यमावस्थां कुर्वाणाम् । ंस्थिरुत्तरावस्थां कुर्वाणाम् । ‘सुप्यजातौ णिनिस्ताच्छील्ये’ । पुनः कीदृशीम् । भगवतीं षडैश्वर्यसंगताम् । तु धात्रीमिति ताच्छील्ये तृन्योगे नलोकाव्ययसूत्रेण षष्ठीनिषेधात् कर्मणि द्वितीयान्तं जगदिति । एतेन विष्णुत्सर्गस्थितिसंहारकारिणी ब्राह्मी वैष्णवी माहेश्वरीमयी शक्तिरिति स्तुतितात्पर्यं सूचितम् ॥ ५३ ॥ गोजीभट्टी) योगनिद्रायाः मूलशक्त्यभेदं मत्वा विशेषयति । विश्वेश्वरीमिति । तत्त्वमेव विविच्याह । जगद्ब्रधात्रीं जननीम् । अनेन जगदुत्पत्तिस्थितिलयकर्तृत्वं ह्मलिङ्गं दर्शितम् । अतुलामित्यन्तानि विष्णुनिद्राविशेषः प्रभुरिति ब्रह्मविशेषणम् । तत्स्तुत्यत्वेनात्युत्कर्षोऽस्या ध्वनितः । विष्णुमोहकतया इतरमोहकत्वमनाश्चर्यमित्यपि आयातोऽर्थः वस्तुतो विष्णोरिति । राहोः शिर इति वत् षष्ठी । विष्णुरूपां निद्रामित्यर्थः । ब्रह्मापि सर्वेश्वरः लोकानुग्रहाय स्वयं मोहित इव दुःखनिवृत्तये इव भगवतीं स्तौति । ऋषेः सर्वज्ञत्वादि चैषां सर्वात्मत्वं सर्वमे दर्शितमेवेति न कश्चिद्विरोधः ॥ ५३ ॥ जगच्चन्द्रचन्द्रिका ) पुनरर्धकमिति । पुनः अर्धकम् अर्धश्लोकात्मको मन्त्रः । तद्यथा । निद्रां भगवतीं विष्णोरतुलां स्वाहा ७१ । इत्येव पाठो मन्त्राणामेकसप्ततिरुच्यते ७१ ॥ ५३ ॥ देशोद्धारः ) विश्वेश्वरीमिति । प्रभु ⟨…⟩ ना । तेजसो विष्णोरतुलामनुपमां निद्रां तुष्टावेति पूर्वेणान्वयः । तेजसः । तेजसां प्रभुरिति पाठे तेजसां दीप्तिमतीम् । क्वचित् 'स्तौमि निद्रां भगवतीं विष्णोरतुलतेजसः' इति पाठः । सो विष्णोर्निद्रां स्तौमीत्यर्थः । अत्र च विश्वेश्वरीमित्यारभ्यैव स्तुतिः । अतएव तदुत्तरं ब्रह्मोवाचेति न पठ्यते यमसांप्रदायिकः । कात्यायनीतन्त्रोक्तवत्प्रमाणमन्त्रविभागविरोधात् ॥ ५३ ॥ब्रह्मोवाच ।
मूलम्
नागोजीभट्टी
कथं तुष्टावेत्यत आह । ब्रह्मोवाच । त्वमिति । स्वाहा देवदानमन्त्रोऽग्निपत्नी च । स्वधा पितृदा नमन्त्रः पितृपत्नी च । वषट् क्रियते यत्र स वषट्कारो यज्ञः यज्ञदेवाह्वानमन्त्रश्च । स्वराः षोडश आद्यस्तदात्मिका च । सुधा देवान्नम् । अक्षरे उपचयापचयपरिणामहीने आभ्यां सत्तामात्ररूपत्वम् । त्रिधामात्रात्मिका ह्रस्वदीर्घप्लुतरूपा । अर्धमात्रा व्यञ्ज नरूपा । अविशेषकत्वाद् ⟨…⟩ न्यलिङ्गितया अनुचार्यत्वं तदा लिङ्गिता नु तथेति बोध्यम् । त्रिधेत्यतो विशेषत इत्यन्तेन प्रणव पता चोक्ता । मात्रात्रयमकारोकारमकारात्मकम् । तदूर्ध्वमर्धमात्रा । तत्र मात्रात्रयम् । जाग्रत्स्वप्नसुषुप्त्यभिमानिविश्वतैजस प्राज्ञाभिधेयम् । अर्धमात्रा तु वेदान्तवाक्यार्थभूतनित्यमुक्ततुरीयाभिधेया । तदुक्तम् । 'व्यक्ता तु प्रथमा मात्रा द्वितीया ऽव्यक्तसंज्ञिता । मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम्'इति । त्वमेवेति । सा त्वमेवेति पूर्वान्वयित्वम् । सावित्री तत्त् ⟨…⟩ वितुरिति ऋक् । तदधिष्ठात्रो तद्वाच्या चेत्यर्थः । हे देवि त्वं परा उत्कृष्टा जननी सर्वजनकत्वात् । सर्ववाग्जननी पराच ॥५४॥जगच्चन्द्रचन्द्रिका
ब्रह्मेति । ब्रह्मो वाचस्त्वाहेत्येको मन्त्रः ७२ । अर्धं इति अर्धश्लोकात्मको मन्त्रः । तथाहि तं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिकास्वाहा ७३ । अथ श्लोकमन्त्रास्त्रयोदश इति । अथ त्रिसप्ततिमन्त्रोत्तरम् । श्लोक मन्त्राः श्लोकरूपा मन्त्राः त्रयः अधिका दश त्रयोदश तत्संख्याका वर्तन्ते इति शेषः । तद्यथा सुधात्वमिति ७४ ॥ ५४ ॥दंशोद्धारः
त्वं स्वाहेति । अक्षरे उपचयाः ऽपचयहीने नित्ये जन्मनाशरहिते । स्वाहा देवतोद्देशेन द्रव्यत्यागज नितदेवतातृप्तिरूपा देवहविर्दानमन्त्ररूपा वा । स्वधा पित्रुद्देशेन दीयमानद्रव्यजनितपितृतृप्तिरूपा मन्त्ररूपा वा । वषट्कारेति वषट्कारो यजमानस्तद्रूपा मन्त्ररूपा वा । स्वरात्मिका स्वर्गरूपा उदात्तादिरूपा निषादादिरूपा वा । सुधा अमृतरूपा । यद्वा सुधामसि सुधा । त्रीन् लोकान्ब्रह्मादीन्वा दधासीति त्रिधामात्रात्मिका अकारादिरूपा । यद्वा त्रीणि धामानि तेजांसि सूर्यचन्द्रा मिरूपाणि भुवनानि वा आसमन्तात् त्रायसे इति त्रिधामात्रा स आत्मा यस्याः सा पालनरूपासि । यद्वा त्रिधामात्रा ह ⟨…⟩ दीर्घप्लुताः अकारोकारमकारा वा तदात्मिकेत्यर्थः ॥ ५४ ॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सा त्वं सावित्री त्वं देवि जननी परा ५५गुप्तवती
अनुच्चार्या अर्धचन्द्ररोधिन्यादिध्वन्यष्टकरूपा । तत्स्वरूपं च योगिनीहृदयव्याख्यायां विवेचितम् स्माभिः । सावित्री सवितृदेवत्या गायत्री ॥ ५५ ॥चतुर्धरी
या चार्धमात्रास्थिता । नित्या अपरिणामनिर्विशेषतो मात्रात्रयवैलक्षण्येनानुच्चार्या वेदान्तवाक्यार्थ लक्षणमुक्त्यभिमानिनी तुरीयाभिधा या सा त्वमेव । एतेन प्रणवरूपा त्वमेवेति विवक्षितम् । तथाचाह भगवान् दत्तात्रेयः । ‘अकारश्च तथोकारो मकारश्चाक्षरत्रयम् । एता एव त्रयो मात्राः सत्त्वराजसतामसाः । निर्गुणा योगिगम्या च अर्धमात्रा च १ ‘देवजननी’ इति चतुर्धरीव्याख्यातः पाठः । ⟨…⟩ चित्रः । ६९ ान्धारीति च सा ज्ञेया गान्धारस्वरसंश्रया । पिपीलिकागतिम ⟨…⟩ शा प्रमुक्तो मूर्ति रक्षिता' इति । तथा 'मात्राथा) श्रोत्रं विक्रियाः परमार्थतः । व्यक्ता तु प्रथमा मात्रा द्वितीयाऽव्यभिचारांकिता । मात्रा तृतीया निच्छतिदम्' इति । 'ह्रस्वा तु प्रथमा मात्रा द्वितीया दीर्घसंज्ञिता । तृतीया तु प्लुता ⟨…⟩ ख्या वचसः सा न गोचरा' त्री गायत्री ऋक् । देवि द्योतनशीलि परा उत्कृष्टा जननी त्वम् । इतरा हि जननी क्वचित्कदाचित्किंचिदेव तु न तथेत्यर्थः । देवजननीति पाठे देवानां माता अदितिस्त्वमिति ॥ ७५ ॥ ान्तनवी ) पूर्वं त्रिधामात्रात्मिका इति विशेषणेन अकारा दिस्वरूपमातृकात्मतोक्ता । अर्धमात्रात्वमित्यनेन तु नरूपमातृकात्मतोच्यते । हे देवि त्वम् अर्धमात्रा अर्धं मात्रायाः अर्धमात्रा सा व्यञ्जनवर्णस्वरूपमातृका इयमेव । म्'इति समासः । तदुक्तम् 'एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम्' पूर्वं त्रिधामात्रात्मिकेत्यनेन ॐमात्मकत्वं विवक्षितम् । तत्र ॐ इति द्विमात्रे दीर्घत्वात् । मकारस्त्वर्धमात्रः एवं त्रिधामात्रात्मकता । अथवा ॐमभ्यादानमिति सूत्रतो वेदादिपाठारम्भे 'अग्निमीळे पुरोहितम्' इत्यादौ ॐ३ इति प्लुतः एवं त्रिधामात्रात्मकता । अथवा प्रणव ⟨…⟩ रिति सूत्रेण यज्ञकर्मणि 'अपां रेतांसि जिन्वतो ३ म्' वा अर्धस्य वा अन्त्यस्याक्षरस्य ॐ३म्शब्दत्रिमात्र आदिश्यते । एवंविधा त्रिधामात्रात्मकता । तत्र ॐ ⟨…⟩ काररूपायाः अर्धमात्रास्थिता । नित्या ध्रुवा मोक्षं सूचयन्ती विशेषतः । अनुचार्या परमात्मरूपत्वात् । 'यतो ते अप्राप्य मनसा सह'इति श्रुतेर्विशेषतः लक्षणीया सा अर्धमात्रा त्वमेव । अर्धमात्रया सूचिता या मुक्तिः सा ः । अर्धमात्रायामर्थरूपतया स्थितेत्यपि व्याख्यानम् । अथच अं विष्णु याति अया रमा सा त्वमेव । अथच वदतीति उत् वाचकः शब्दः । न विद्यते उत् वाचकः शब्दो यस्याः सा नुत् 'यतो वाचो निवर्तन्ते अप्राप्य वदतीति उत् वाचकः शब्दः । न विद्यते उत् वाचकः श शब्दो यस्याः सा नुत् 'यतो वाचो निवर्तन्ते अप्राप्य ति श्रुतेः चरितुं गन्तुं प्रभुमहाचार्या । अनुच सा चार्या च अनुचार्या परब्रह्मता सा त्वमेव । हे देवि त्वमेव यायन्त्यस्यां संश्रीयते अहोरात्रौ वाऽस्यां संध्या पितृप्रसूः पितृणां मातासीतियावत् । अथवा हे देवि त्वमेव तुरियं सावित्री ऋगसि । अथवा सा प्रसिद्धा सावित्री । वैष्णवीशक्तिरसीतियावत् । यद्वा सविता देवता यस्याः ाहृतिरहिता ऋक् सैव व्याहृतिसहिता गायत्रीत्युच्यते । हे देवि त्वमेव वेदजननी गायत्र्यसीतियावत् । नितो वेदस्य गायत्र्युपदेशपुरःसरत्वादध्ययनसमये गायत्र्युपदेशानुदयाद्वेदाध्ययनविध्यनुदयः इति गायत्र्युपदेशैव यनं जनयति इत्यध्येयाध्ययनैक्योपचारौचित्यतो वेदं जनयति वेदजननी वेदस्य वा जननी वेदमाता गायत्रीदेवि त्वं परासि श्रेष्ठासि । यद्वा पृ पालनपूरणयोः । पिपर्ति परा वेदाश्च जनाश्च वेदजनाः । वेदजनानयन्ति यन्तीति वेदजन्यो ब्राह्मयाद्यास्तेषां परा पालयित्री च त्वमेवासि । देवजननीति पाठे देवानां जननी त्वमेव परा द्वा वेदजननीं गायत्रीं पान्ति वेदजननीपाः ऋषयः ब्रह्माद्यो वा तान् रक्षितुं रासि गृह्णासि वेदजननी परा नागोजीभट्टी ) अस्य व्याख्या पूर्वश्लोके द्रष्टव्या ॥ ५५ ॥ जगच्चन्द्रचन्द्रिका ) त्वमेव संध्येति ७५ ॥ ५५ ॥ दंशोद्धारः ) अर्धमात्रेति । अर्धमात्रा व्यञ्जनरूपा । विशेषतो ऽचूसंबन्धं विनाऽनुच्चार्या स्फुटमनुच्चार्या । यद्वा अर्धस्था विशेषतो मात्रात्रयात्पृथक्त्वेनानुच्चार्या । यथोक्तम् 'अकारश्च तथोकारो मकारश्चाक्षरत्रयम् । एता मात्राः पुनवराजसतामसाः । निर्गुणा योगिगम्यान्या चार्धमात्रा च संस्थिता । गान्धारी चैव सा ज्ञेया गान्धारस्वरसंश्रया' त्री सविता देवता यस्य ⟨…⟩ व्याहृतिरहिता गायत्री वेदजननी सव्याहृतिका गायत्री । निलस्यापि वेदस्य गायना अध्ययनानधिकाराद्वेदाध्ययनजनकत्वाद्वेदजननी वेदमातृत्वव्यवहारात् । यद्वा वेदाश्च जनाश्च तान्नयं सौख्यं ा वेदजन्यो ब्राह्मयाद्यास्तेषां परा पालयित्री । पृ पालने । पिपर्तीति परा । पचाद्यच् । देवजननीति पाठेऽदितिर्यते विश्वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ५६ ॥ गुप्तवती ) ॥ ५६ ॥ चतुर्धरी ) अन्ते प्रलयसमये अत्सि । भक्षसि । आत्मसात्करोषीत्यर्थः । अतस्त्वं सर्वथा सर्वसंहर्त्रीं ॥ ५६ ॥ शान्तनवी ) इह हि पाठक्रमादर्थक्रमो बलीयानिति सृष्ट्याद्युपक्रम्योच्यते । हे देवि त्वया ब्राह्या शक्त्या सृज्यते उत्पाद्यते । हे देवि त्वया वैष्णव्या शक्त्या एतत् जगत् पाल्यते दुःखाद्रक्ष्यते । हे देवि त्वं रौद्री शक्तिः ⟨…⟩ ' इत्यपि पाठः । 'धार्यते सर्वम्' इत्यपि पाठः । ⟨…⟩ इत्यपि पा॰ । सतो एतत् जगदन्ते अवसाने अत्सि खादसि संहरसि । । [ प्रथमोऽध्यायः १ वस्थापन्नम् एतत् विश्वं वस्तुतस्त्वयैकयापि तदित्थं सर्वदा पुनः पुनः क्रमशः सर्गस्थितिसंहारलक्षणं त्रिविध ह्यायां विश्वमाधेयि(त्येवं) क्रियते त्वयैवेति तात्पर्यम् । व्राह्मीवैष्णवीरौद्रीतिव्यपदेशभेदभिन्नया शक्त्या धार्यते । आत्मशक्त्यामधिकरणनागोजीभट्टी
सर्वं जगत् त्वयैव धार्यते सर्वं ददासीत्यन्वयः ॥ ५६ ॥ अत्सि आत्मसात्करोषि । तैश्च ब्रह्मलिङ्गं दर्शितम् ॥ ५६ । सर्वधारणशक्तिमती त्वमेव । अग्रे एतत्पदानि सर्वपरामर्शकानिजगच्चन्द्रचन्द्रिका
त्वयैतत्पाल्यत इति ॥दंशोद्धारः
॥ ५६ ॥ ७६ ॥ ५६ ॥ विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥गुप्तवती
॥ ५७ ॥ । तथा संहतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५७॥चतुर्धरी
विसृष्टौ सृष्टिकाले । पालने स्थितिकाले ⟨…⟩ हरते जगदन्ते अत्स्यपि । ⟨…⟩ । जगन्मये जगद्रूपिणि । वाहुलकत्वादाम्प्रत्ययः । यद्वा जगति मयन्ते जायन्ते अस्याम् । मय गतौ । अथवा जगति मयो निलयो यशाः । डुमिञ् प्रक्षेपणे इत्यस्य रूपम् ॥ ५७ ॥शान्तनवी
इह जगन्मये इति पाठः । मय गतौ । मयते जानाति ग ⟨…⟩ ा । पचाद्यचि स्त्रियां टाप् । जगतो मया जगन्मया । तत्संबुद्धौ हे जगन्मये हे भुवनज्ञे हे सर्वज्ञे । सर्वे गत्यर्थाः धातवः प्रयोगात् ज्ञानार्थाः । जगन्मयि इति पाठेपि संबुद्ध्यन्तमेव । देव्यानया स्रष्टव्यत्वेन पालनीयत्वेन संहर्तृत्वेन च देवीकर्तृकजगत्कर्मकतत्सर्गादिक्रिया विषयभूताज्जगतो हेतो रागता जगत्सर्गादिव्यापारमुद्दिश्यागता प्रादुर्भूता देवी जगन्मयीत्युच्यते । ‘तत आगतः’ इत्यधिकृत्य ‘मयट्’ इति सूत्रेण हेतुभ्यो मनुष्येभ्यश्च मयट्प्रत्ययः । तत आगत इत्यर्थे जगतो हेतोरागता देवी जगन्मयी । टित्वात् ङीप् ह्रस्वः । अथवा 'तत्प्रकृतवचने मयट्' प्रकृतं प्रस्तुतम् उच्यतेऽस्मिन्निति प्रकृतवचनम् । तदिति प्रथमासामर्थ्यात् प्रकृतवचनेऽभिधेये मयट् । जगत् प्रकृतं प्रस्तुतं कर्तव्यत्वेनोच्यते अस्यां जगन्मयी देवी । अथवा ‘समूहवच’ इति मयट् कर्तव्यानि बहूनि जगति उच्यन्ते अस्यां जगन्मयी तत्संबुद्धौ ह्रस्वः । हे देवि हे जगन्मयि भुवनेशे । अथवा हे जगन्मयि जगन्निर्मातुमागते जग निर्माणकारणादागते त्वम् अस्य जगतः विसृष्टौ विशेषतः सृष्टौ उत्पादने विषये सृष्टिरूपासि । पालने विषये स्थितिरूपासि । तथा अन्तेऽवसाने संहारे विषये संहतिरूपा चासि इत्यन्वयः । सृष्टिस्रष्ट्रोः पालनपालयित्र्योः संहतिसंहर्त्र्योश्चाभेदेनाति शायोक्तिः । देव्याः सर्वात्मकत्वेन वा स्वरूपकथनं ज्ञेयम् । अथच हे देवि जगन्मयि ब्रह्माणि वर्तते इति व्यपदेशमात्रम् । सृष्ट्यादिकं तु त्वमेव तत् त्वमेव च करोषि नाहमिति ⟨…⟩ वतत इति व्यपदेशमात्रम् ।नागोजीभट्टी
त्वयैतत्पाल्यते सृष्ट्यादिक्रियारूपापि नम्रोक्तिरप्यवसेया ॥ ५७ ॥ कानि । तथेति । जगद्रूपे इत्यर्थंकम् । जगन्मये इत्यत्र छान्दसत्वात् त्वमेवेत्याह । विस्पष्टाविति । यत्सम्यन्तानि तत्काललाक्षण-जगच्चन्द्रचन्द्रिका
तथा संहतीति ७७ ॥ ङीविभावः ॥ ५७ ॥दंशोद्धारः
विसृष्टाविति । जगन्मये जगद्रूपे । ५७ ॥ अस्मादेरचि । मयः प्रक्षेपः । जगतो मयोऽस्यामित्यर्थः । मय मयटछित्वात्ङीपि प्राप्ते आर्षत्वादाप् । यद्वा डुमीञ् प्रक्षेपे। हे भुवनज्ञे ॥ ५७ गतावित्यस्माद्वा पचाद्यचि बोध्यम् । गत्यर्थानां ज्ञानार्थत्वात् महाविद्या महामाया महामेधा महास्मृतिः । ॥गुप्तवती
॥ ५८ ॥ महामोहा च भवती महादेवी महासुरी ॥ ५८ ॥चतुर्धरी
महाविद्या महावाक्यलक्षणाविद्या । महती सर्वविषया माया अन्यत्रान्याकारावभासिनी शक्तिर्महामाया । मूलाविद्येति यावत् । महामेधा सकलात्मावधारणक्षमा धीशक्तिरित्यर्थः । स्मृतिः धर्मशास्त्रं ततो महती महास्मृतिः । वेदविद्येतियावत् । महामोहा महान् रागस्तदा (श्रय) रूपत्वात् महामोहा संसारशक्तिः । महादेवी इन्द्रादिलोकपालकर्मस्वरूपा । महासुरी हिरण्याक्षादिस्वरूपा ॥ ५८ ॥शान्तनवी
हे देवि त्वं महती विद्या परब्रह्मगोचरज्ञानरूपासि । हे देवि त्वं महती अविद्या अनिर्वचनीयाविद्या प्रपञ्चपरिज्ञानरूपासि । हे देवि त्वं महती माया अनात्मन्यात्मेतिबुद्धिरात्मन्यप्यनात्मेति बुद्धिर्माया । हे देवि त्वं महामेधा महती धारणावती धीर्बुद्धिः महती अमेधा अधारणावती धीः । हे देवि त्वं महास्मृतिध्यानरूपा महती अस्मृतिः अध्यानरूपा । हे देवि त्वं महामोहा महाममता महाअममता च । हे देवि त्वं भगवती ऐश्वर्यादियुतासि तथा अभगवती अनैश्वर्ययुतासि च । हे देवि त्वं महादेवी महादेवस्य स्त्री । हे देवि त्वं महेश्वरी महतीश्वरी व्यापनस्वभावा । अश्रोतेरा ⟨…⟩ कर्मणि । ७१ मोऽध्यायः १ ] गुप्तवत्यादिसप्तटीकासंवलिता ोपधायाः । अथ च महती विद्या यस्यां सा मुक्तिः । महती माया अविद्या यस्यां सा अमुक्तिः । इत्थं महामेधा महास्मृतिरिष्टदेवतोपासना । महामोहा तृष्णा अस्मृतिर्मूर्च्छा निद्रा च ॥ ५८ ॥नागोजीभट्टी
महाविद्या महावाक्यलक्षणा । महामाया सच्चिदानन्दे आत्मनि संसारित्वरूपानर्थावभासहेतुमूलमहामेधा भगवतः सर्वज्ञत्वशक्तिः । महास्मृतिः विधेः सृष्ट्यनुकूलातीतकल्पगतसकलवस्तुस्मृतिरूपा देवरूपा च । महासंसारस्य मूलकारणरागरूपमोहस्वरूपा । महादेवी सकलदेवशक्तिरूपा । महासुरी हिरण्याक्षादिशक्तिरूपा ॥ ५८ ॥जगच्चन्द्रचन्द्रिका
महामोहेति ॥ ७८ ॥ ५८ ॥दंशोद्धारः
महाविद्येति । महाविद्या ‘तत्त्वमसि’इति महावाक्यजन्या विद्या महती ब्रह्मादिमोहिका मायाऽवि ⟨…⟩ ः । महती मेधा बुद्धिश्च । महती वेदादिविषया स्मृतिश्च । महामोहस्य संसारस्य जनकत्वान्महामोहा महती पालदेवशक्तिश्च । महती देवपराजयकारिणी आसुरीशक्तिश्च । यद्वा महती सुरशक्तिः । तदा महादेवीत्यस्य महादेवस्य ः । महेश्वरीति वा पाठः ॥ ५८ ॥मूलम्
गुप्तवती
कालरात्रिरिति दैनंदिनप्रलयब्रह्मप्रलयमहाप्रलयरूपेति रात्र्यन्तपदत्रयार्थ इत्याहुः । वस्तुतस्तु गमतन्त्रराजे तिथिविशेषेण रात्रीणां तदभिमानिदेवतानां तन्त्रमन्त्राणां चेमानि नामान्युक्तानि । तद्देवतात्रयसमष्टिनिद्राप्रतिपादकत्वेन रात्रिसूक्तं बह्वृचेषु प्रसिद्धम् । सामविधिब्राह्मणे ' 'अथ यः कामयेत पुनर्न प्रत्याजायेयम्' इत्यधिकृत्य पदे' इत्यादिरूपो मन्त्रोऽप्यनुसंधेयत्वेनाम्नातः । स च देवीचन्द्रकलास्तवं चरमश्लोके दीक्षितैर्ज्ञानमोक्षोभयफलकत्वेन तः । हरिवंशेऽप्यस्या विस्तरः । एतद्देवताकत्वादेव रात्रिसूक्तमिति तन्त्रेष्वस्य स्तोत्रस्य व्यवहारः ॥ ५९ ॥चतुर्धरी
प्रकृतिरिति । प्रकृतिर्मूलकारणम् । गुणत्रयं सत्त्वरजस्तमोपलक्षणं विभावयितुमनुवर्तयितुं शीलं । कालो मरणं तदुपलक्षिता रात्रिः । कल्पान्तरात्रिरित्यर्थः । महतः ईश्वरस्य रात्रिर्महारात्रिः । महतः ब्रह्मणो लक्षिता रात्रिरिति यावत् । मोहः अकर्तव्ये कर्तव्यमिति ग्रहः स एव रात्रिरिव रात्रिः बुद्धिमोहकत्वात् मोहरात्रिः रूपा वा । दारुणा दुष्परिहारा ॥ ५९ ॥शान्तनवी
हे देवि त्वं च त्वमेव सर्वस्य प्रकृतिरिति प्रक्रियते सर्वमनया प्रकृतिः सत्त्वरजस्तमःसाम्यावस्था ख्या प्रधानम् । अथ च त्वमेव गुणान् सत्त्वरजस्तमांसि विभावयसि पृथक् कृत्य जगद्रूपेणावस्थापयसि गुणत्रयविभासत्त्वं ज्ञानसुखहेतुः । रजो रागात्मकदुःखहेतुः । तमः आवरकमोहहेतुः । गुणाः प्रकृतिधर्माः । हे देवि त्वमेव काजगत्संहारकारिणी यामभङ्गिनी ( यमभगिनी ) । यत्र प्रलीयते जगत् सा कालरात्रिः । हे देवि त्वमेव महारात्रिः यत्र मुक्तिमगात् । हे देवि त्वमेव दारुणा मोहरात्रिश्चासि । ममतागर्तपातिनी महामायाख्या संसृतिः । 'दंष्ट्राकरामिरुद्रूपातिदारुणा । मोहरात्रिर्मोहतनुजंगत्सूत्रे जगत्करी' ॥ ५९ ॥नागोजीभट्टी
सत्त्वरजस्तमोगुणत्रयैर्विभाव्यते या सर्वस्य जडवर्गस्य प्रकृतिः मूलं प्रधानतत्त्वाख्यं सा त्वमेव । रमाण्वादीनां मूलकारणत्वनिरासः । कालरात्रिरिति ब्रह्मलयोपलक्षिता । महारात्रिः प्रलयरात्रिः । मोहरात्रिः तिमोहगर्तपातिनी । महामायाख्या संसृतिकर्त्री । उक्तं च 'दंष्ट्राकरालकालाभिरुद्रकल्पातिदारुणा । मोहरात्रिर्मोहसूते ( त्रे ) जगत्करी' इति । दारुणत्वं चास्याः ब्रह्मज्ञानाति रिक्तानिवर्त्यत्वेन मोहरात्रिर्निशा च । 'अस्यास्तनुस्तमोद्वारा वसनाशिनी' इति हरिवंशोक्तेः ॥ ५९ ॥जगच्चन्द्रचन्द्रिका
कालरात्रिरिति ॥ ७९ ॥ ५९ ॥दंशोद्धारः
प्रकृतिरिति । कालरात्रिः कल्पान्तरात्रिः । महारात्रिर्महाप्रलयः । मोहरात्रिर्मोहरूपममतागर्तमोहरात्रिः । दारुणा दुष्परिहरत्वात् ॥ ५९ ॥ स्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ६०गुप्तवती
बुद्धिः कारणभूता । बोधो व्यवसायात्मको लक्षणं फलं यस्याः सा ॥ ६० ॥चतुर्धरी
त्वमिति । श्रीः संपत् लक्ष्मीः । ह्रीरिति अकरणीयवैमुख्यं कश्चिदाह । ह्रीरिति मन्त्राक्षरम् । अस्यैव ( ⟨…⟩ ) अमः अप्रत्ययस्याकारलोपेऽनुनासिके सति ह्रींमिति मन्त्राक्षरं भवति । बुद्धिः अन्तःकरणं बोधलक्षणाध्यवसाय। लज्जा कृते करणीये परम् अज्ञानशंकया दुःखम् । पुष्टिरुपचयः । तुष्टिरधिगतादन्यत्रान्यधीशान्तिः विषयज्ञानम् । पकारिणी अनपकारिता ॥ ६० ॥शान्तनवी
हे देवि त्वं श्रीः संपत्तिरूपासि हरिप्रियाप्यसि । हे देवि त्वम् ईश्वरी ईश्वरस्य पत्न्यसि । 'अश्नोतेराशुकर्मणि वरट् चेच्चोपधायाः'इति । जगद्व्यापिनी चासि । हे देवि त्वं ह्रीः असि ‘हींकारो वै प्राणः’ इति श्रुतेः । प्राणभूतासि । ह्रीमिति मकरान्तमव्ययं प्राणवाचि । ह्रीँ इत्यनुनासि ह्रस्वरान्तपाठे तु देवीप्रणवासि इति रहस्यम् । ह्रींत्वमिति तु पाठे लज्जाशब्देन पौनरुक्त्यं स्यात् । हे देवि त्वं बुद्धिरसि चिन्मात्र ब्रह्मरूपासि । हे देवि त्वं बोधलक्षणासि बोधयितव्यापारदर्शनासि । अथवा बोधरूपासि विविधप्रपञ्चविषयविविधावगमरूपासि । हे देवि त्वं लज्जासि व्रीडासि । हे देवि त्वं पुष्टिरसि अवयवोपचितिरसि । हे देवि त्वं तथा ( तेन प्रकारेण ) तुष्टिरसि प्रीतिरसि । हे देवि त्वं शान्तिरूपासि विषयव्यावृत्तिरसि । हे देवि त्वमेव क्षान्तिस्तितिक्षा चासि ॥ ६० ॥नागोजीभट्टी
श्रीः संपत् लक्ष्मीः बीजं च । ईश्वरी ऐश्वर्यशक्तिः कामराजबीजं च । ह्रीः भुवनेशी बीजं च । उभयत्राप्यनुनासिकलोपश्छान्दसः । बोधो निर्णयात्मकज्ञानलक्षणं स्वरूपं ‘यस्यास्तादृशी बुद्धिरन्तःकरणं त्वमेवेत्यर्थः । लज्जेति । अन्तःकरणवृत्तिविशेषः । पुष्टिरुपचयः । तुष्टिरधिगतार्थादन्यत्र तुच्छत्वबुद्धिः । शान्तिः विषयेभ्य इन्द्रियोपरमः । क्षान्तिः सत्यां शक्तौ परापराधसहिष्णुता । एवकारस्त्वमित्यनन्तरं योज्यः ॥ ६० ॥जगच्चन्द्रचन्द्रिका
लज्जा पुष्टिरिति ८० ॥ ६० ॥दंशोद्धारः
त्वं श्रीरिति । ह्रीः स्वत एवाकार्यंतो 'ह्रींकारो वै प्राणः'इति श्रुतेः । यद्वा ह्रींबीजरूपा ॥ ६० खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।गुप्तवती
दशभुजत्वेनेमां स्तौति । खड्गिनीति ॥चतुर्धरी
चापिनी धनुष्मती । बाणः शरः । युधानि यस्याः सा तथा ॥ ६१ ॥शान्तनवी
हे देवि हे चण्डिके त्वं यथा उक्तलक्षण बाणा बाणवती परिघायुधा च सती अत एव घोरा अत्युग्रदर्शना त्यत्र तु 'व्रीह्यादिभ्यश्च'इति इनिः । सर्वत्र 'ऋन्नेभ्यो ङीप्' । घातनः लोहबद्धो लगुडः आयुधं यस्याः सा तथोक्ता । खड्गशूलगदा चक्रिणी चण्डिका देवी भुशुण्डीति वक्ष्यमाणलक्षणासती प्रसीदतीति कर्मण्यण् क्रियां ङीपि च शत्रुमुण्डी । भुजैः शत्रुमुण्डीजगच्चन्द्रचन्द्रिका
शङ्खिनीति ८१ ॥ ६१ ॥दंशोद्धारः
खङ्गिनीति वाणा इति पाठे वाणाः सन्त्यस्या इत्यर्श आद्यच् ॥ ६१ ॥मूलम्
गुप्तवती
परा ब्रह्मादयः । अपराः शक्रादयः ॥ ६२ ॥चतुर्धरी
सौम्या सौम्यवदना ह्लादहेतुत्वात् । अशेषसौम्येभ्यः सकलाह्लादहेतुभ्योऽतिसुन्दरी । सौम्यतर ⟨…⟩ )कारणीत्वात् । पराणामेवानेकब्रह्मायुषां ब्रह्मादीनां परा । ६२ ॥ प्रकृष्टा परमा प्रकृष्टतरा । परमंभर्त्री शक्रादीनामपि शान्तनवी ) हं देवि त्वमेव जगति सौम्यासि अक्रूरा प्रशान्तासि सोमदेवतिकाप्यसि । अथवा शोभना मा ासौ सुमः विष्णुः सुमस्य भावः सौम्यं शोभनलक्ष्मीकत्वं तत् यस्या अस्ति असौ सौम्या । अर्शआदच् । शोभवयुतासि । अथवा उमासहितः सोमः रमापतिः तस्य भावः सौम्यं तद्यस्याः सा सौम्या उमापतित्वयुतासि । त्वमेव सौम्यतरासि । सूते सुधां सोमश्चन्द्रः सोमस्थेयं सुधा सौमी सौमीं सुधामईति सौम्या देवावलिस्त्वं च । ात् यः । तयोर्द्वयोस्त्वमतिशयेन सौम्यासौम्यतरा । 'द्विवचनविभज्योपपदे तरबीयसुनौ' इति द्विवचने उपपदे तसिलादिष्वाकृत्वसुचः' इति पुंवद्भावः । हे देवि त्वम् अशेषसौम्येभ्यः अखिलसुंदरेभ्यः पदार्थेभ्यः तु पार्थतिसुन्दरी असि । सुष्ठु नन्दयतीति सुन्दरी मनोज्ञा मनोरमा । 'सोमदेवतंकं सौम्यः सौम्यं स्यात्सुंदरेऽपि म्योऽक्रूरे बुधे सौम्यः सौम्यः शान्ते प्रयोगतः' । हं देवि त्वमेव परा श्रेष्ठा । हे देवि त्वं पराणां श्रेष्ठानां परमा परमोत्तमा । व्यवस्थया तु श्रेष्ठत्वस्य विवक्षितत्वात् । अन्यथा परेषामिति स्यात् । अथवा परं ब्रह्म अनन्ति पराणः ⟨…⟩ । तेषां मध्ये त्वं परमासि । यद्वा परे चापरे च परापराः । द्वन्द्वे चेति सर्वनामत्वाभावात् सुडाग॰ । तेषां त्वं परमा । अथ हे देवि त्वमेव परमा उत्कृष्टा लक्ष्मीः । अथवा परमः ईश्वरः तस्य श्री त्वमेव पर'ईश्वरी स्वामिनी दुर्गा लोकानां व्यापिका च सा' ॥ ६२ ॥ ४ नागोजीभट्टी ) सौम्या अक्रूरा भक्तेषु । असौम्यतरा दैत्येषु । अशेषसौम्येभ्यः सकलसुन्दरेभ्यस्तु अतिसुः । परेति । इदमुपलक्षणम् । पश्यन्तीमध्यमावैखरीणां परा वीजरूपा च पराणाम् उत्कृष्टानां परमा प्रधानं त्वमेव । परमेश्वरी ॥ ६२ ॥जगच्चन्द्रचन्द्रिका
परावराणामिति ८२ ॥ ६२ ॥दंशोद्धारः
सौम्येति । आह्लादहेतुत्वात् । सौम्यतरा भक्तानामतिमनोहरा स्वर्गादिदेहत्वात् सकलाह्लादतिसुन्दरी । पराणां ब्रह्मादीनां मध्ये परमा उत्कृष्टा । पराणामित्यत्र परशब्दस्योत्कृष्टार्थत्वेन नियमेनाऽवधेरनपेक्षथाभावादसर्वनामत्वान्न सुट् । परा माया मोहनैश्वर्यं यस्याः ॥ ६२ ॥ कंचित्कंचिद्धस्तु सदसद् ⟨…⟩ खिलात्मिके । तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ६३गुप्तवती
॥ ६३ ॥चतुर्धरी
सत् वर्तमाना । असदतीतानागतशक्तिः । स्वभावः सामर्थ्यं वा । यद्वा सन्नित्यमाकाशपरमाण्वादि । तयं पृथिव्यादि यत्किंचिद्वस्तु नाममात्रं तस्य सतोऽसतश्च या शक्तिः सा त्वं तदा किं स्तूयसे । भेदसाध्यतेरित्यर्थः ॥ ६३ ॥शान्तनवी
हे अखिलात्मिके देवि क्वचित् जगति सत् असत् वा यत्र किंचित् वस्तु पदार्थरूपं प्रतीयते तस्य सदसदात्मकस्य या शक्तिः सामर्थ्यं सा त्वमेवासि । अतः परं मया किं स्तूयसे इत्यन्वयः । पदं च पदार्थश्च ताभ्यां णा स्तुतिश्च स्तोता च स्तुत्यं च तत्तदुचितशक्तिश्च त्वमेवेति त्वत्तोन्यत्वाभावाद्भेदनिबन्धना स्तुतिः कथं प्रवर्तनीयेति । इयमेव च परमावधिस्तुतिरतोऽपि का नाम स्तुतिरित्यपरो भावः । अग्न्यादितत्तदौचित्यंतत्तदर्थक्रियाकरी शक्तिद्धात्मधर्मः सामर्थ्यशब्दिता ॥ ६३ ॥नागोजीभट्टी
सत् ब्रह्मवर्गः । असत् जडवर्गः । तस्य सर्वस्य या शक्तिः सा यदा त्वं तदा कथं स्तूयसे इत्यर्थः । थस्तोत्रस्तुत्यतच्छक्तिस्तुतीनां त्वत्तोऽन्यत्वाभाव ⟨…⟩ द्भेदनिबन्धनात्स्तुतिः कथं स्यादिति भावः ॥ ६३ ॥जगच्चन्द्रचन्द्रिका
तस्य सर्वस्येति ८३ ॥ ६३ ॥दंशोद्धारः
॥ ६३ ॥मूलम्
गुप्तवती
॥ ६४ ॥चतुर्धरी
जगत्स्रष्टा ब्रह्माकारेण । जगत्पाता विष्णुरूपेण । जगदत्ति भक्षयति रुद्रात्मना । स तादृशोऽपीयया त्वया निद्रावशं नीतः तादृशीं त्वां स्तोतुं क ईश्वरः समर्थः किं तर्हि न कोपीत्यर्थः ॥ ६४ ॥शान्तनवी
हे देवि त्वां स्तोतुम् इह क ईश्वरः कः समर्थः ऽस्ति न कोपि । तथाहि यया जगत्स्रष्टा उत्पादयिता ।शान्तनवी
हे देवि त्वां स्तोतुम् इह क ईश्वरः कः सम १ ‘जगत्पात्यत्ति’ इत्यपि पाठः र्थोऽस्ति न कोपि । तथाहि यया जगत्स्रष्टा उत्पादायता । ७४ दुर्गासप्तशती । [ प्रथमोऽध्यायः १ लृडन्तोयम् । यद्वा भविष्यदनद्यतने लुडन्तोयम् । यः जगत्पाति रक्षति । भविष्यत्सामीप्ये लट् । यद्वा जगत्पाता इति पाठः भविष्यदनद्यतने लुडन्तोयम् । यः अवसाने जगत् अत्ति संहरति सोपि विष्णुरपि यया योगनिद्रया त्वया देव्या निद्रावशं नीतः निद्राधीनतां गमितः । 'वशा वन्ध्या गत्री वश्या सुता त्री करणी वशा । इच्छायन्त्रणयोः पुंसि प्रभुत्वे च वशः स्मृतः' ॥ ६४ ॥नागोजीभट्टी
स्तुत्यत्वाभावमेवाह । पुनः यया ब्रह्मविष्णुरुद्रात्मना जगत्सृष्टिस्थितिलयकर्तापि निद्रावशं नीतः । प्रापित इत्यर्थः । पाता पालकः । अत्ति स्वस्मिन् लयं प्रापयति । तमोगुणप्रधानमायासंबन्धादेव भगवतः सर्वोपसंहारेण स्वस्वरूपेऽवस्थानमिति भावः ॥ ६४ ॥ ॥जगच्चन्द्रचन्द्रिका
सोपि निद्रेति ८४ ॥ ६४दंशोद्धारः
॥ ६४ ॥मूलम्
गुप्तवती
॥ ६५ ॥चतुर्धरी
विष्णुः पालकः । अहं ब्रह्मा । ईशानो रुद्रः । एते वयं ते त्वया यतः शरीरग्रहणं कारिताः इत्यन्वयः ॥ ६५ ॥शान्तनवी
हे देवि यत्त्वया महामायया अहं ब्रह्मा विष्णुश्च ईशानश्च ते त्रयोपि शरीरग्रहणं कारिताः । शरीरग्राहिणः कारिताः ममतावृताः कृताः अतस्त्वां कः पुमान् स्तोतुं शक्तिमान्भवेत् । न कोपि । यः कोपि शरीरी स त्वां स्तोतुमसमर्थ एव । तदन्यस्तु मुक्तस्त्वद्रूप एव सन् कथं त्वामेव स्तोष्यति त्वं च शरीरिणी स्तुतिश्च स्तुत्यस्तोतृभेदनिबन्धना । अतस्त्वद्विषया स्तुतिः कथं घटेत । साकल्येनेति स्तुत्युपसंहार एव वरमिति भावः ॥ ६५ ॥नागोजीभट्टी
अहं ब्रह्मा शरीरग्रहणं कारिताः । केवलमायिकत्वाच्छरीराणामिति भावः ॥ ६५ ॥जगच्चन्द्रचन्द्रिका
कारितास्ते इति ८५ ॥ ६५ ॥दंशोद्धारः
विष्णुरहमीशानश्च ते त्वया शरीरग्रहणं कारिता इत्यन्वयः ॥ ६५ ॥मूलम्
गुप्तवती
॥ ६६ ॥ ⟨…⟩ वैर् ⟨…⟩ त्म्यैः । ⟨…⟩ रसाधारणैः ॥ ६६ ॥चतुर्धरी
सा अनन्तरोक्तस्वभावा इत्थमेवंविधैः प्रभावैर्माहात्म्यैः । उदारैरसाधारणैः ॥ ६६ ॥शान्तनवी
हे देवि इत्थं वर्णितैः उदारैः दक्षिणैः वा सरलैः वरैः स्वैः स्वात्मीयैः प्रभावैः सामर्थ्यविशेषैः संस्तुता जगन्मोहयन्ती सा त्वम् एतौ इमौ । यद्वा आ इतौ एतौ आगतौ दुराधर्षौ, दुःखेन अभिभवनीयौ मधुकैटभौ नाम असुरौ सुरद्विषौ मोहय अविवेकं प्रापयेत्यन्वयः । 'दक्षिणे सरलोदारौ' ॥ ६६ ॥नागोजीभट्टी
साऽनन्तरोक्तस्वभावा त्वमित्थं मेवंविधैरुदारैरसाधारणैः स्वैः प्रभावैर्माहात्म्यैः संस्तुता एतौ मोहय इत्यर्थः । मोहश्च भगवन्तं प्रति वरदातृरूपः ॥ ६६जगच्चन्द्रचन्द्रिका
मोहयैताविति ॥ ८६ ॥ ॥दंशोद्धारः
॥ ६६ ॥दंशोद्धारः
॥ ६६ ॥मूलम्
गुप्तवती
लघु क्षिप्रम् । बोधश्चेति । भावश्चेति क्वचित्पाठः ॥ ६७ ॥चतुर्धरी
एतौ हन्तुम् । बोधोऽध्यवसायश्चास्य क्रियतामित्यर्थः ॥ ६७ ॥शान्तनवी
हे देवि त्वया जगत्स्वामी अच्युतः दैत्यारिर्विष्णुः लघु शीघ्रं प्रबोधं च उन्निद्रभावं नीयताम् । त्वयासौ मुच्यताम् । किंच एतौ महासुरौ हन्तुम् अस्य अच्युतस्य विष्णोः प्रबोधश्च क्रियताम् । उत्साहानुकूलबुद्ध्युन्मेषश्च क्रियतां रच्यताम् इत्यन्वयः । प्रबोधमिति प्रधाने कर्मणि द्वितीया । अप्रधाने कर्मणि तु नीयतामिति तिङाभिहितत्वात्प्रथमा ॥ ६७ ॥नागोजीभट्टी
प्रबोधं जागरणं पालनोद्यमरूपम् । हन्तुं बोधः प्रवृत्तिः । प्रवृत्तिस्वभावत्वात्तेति भावः । ब्रह्मणः स्रष्टृत्वेन विषवृक्षोऽपीति न्यायेन न हनने प्रवृत्तिः । विष्णूपारि यद्यपि पालनप्राधान्यं तथापि सतो पालनस्य दुष्टहनं विना तदसंभवात् । पालनानुगुणेनैव कदाचिद्धन्तृत्वमपि तस्य नानुपपन्नम् । एवं च भगवत्कृतेऽपि मधुकैटभवधे माणवककर्तृविना तदसंभवात् । पालनानुगुणेनैव कदाचिद्धन्तृत्वमपि तस्य न काध्ययने आचार्येण कार्यमाणे कारितैरिव तत्सामर्थ्यांचरणेन भगवतस्तद्वधविषयकप्रवृत्तिसंपादकत्वेन प्रेरकतया तद्धन्तृत्वं देव्या अपीति बोध्यम् ॥ ६७ ॥ भगवतस्तद्वधविषयकप्रवृत्तिसंपादकत्वेन प्रेरकतया तद्धन्तृत्वं प्रथमोऽध्यायः १ ] गुप्तवत्यादिसप्तटीजगच्चन्द्रचन्द्रिका
पुनरर्धात्मकमिति । पुनः महासुरौ स्वाहा' ८७ ॥ ६७ ॥दंशोद्धारः
प्रबोधमिति । जागरणम् । लघु ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोःगुप्तवती
एवं स्तुतेति । अत्रेदं रहस्यम् । रजस्तमस्वरूपा एवान्तःसत्त्वरजस्तमोरूपा अपीति सात्त्विकादिपदेनैवासां दिरूपिण्येव । अत एव चण्डिकाया महिषासुरहननकाले मधुपानेनारक्तताचतुर्धरी
तामसी निद्राकारेण परिणता अविद्याशक्तिः ययाच्छादितलोकोऽयं पश्यन्नपि न पश्यति' । वेधसा ब्रह्मणा ॥शान्तनवी
तदा तस्मिन् प्रलयकाले तत्र विष्णुनाभिकमले देवी मधुकैटभौ निहन्तुं विष्णोः प्रबोधनार्थाय तस्यैव व्यक्ताजन्मनः प्रकटजननस्य ब्रह्मणः अव्यक्ताजन्मनश्च दर्शने प्रधानात् जन्म यस्य सः अव्यक्तादात्मनः जन्म यस्य वा । चेति द्वन्द्वः । प्राण्यङ्गत्वात् प्राप्तस्यैकवद्भावस्य 'न दधिपयआदीनि' नेत्रास्यनासिकाबाह्वृत्तेन सहिताः अयाः प्राणाः उच्छ्वासनिःश्वास नपथमगमदिति भावः ॥ ६८ ॥नागोजीभट्टी
ऋषिरुवाच । एवं स्तुतेति । निहन्तुं चेत्यर्थः ॥ ६८ ॥जगच्चन्द्रचन्द्रिका
ऋषिश्चेति । ऋषिरुवाच मन्त्रः । तद्यथा । ‘एवं स्तुता तदा देवी तामसी तत्र वेधसा स्वाहा ८९' । श्लोकास्तु पञ्च वा इति तु पुनः वै निश्चयेन पञ्च पञ्चसंख्याकाः श्लोकाः श्लोकरूपा मन्त्राः । तद्यथा विष्णोः प्रबोधेति ॥ ९० ॥ ६८ ॥दंशोद्धारः
एवमिति । तामसी निद्रारूपा ॥ ६८ ॥मूलम्
गुप्तवती
तया रीत्या तामस्यपि योगनिद्रा स्वान्तःस्थितसत्त्वमात्रस्य स्वस्या एव रूपान्तरस्यावशेषाय बाहस्वांशं तमोरूपं निःसारितवतीत्याह । नेत्रास्येति । एतेन देव्या एव तन्त्रेषु मधुकैटभहन्तृत्वव्यवहार उपपद्यते । पुरुषाभ्या सह बाहुयुद्धयोगेन पौरुषरूपेणैव तौ हतवतीति स्थितिः ॥ ६९ ॥चतुर्धरी
नेत्रास्यादिभ्यो विष्णोरित्यनुषज्यते । प्राण्यङ्गत्वेऽपि क्वचिन्न समाहारः समासोऽभिधानात् । क्वचि ⟨…⟩ त्यः क्वचिदेव कल्पित इति न्यायात् । हृदयम् अन्तःकरणम् । उरो वक्षः । हृदयं मन इति वा अन्य आह । हृदयं वक्षः । उरः प्रधानाङ्गं गुह्यमिति । ब्रह्मणो दर्शने चक्षुर्विषये । अव्यक्तादीश्वरात् जन्म यस्य ॥ ६९ ॥शान्तनवी
पूर्वश्लोक एव व्याख्यातास्य श्लोकस्य टीका ॥ ६९ ॥नागोजीभट्टी
नेत्रास्येति । विष्णोरित्यादि । उरो वक्षः । प्राण्यङ्गत्वेऽपि नैकवच्छान्दसत्वात् । अव्यक्तादीश्वरात् जन्म प्रादुर्भावो यस्य तस्य ब्रह्मणः दर्शने चक्षुर्विषयेजगच्चन्द्रचन्द्रिका
निर्गतयेति ९१ ॥ ६९दंशोद्धारः
नेत्रास्येति । पूर्वोक्तस्य विष्णोरि प्राप्ते बहुवचनमार्षम् । लक्षणाहेतुरितिसूत्रे मुखनासिकाभ्यामिति प्रयुज्यते 'ग्रीवाकुक्षिललाटेषु नित्यं स्वेदः प्रशस्यते' । प्राप्ते बहुवचनमार्षम् । लक्षणाहेतुरितिसूत्रे मुखनासिकाभ्यां प्रयुज्यते 'ग्रीवाकुक्षिललाटेषु नित्यं स्वेदः प्रशस्यते' । 'राजह माह तत्र । अस्य निर्देशस्य स्वरूपपरत्वात् रक्षितस्तु उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।गुप्तवती
प्रकृतकर्मानुगुणं विशेष्यमाह ।गुप्तवती
प्रकृतकर्मानुगुणं विशेष्यमाह । जगुप्तवती
प्रकृतकर्मानुगुणं विशेष्यमाह । ज ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩ ⟨…⟩चतुर्धरी
अहिशयनात्सर्पशय्यातः उत्तस्थावित्यन्वयः । स ददृशे च तौ इति चकारात् तौ च तं ददृशाते इत्यन्वयः । कर्मव्यतिहारे आत्मनेपदम् ॥ ७० ॥शान्तनवी
तया निद्रया देव्या मुक्तः परित्यक्तः जगन्नाथः जनार्दनः विष्णुश्च एकार्णवे जगत्येकजल ⟨…⟩ अहिशयनात् शेषनागशयनात्सकाशात् उत्तस्थौ उत्थितवान् । ततः शयनादुत्थाय उत्थानादनन्तरं वा स जनार्दनः तौ मधुकैटभौ ददृशे । तावपि तं ददृशाते । परस्मैपदं बाधित्वा 'कर्तरि कर्मव्यतिहारे' आत्मनेपदम् । विष्णुकर्तृकं दैत्यकर्मकं तावदर्शन व्यतिबभूवे । अथच ताव ⟨…⟩ कर्तृकं विष्णुकर्मकं दर्शनं व्यतिबभूवे । अन्यथा ददर्श इति स्यात् ॥ ७० ॥नागोजीभट्टी
उत्तस्थौ चेति । तया मुक्तस्त्यक्त इत्यर्थः । अहिशयनात् शेषशयनात् सः तौ ददृशे । अर्थातावपि तं ददृशाते इति कर्मव्यतिहारे आत्मनेपदम् ॥ ७० ॥जगच्चन्द्रचन्द्रिका
एकार्णव इति ॥ ९१ ॥ ७० ॥दंशोद्धारः
उत्तस्थाविति । अहिशयनात्सर्पशयनात् । ददृशे । कर्मव्यतिहारे तङ् । तौ च भगवन्तं ददृशाते इत्यर्थः ॥ ७० ॥मूलम्
गुप्तवती
मधुकैटभाविति । अत्रैकाक्षराधिक्यं तु वृत्तचन्द्रोदयादावस्माभिर्बहुधा समाहितम् ॥ ७१ ॥चतुर्धरी
मधुकैटभौ दुरात्मानाविति नवाक्षरेणास्यानुष्टुभः पादात् । वीर्यमुत्साहः । पराक्रमः शक्त्यतिशयः । ब्रह्माणम् अत्तुं ग्रसितुं जनितोद्यमौ आरब्धप्रयत्नौ ॥ ७१ ॥शान्तनवी
कीदृशो दृष्टो जनार्दनेन । मधुश्च कैटभश्च तौ । मन्यतेऽहमेव वीर इति मधुः । कीटस्येव भा यस्य तत् कीटभं कर्णमलं तत्र भवः कैटभः । इह हि पृषोदरादित्वात् भ इत्युत्तरपदलोपो द्रष्टव्यः । भीमसेनो भीम इतिवत् । क्वचिद्वृत्तबन्ध (भङ्ग) मनुसृत्य ततश्च मधुकैटभौ दुरात्मानाविति पाठः । 'युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम्'इति द्वितीयचरणे अतिवीर्यपराक्रमावित्यत्र चतुरक्षरादूर्ध्वं जगणस्य सत्त्वान्न वृत्तभङ्गः । तेन मधुकैटभावित्यत्र भौ 'इति न पठनीयमिलत्यर्थः । पथ्यावक्त्रतया नभौ । (पथ्यावक्त्रवृत्तबन्धो न गृहीतो भवति 'वर्णांदादेर्नसोनश्च सागराद्ये समे गणः । समे त्वङ्घ्यगणो जः स्यात् पथ्यावक्त्रं तवानसौ' ) अन्यथा मधुकैटभौ दुरात्मानाविति नवाक्षरपादत्वेन 'अपि माषं मषं कुर्याच्छन्दोभङ्ग न चाचरेत्' इति छन्दःशास्त्रसमयभङ्गप्रसङ्गः स्यात् । अथवाहुः । 'छन्दोवत् पुराणानि भवन्ति' । अन्यदेवेदं छान्दसं छन्दः । यदभ्यधुस्तद्विदः । 'न्यूनाधिकाक्षरत्वेन यत्र पादः क्वचिद्भवेत् । तद्वैदिकं निरृच्छन्दो मृत्युंजयमनुर्यथा' इति । दुरात्मानौ दुष्टबुद्धी । अतिवीर्यपराक्रमौ अत्युत्कृष्टबलौ अत्युत्कृष्टप्रभावौ अत्युत्कृष्टशक्ती अत्युत्कृष्टाङ्गौ वा । 'वीर्यं बलं प्रभावश्च शक्तियोगो पराक्रमो' । क्रोधरक्तेक्षणौ क्रोधेन रक्ते ईक्षणे ययोस्तौ प्रत्येकं तथोक्तौ ब्रह्माणं हन्तुं जनितोद्यमौ । दुर्विधिना जनितः उत्पादितः उद्यमः उत्थितः यमः कालो ययोस्तौ । यद्वा जननं जनिः । संजाता जनिर्यस्यासौ जनितः । तारकादित्वादितच् । जनितोद्यमौ आसन्नकालाविति यावत् ॥ ७१ ॥नागोजीभट्टी
तौ विशेषयति । मधुकैटभाविति । आद्यपादे नवाक्षरत्वं छान्दसत्वात् । वीर्यमुत्साहः । पराक्रमः शक्त्यतिशायः । अत्तुं ग्रसितुम् । अनेन प्रवृद्धस्य तमसो ऽभिभावकत्वं सूचितम् ॥ ७१ ॥जगच्चन्द्रचन्द्रिका
क्रोधरक्त इति ९३ ॥ ७१ ॥दंशोद्धारः
॥ ७१ ॥मूलम्
गुप्तवती
बाहुप्रहरणो विभुरित्यस्योत्तरं द्वौ श्लोकौ क्वचित्पठ्यते । 'न च तौ युद्धवैमुख्यं शमं वाप्युपजग्मतुः । ततो विद्यामुखालोकसमुद्भूतमहोत्सवः ॥ हरिरूचे वरो मत्तो युवाभ्यां क्रियतामिति । परस्परम्' इति ॥ ७२ ॥ निशम्यैतद्विभोर्वाक्यमवलोक्यचतुर्धरी
पञ्चवर्षसहस्राणि । अत्यन्तसंयोगे द्वितीया । बाहू प्रहरणानि यस्य विष्णोः । विभुः प्रभुः ॥ ७२ ॥शान्तनवी
ततः शयनात्समुत्थाय सः भगवान् ऐश्वर्यादिमान् विभुः व्यापकः हरिः विष्णुः ताभ्यामसुराभ्यां सह युगपद् बाहुप्रहरणः सन् पञ्चवर्षसहस्राणि युयुधे । युध संप्रहारे रे । आत्मनेपदी दिवादिः । बाहव एव प्रहरणानि आयु. १ ‘रक्तेक्षणावत्तुम्’ इति चतुर्धरीस्थः पाठः । प्रथमोऽध्यायः ] गुप्तवत्यादि ⟨…⟩ प्तटीकासंवलिता । ७७ नि यस्यासौ बाहुयुद्धं चकारेत्यर्थः । वर्षाणां सहस्राणि पञ्चेति संख्यायाः शब्दप्राधान्येऽप्यन्वर्थं वर्णानामेव प्राधान्यमिति ल्स्यात्यन्तसंयोगे द्वितीया । पञ्चसहस्राणि वर्षाणि अभिव्याप्य नियुद्धं व्यधादिति भावः ॥ ७२ ॥नागोजीभट्टी
अस्याः टीका पूर्वश्लोकेन सह व्याख्याता ॥ ७२ ॥जगच्चन्द्रचन्द्रिका
पञ्चवर्षेति ॥ ९४ ॥ ७२ ॥दंशोद्धारः
॥ ७२ ॥मूलम्
गुप्तवती
॥ ७३ ॥चतुर्धरी
वरः इष्टोऽर्थः व्रियतां गृह्यताम् । इतीत्यवधारणे ॥ ७३ ॥शान्तनवी
अतिबलोन्मत्तौ महामायाविमोहितौ संतौ तावप्यसुरौ अस्मत्तः वरः वाञ्छितोऽर्थः त्वया ियतां प्रार्थ्यतामिति केशवमुक्तवन्तौ ऊचतुः । अत्यधिकबलेन सामर्थ्येन उन्मत्तौ अधिकमदौ महामायाविमोहितौ युक्तौ प्रापिताविवेकौ । अस्मत्तः आवाभ्याम् । प्रशस्तकेशः केशवः विष्णुः ॥ ७३ ॥नागोजीभट्टी
तावपीति । वर इष्टोर्थः । व्रियतां गृह्यताम् ॥ ७३ ॥जगच्चन्द्रचन्द्रिका
पुनरर्धे तु मन्त्राणां सपञ्चनवतिः स्मृता इति । पुनः अर्धम् अर्धश्लोकात्मको मन्त्रः । न्त्राणां सप्तशतीमन्त्राणां तु पञ्चभिः सहिता नवतिः स्मृता चिन्तिता । तथथा 'उक्तवन्तौ वरोऽस्मत्तो त्रियतामिति शवं स्वाहा ९५' ॥ ७३ ॥दंशोद्धारः
ताविति । अस्मत्तः । आद्यादित्वात्तसिः । ननु पञ्चम्यास्तसिल् अध्यादिभ्यं इति पर्युदासात् महाायाविमोहितावित्यनेन अस्मद्वध्यमेवायं वरयिष्यतीति विवेकाभावः सूचितः ॥ ७३ ॥मूलम्
गुप्तवती
॥ ७४ ॥चतुर्धरी
॥ ७४ ॥शान्तनवी
असुरौ प्रति विष्णुरवोचत् । अथेदानीं चेद्भवन्तौ मे तुष्टौ स्तः तर्हि उभावपि असुरौ मम वध्यौ मया हन्तुमर्हौ । इह 'हनो वा वध च' इति यत् । ण्यति तु घात्यौ भवेतां स्याताम् । अत्र च प्रतिपक्षे विषये किमन्येन वधादपरेण वरेण कृतं स्यात् । वधादितरवरे प्रार्थिते शत्रुशेषप्रसङ्गः स्यात् । तदन्यत्तु वस्तु भगवतो मम प्रार्थितसिद्धमेवेत्याशयादाह । भवतो मया एतावद्धि एतावदेव भवत्कर्मैकमत्कर्तृकं वधलक्षणं वस्तु वृत्तं प्रार्थितं नान्यत् । वाक्ये संधिकार्यमतन्त्रम् । 'एका एकशिरोरुहा त्रिचरणा एकेक्षणा द्विस्तनी' इतिवत् । अथवा वरेणात एतावद्वीति पाठः । अतः एताभ्यां भवद्भ्याम् एतावदेव वधरूपं वस्तु मया वृतं नान्यदिति ॥ ७४ ॥नागोजीभट्टी
श्रीभगवानुवाच । भवेतामिति । अत्र यदि तदेति पूरणीयम् । यदि तुष्टौ तदा तर्हि वध्यौ भवेतामित्यन्वयः । वृतमिति । नपुंसके भावे क्तः । ममेति कर्तुः शेषत्वविवक्षायां षष्ठी ॥ ७४ ॥जगच्चन्द्रचन्द्रिका
भगवानुवाचेति एको मन्त्रः ९६ । अर्धमन्त्रे द्वे इति द्वे अर्धमन्त्रे भवेतामिति श्लोकस्य अर्धश्लोकात्मकौ द्वौ मन्त्रौ स्यातामित्यर्थः । तद्यथा 'भवेतामद्य मे तुष्टौ मम वध्यावुभावपि स्वाहा ९७' । 'किमन्येन वरेणात्र एतावद्धि वृतं मया स्वाहा ९८' । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरात् । नपुंसकप्रयोगश्चिन्त्यः ॥ ७४ ॥दंशोद्धारः
भवेतामिति । अत एतावदिति संहिताया अविवक्षणान्न संधिः । अत एतावदिति पाठः सुगमः ॥ ७४ ॥मूलम्
गुप्तवती
आपोमयं जलमयम् । आपोशनमित्यादौ प्रसिद्धः आपःशब्दोऽपि जलवाचकोऽस्ति । छान्दसमेवेति तु वैयाकरणाः ॥ ७५ ॥चतुर्धरी
इत्युक्त (विद्यया) रीत्या वञ्चिताभ्यां छलिताभ्याम् आपोमयं जलमयम् । अपोभिर्मार्जनं कृत्वेत्यादावापःशब्दस्य सद्भावात् । तथा विलोक्य दृष्ट्वा आपोमयम् अम्मयम् । अथवा आपो जलानि जगत् अमयन् व्याप्नुवन् इति १ ‘वरेणातः’ इत्यपि शान्तनवीव्याख्यातः पाठः ७८ दुर्गासप्त ⟨…⟩ थती । [ प्रथमोऽध्यायः १ विलोक्येत्यन्वयः । यद्वा सर्वं जगत् आप इति विलोक्य तथा अमयम् अहिंसनं यथा भवति तथा भगवान् गदितः । यद्वा सर्वं जगदमयं विष्णुमयं विष्णुमात्रैकशेषम् आपो जलानि विलोक्येत्यन्वयः ॥ ७५ ॥शान्तनवी
तदा असुरवधप्रार्थनाकाले विष्णुना महामायानुकूलेन वञ्चिताभ्यां विप्रलब्धाभ्यां ताभ्यां मधुकैटभाभ्यां सर्वं जगदापोमयं विलोक्य भगवान्कमलेक्षणः पुण्डरीकाक्षः विष्णुरिति गदितः । इति वक्ष्यमाणप्रकारेण उक्तः । 'विप्रलब्धस्तु वञ्चितः' इति । आप्लृ व्याप्तौ । आपः कर्माख्यायामिति आपसृशब्दः सान्तोप्यस्ति । आपोभिर्मार्जनं कुर्वितिवत् । अपांसि कर्मसाधनानि प्रकृतानि उच्यन्ते अस्मिन् जगति तत् आपोमयम् । तत्प्रकृतवचने मयट् । अथवा 'आपः ⟨…⟩ वी भूम्नि' । मय गतौ । अनुदात्तेत्त्वानुबन्धनमात्मनेपदम् । चक्षिङो ङित्त्वात् । क्वचित् अनित्यमिति लङि परस्मैपदम् । आपः कर्यः । जगत्कर्म । आपोमयं जगदित्यत्र नकारस्य श्रुतेन वकारः । सर्वमापोमयं जगत् । सर्वं जगत्कर्म । आपः कर्त्र्यः । अमयन् अगच्छन् व्याप्तवत्य इति विलोक्य ताभ्यां हरिरुक्त इति योजना ॥ ७५ ॥नागोजीभट्टी
ऋषिरुवाच । वञ्चिताभ्यामिति । तदा तस्मिन् समये इति एवं वरप्रार्थनया वञ्चिताभ्यां भगवतीकृतमोहवशात् सर्वं जगत् आपोमयं विलोक्य ताभ्यां भगवान् गदित इत्यर्थः । आपोमयमित्यत्र आपृशब्दसमानादाम्प्रकृतिकादसुन्नतादापःशब्दान्मयट् । 'आपोमयमिदं सर्वमापो मूर्तिः शरीरिणाम्' इतिवत् ॥ ७५ ॥जगच्चन्द्रचन्द्रिका
ऋषिरिति । 'ऋषिरुवाच स्वाहा'इत्येको मन्त्रः ९९ । श्लोकार्धं पुनरिति पुनर्भूयोऽपि श्लोकार्धकम् अर्धश्लोकरूपो मन्त्रः । तद्यथा । 'वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्स्वाहा' १०० । श्लोक इति श्लोकरूपो मन्त्रः । तद्यथा विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥ ७५ ॥दंशोद्धारः
वञ्चिताभ्यामिति । आपोभिर्मार्जनं कुर्यादित्यादौ दृष्ट आपस्शब्दः सकारान्तोऽपि ब्रुवते । कतमेऽपि नपुंसकमाप इति कोशाच्च साधितश्च 'आपः कर्मांख्यायाम्' इत्युणादिसूत्रेणासुन्नन्तः तस्मात्प्राचुर्ये मयट् । यद्वा अमयं विष्णुमयम् । जगदापो विलोक्येत्यर्थः । यद्वा मय हिंसायाम् । अस्मात्पचाद्यचि अमयमहिंसं यथा भवति तथा गदित इति क्रियाविशेषणम् । यद्वा अमयन्निति छेदः । मय गतौ । सर्वं जगत् आपः अनयन् अगच्छन् व्याप्तवत्य इति विलोक्येत्यर्थः । चक्षिङो ङित्वेनानुदात्तेत्त्वप्रयुक्तात्मनेपदस्यानित्यत्वाल्लुङि परस्मैपदम् ॥ ७५ ॥मूलम्
गुप्तवती
॥ ७६ ॥चतुर्धरी
श्लाघ्योऽनुरूपः । उर्वीं पृथिवी यत्र सलिलेन परिप्लुता न तत्र आवां जहि घातयेत्यन्वयः ॥ ७६ ॥शान्तनवी
किं गदितः कमलेक्षणो भगवान् ताभ्याम् । हे विष्णो तव युद्धेन आवाम् असुरौ प्रीतौ स्वः भवावः । हे विष्णो त्वम् आवयोर्मधुकैटभयोः श्लाघ्यः स्तुत्यः मृत्युरन्तकः कालोऽसि । किंतु यत्रोर्वीं भूमिः सलिलेन परिप्लुता नाभूत् तत्र आवां मधुकैटभौ जहि हन्या इति ताभ्यां विष्णुरुक्तः । आवयोर्वधरूपं वरं वाञ्छता मायिना तेन विष्णुना आवाम् असुरौ वञ्चितावभूतां ततो येन नौ वधो न स्यात् स कोऽन्यस्त्वद्वधोपायः । अयमस्ति संप्रति सर्वं जगदापोमयं जलमयम् एव वर्तते । ततश्च । यत्रोर्वी जलमयी न दृश्येत तत्रावयोरसुरयोस्त्वत्कर्तृको (स्मत्कर्मको) वधोऽस्त्विति । एवंचोक्तो हि सर्वापि पृथिवी जलमय्येवेति क्व नौ हनिष्यत्यसावित्यावाभ्याम् असुराभ्यां मायाविभ्यां भगवानपि वञ्चितो भविष्यत्यशुभस्य कालव्यापनास्तीति भावः । आपोमय इत्यत्र आपस् इति सान्तम् । आदोभिर्मार्जनं कुर्यादिति प्रयोगश्च । मृजमृड्भ्यां जपुक् त्युकौ । 'मृत्युः स्त्रीपुंसयो रतौ' । जहि इति हन्तेर्विध्यादौ लोटि 'सेर्ह्यपिच्च' हो ⟨…⟩ न्तेजः । आभीयतयाजस्यासिद्धत्वाद्वे ⟨…⟩ गभावः । वधिः प्रकृत्यन्तरमस्तीति केवलोऽप्य ⟨…⟩ ित वधशब्दः शिष्टप्रयोगतः ॥ ७६ ॥नागोजीभट्टी
किं गदितं तत्राह । आवामिति । न यत्रोर्वीं यत्र वा न सलिलेन परिप्लुता तत्रावां जहीत्यर्थः ॥ ७६ ॥जगच्चन्द्रचन्द्रिका
'आवां जहि न यत्रोर्वी सलिलेन परिप्लुता स्वाहा' १०१ ॥ ७६ ॥दंशोद्धारः
प्रीताविति । त्वन्मृत्युरिति पाठे त्वत् त्वत्तः मृत्युरित्यर्थः ॥ ७६ ॥मूलम्
गुप्तवती
जघने तत्र जलाभावादिति भावः । एतदुत्तरं क्वचिदधिकं पठ्यते । ( 'हत्वा तु भगवान्विष्णुस्तावुभौ मधुकैटभौ । तयोस्तु मेदसा राजन् महीमेतामकल्पयत् । मेदिनीति तदारभ्य संज्ञामाप वसुंधरा । ततो वीतभयो ब्रह्मा १ एतत्पद्यार्थं केवलं चतुर्धरीशान्तनवीभ्यामेव विवृतं न सर्वत्र । जं विविधाः प्रजाः' इत्यादि 'संसाराब्धौ न मज्जति'इत्यन्तं तत्पश्चादेवमषा समुत्पन्नेति श्लोकः । पुराणान्तरे त्वेतदुत्तरं शेषः स्मर्यते । विष्णुना स्वकृतवचनजन्यपातकनिरासाय स्वीयं वचनमङ्गीकृतवतोर्दैत्ययोरुद्धाराय च वनवासेन तपः वा वरदानाम्न्या नद्यास्तीरे मधुकेश्वरकैटभेश्वरनामकं लिङ्गद्वयं प्रतिष्ठितम् । तद्वानवासिकानामकं क्षेत्रं प्रथितमभवदित्यादि । या देव्या इति । इमे व्यधिकरणे षष्ठ्यौ । अस्यास्तामस्या देव्या लक्ष्म्याश्चण्डिका तस्या इत्यर्थः ॥ ७७ ॥चतुर्धरी
तथेत्युक्त्वा तयोर्वचनमङ्गीकृत्य जघने सक्थिद्वयमूलं कृत्वा स्थापयित्वा तयोः शिरसी चक्रेण ने इत्यन्वयः । अत्र स्थलपक्षे ऊर्वोः समाहारः ऊर्वी । अतः जघने अपि ऊर्वीं । अथवा देवत्वस्य पार्थिवत्वात् जघनमपि च्यते ॥ ७७ ॥शान्तनवी
सुमेधा ऋषिः सुरथं प्रति वाक्यमूचिवान् । हे मधुकैटभौ यद्यथा युवाभ्यामगादि तत्तथा न ततोा इत्युक्त्वा शङ्खचक्रगदाभृता भगवता विष्णुना स्वकीये जघने उपस्थादूर्ध्वप्रदेशे तयोरसुरयोः शिरसी कृत्वा निधाय स्थाप्य । वै प्रसिद्धौ । चक्रेण छिन्ने कृते अच्छेदिषातामित्यन्वयः । प्रलयकालजलपूरो भगवतो जघनद्घ्नो जघनादधः ूदिति भगवतो जघनं जलप्लुतं न च । उर्वीं च भवति । पृथिव्यारूढत्वात् । इत्थं विष्णुचक्रोच्छिन्नशिरस्कत्वात्तयोरोः श्लाघ्यमृत्युता च । 'शङ्खश्च चक्रं च गदा च । सेनाङ्गत्वादेकवत् । तच्छङ्खचक्रगदम् आबिभर्ति शङ्खचक्रगदाभृत् तेन । शङ्खश्च चक्रं च शङ्खचक्रं तेन सहिता गदा शङ्खचक्रगदा तां बिभर्ति शङ्खचक्रगदाभृत् तेन । स्त्रीकट्याः पुरोभागो ते इति जघने इत्युपलक्षणम् ॥ ७७ ॥नागोजीभट्टी
ऋषिरुवाच । तथेति पूर्वं वर्तमानकथाभिप्रायेण । ऋषिरुवाचेत्युक्तिः । अत्र भूय उपहाराभिण । वस्तुतः सप्तशतीत्वव्यवहारप्रयोजकसप्तशतमन्त्रसंख्यापूरणीयतया उक्तिः । यथा चेत्तथा कात्यायनीसंमतिकं सर्वान्ते उपपादयिष्यामः । तत्र न यत्रोर्वीत्येवं संपादयन् तयोः शिरसी जघने उपस्थादूर्ध्वं नाभेरधोभागे कृत्वा ण छिन्नवान् ॥ ७७ ॥जगच्चन्द्रचन्द्रिका
पुना ऋषिरिति । पुनः ‘ऋषिरुवाचेत्ययं मन्त्रः १०२’ । श्लोकद्वयं मन्त्रद्वयं भवतीति श्लोकौ द्वौ मन्त्रौ भवेताम् । तदथा तथेत्युक्तवेति १०३ ॥ ७७ ॥दंशोद्धारः
॥ ७७ ॥ मेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥७८॥ ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः॥१॥गुप्तवती
अथात्रोवाचाङ्किता मन्त्रा विचार्यन्ते । ते चांपेक्षानपेक्षाभ्यां सदसद्भावाभ्यां च चतुर्विधाः । सावर्णिरित्यादिः कस्योक्तिरित्याकाङ्क्षायाः सत्त्वादाद्यो मार्कण्डेय उवाचेति मन्त्रोऽपेक्षितोऽस्ति च । स च वैश्यमेकं ददर्श स तमनुवृत्तः । तदुत्तरश्लोकस्य राजोक्तित्वेपि राजोवाचेत्यस्य नापेक्षा । स पृष्टस्तेनेत्यनेनैव तदर्थस्य निबन्धनात् । एवं क्तिकृतव्यवधानात्तदुत्तरश्लोकारम्भे पुनरपि मार्कण्डेय उवाचेत्यस्यापेक्षायां सत्यामपीत्याकर्ण्येति श्लोकस्थेनेतिशब्देन क्तिः क्रोडीकारेण पूर्वप्रक्रान्ताया अनुवृत्त्याः सन्निहितायाश्च मार्कण्डेयोक्तिमध्यपातसंभवेन न तस्य पुनरुल्लेखः । इत्याति श्लोक एव वैश्यः प्रत्युवाचेत्यस्य निबद्धतया तदुत्तरग्रन्थारम्भे वैश्य उवाचेति मन्त्रो नापेक्षित एव । तथाप्यस्ति । एवानन्यगत्या तत्सार्थक्याय तेनैव खोर्थैः स्मर्तव्यो न विद्यमानेनाप्युपायान्तरेणेति नियमः कल्पनीयः । पूर्वं श्लोकर्थदशायामेव बुद्धस्यार्थस्य पुनर्बोधस्यादृष्टार्थता वा 'चतुर्भिरग्निमादत्ते' इति विहितमन्त्रेषु द्वितीयादिमन्त्रार्थबोधस्येव म् । तन्त्रान्तरपक्षे त्विह वैश्य उवाचेति मन्त्रो नास्त्येवेति वक्ष्यमाणत्वान्न तत्पक्षे नियमादृष्टादिकुदृष्टिः । ततो रानित्याद्युवाचषट्कं च स्थानमपेक्षितमेवास्ति । ततो ब्रह्मोवाचेति नातीवापेक्षितम् । तदुत्तरमृष्यादित्रयमपेक्षितमेवास्ति । आवां जहीत्यर्धारम्भे मधुकैटभावूचतुरित्यपेक्षितमपि कैश्चित्पठ्यमानमपि ताभ्यां गदित इत्यनेन गतार्थत्वान्नास्ति । ⟨…⟩ ऋषिरुवाचेति तु नातीवापेक्षितम् । ऋषिवाक्यस्यातीव सन्निहितत्वेनेति गदित इत्यन्वितेनेतिशब्देन तत्क्रोडीकार ात् । अतएव यामलपाठेऽयं मन्त्रो नास्तीति दिक् ॥ ७८ ॥ ॥ इति श्रीभास्कररायोन्नीतायां गुप्तवत्यां सप्तशती व्याख्याने प्रथमोऽध्यायः ॥ १ ॥चतुर्धरी
उपसंहरति एवमिति । प्रभावं प्रकृष्टं भवनम् । स्वेच्छाकृतं जन्मेति यावत् । भूयः पुनः ते तुभ्यम् ८ ॥ ॥ इति श्रीचतुर्धरीटीकायां मधुकैटभवधः प्रथमो ऽध्यायः ॥ १ ॥शान्तनवी
एवंप्रकारेण ब्रह्मणात्मभुवा स्वयमात्मना संस्तुता एषा देवी समुत्पन्ना देवकार्यार्थं प्रादुरभूत् । हे राजन् सुरथ त्वं भूयः पुनः भूयिष्ठं यथा भवति तथा च अस्याः देव्याः प्रभावं प्रादुर्भावं सामर्थ्यं च शृणु आकर्णय। भूयस्ते वदामि । अत्र सुमेधानाम ऋषिः ॥ ७८ ॥ ॥ इति शान्तनवीटीकायां मधुकैटभवधः प्रथमोऽध्यायः ॥ १ ॥नागोजीभट्टी
एतेन भगवद्देहस्य शुद्धमायिकत्वेनापाञ्चभौतिकतया जघने मारणेऽपि सलिलप्लुतस्वभावविशि ⟨…⟩ व्यां प्रार्थितस्य वध्यस्यावृत्तिरिति परास्तम् । उपसंहरति । एवमेवेति । समुत्पन्ना प्रादुर्भूता । अस्या देव्या इति अधिकरणे ⟨…⟩ । अस्याः तामस्याः मूलभूता या त्रिगुणा महालक्ष्मीः तस्या इत्यर्थः । अत एव तुशब्दसंगतिः । भूयः प्रभावं पुनः प्रादुर्भावम् । भूय इत्युक्तिस्तु तामस्यास्तस्या अंशाभेदात् पूर्वोक्तप्रभावोपि तस्या एव इति ध्वनयितुम् । यद्वा प्राधानिकरहस्योक्त आद्यचतुर्भुजप्रादुर्भावापेक्षया मध्यमचरित्रवक्ष्यमाणाष्टादशभुजाप्रादुर्भावस्य पुनस्त्वमादाय यदुक्तिः । तदुक्तं लक्ष्मीतन्त्रे । 'योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया । महाकाल्यास्तनुं विद्धि तां मां देवीं सनातनीम् । मधुकैटभनाशार्थमहितौ च तदा तया । जज्ञाते वरलाभेन देवदेवेन विष्णुना । एषा सा वैष्णवी माया महाकाली दुरत्यया । स्तुत्या वशीकृता कुर्याद् दिशः स्तोतुश्चराचरम्' इति । स्तुता विश्वेश्वर्यादिसूक्तरूपया । तदुक्तम् । 'विश्वेश्वर्यादिकं सूक्तं दृष्टं तद्ब्रह्मणा तदा । स्तुतये योगनिद्रायाः समं देव्याः पुरंदरः । अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि । हिताय सर्वभूतानां धार्यते ब्रह्मवादिभिः ।' इति विश्वेश्वर्यादिसूक्तमेव रात्रिसूक्तमिति व्यवह्रियते । कालरात्रिर्महारात्रिरिति तत्र रात्रिपदाभ्यासादिति बोध्यम् । विश्वेश्वर्यापदेनापक्रमात् विश्वेश्वरीसूक्तमपि ७८ । समासौ सावर्णेः कः प्रकाशो यत्र तादृशे मन्वन्तरे तद्वर्णने इत्यर्थः ॥ ॥ इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृतसप्तशतीव्याख्याने प्रथमो ऽध्यायः ॥ १ ॥जगच्चन्द्रचन्द्रिका
एवमंषेति १०४ । 'श्लोकानामष्टसप्तत्याश्चतुर्भिरधिकं शतम् । उवाचवचनैः सार्धं विभागे प्रथमे मतः' इति । श्लोकानां सप्तशतीश्लोकमन्त्राणां अष्टशतत्याः अष्टाधिकायाः सप्ततेः । द्विन्यूनाया अशीतेरित्यर्थः । उवाचवचनः उवाच इति वाक्यकथनेः सार्धं साकं चतुर्भिरधिकं शतं प्रथमेऽध्याये विभागे विभाजने मतः । संमत इत्यर्थः । 'मार्कण्डेयद्वयं वैश्यद्वयं राजत्रयं ततः । ऋषिपञ्चकमुद्दिष्टं भगवानेक एव तु । व ⟨…⟩ ैकं तु चतुर्विंशतिरर्धमन्त्राः प्रकीर्तिताः' इति । मार्कण्डेयद्वयमिति मार्कण्डेय उवाचेति द्वौ मन्त्रौ । वैश्यद्वयमिति वैश्य उवाचेति द्वौ मन्त्रौ । राजत्रयं तत इति राजोवाचेति त्रयो मन्त्राः । ऋषिपञ्चकमुद्दिष्टमिति ऋषिरुवाचेति पञ्च मन्त्रा उद्दिष्टाः । भगवानेक एव त्विति तु पुनः भगवानुवाचेति एको मन्त्रः । ब्रह्मैकमिति ब्रह्मोवाचेति एको मन्त्रः । ऊनचतुर्विंशत्यर्धमन्त्राः प्रकीर्तिता इति तु पुनः चतुर्विंशतिसंख्याका अर्धमन्त्रा अर्धश्लोकरूपा मन्त्राः । पादद्वयात्मका मन्त्रा इत्यर्थः । प्रकीर्तिताः । 'उवाचपदमध्ये तु श्लोकद्वादशकेषु च' इति उवाचपदं मध्ये येषां ते उवाचपदमध्यास्तेषु एतादृशेषु श्लोकानां पद्यानां द्वादशकानि तेषु । तथाहि इत्याकर्ण्य वचस्तस्य इति श्लोकस्य अर्धद्वयमध्यवर्ती वैश्य उवाचेत्येको मन्त्र इत्यर्थः । श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ भिन्नावित्यर्थः । एवं राजोवाचेत्यादिका मन्त्रा पूर्ववत् बोध्याः । तथाहि । कथं ते किंन्विति श्लोकस्यार्धद्वयमध्यवर्ती राजोवाचेत्येको मन्त्रः । श्लोकस्यार्धद्वयात्मकौ द्वौ मन्त्रौ भिन्नावित्यर्थः । तेषु किं भवत इति श्लोकस्य अर्धद्वयमध्यवर्ती वैश्य उवाचेति एको मन्त्रः । श्लोकस्यार्धद्वयात्मको मन्त्रावित्यर्थः । करोमि किं यदिति मन्त्रस्यार्धद्वयमध्यवर्ती मार्कण्डेय उवाचेत्ययं मन्त्रः । श्लोकस्यार्धद्वयात्मको मन्त्रौ बोध्यौ । उपविष्टौ कथा इति श्लोकस्यार्धद्वयमध्यवर्ती राजोवाचेत्ययं मन्त्रः । श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ भवतः । ममास्य चेति श्लोकस्यार्धद्वयमध्यवर्ती ऋषिरुवाचेत्ययं मन्त्रः । श्लोकस्यार्धद्वयात्मको मन्त्रौ बोध्यौ । संसारबन्धेति श्लोकस्यार्धद्वयमध्यवर्ती राजोवाचेत्ययं मन्त्रः श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ ज्ञातव्यौ । तत्सर्वं श्रोतुमिच्छामीति श्लोकस्यार्धद्वयमध्यवर्ती ऋषिरुवाचेत्ययं मन्त्रः । एतस्यैव श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ स्तः । विबोधनार्थायेति श्लोकस्यार्धद्वयमध्यवर्ती ⟨…⟩ ोवाचेत्ययं मन्त्रः । एतच्छ्लोकस्यार्धद्वयात्मको मन्त्रौ भवतः । बोधश्च क्रियतामिति श्लोकस्यार्धद्वयमध्यवर्ती ऋषिरुवाचेत्ययं मन्त्रः । एतस्यैव श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ स्तः । उक्तवन्ताविति श्लोकस्यार्धद्वयमध्यवर्ती भगवानुवाचेत्ययं मन्त्रः । एतस्यैव श्लोकस्यार्धद्वयात्मको मन्त्रौ भवतः । किमन्येनेति श्लोकस्यार्धद्वयमध्यवर्ती ऋषिरुवाचेत्ययं मन्त्रः । एतस्यैव श्लोकस्यार्धद्वयात्मको द्वौ मन्त्रौ स्तः । अध्यायादौ मार्कण्डेय उ ⟨…⟩ चेत्येको मन्त्रः । विलोक्य ताभ्यामिति श्लोकस्यान्ते ऋषिरुत्वाचेत्यपरो मन्त्रः ॥ ७८ ॥ ॥ इति श्रीकूर्माचलेन्द्रराजर्षिवर्यश्रीज्ञानचन्द्रात्मजश्रीकुमारजगच्चन्द्राश्रितसोमयाजिपुरोहितबलभद्रपण्डितगोत्रापत्यहर्षदेवात्मजावसथ्यभगीरथविरचितानां कराच्गोविन्दकृतसप्तशतीमन्त्रहोमविभागकारिकाणां प्रथमाध्यायस्य जगच्चन्द्रचन्द्रिकाह्वयटीकायां प्रथमोऽध्यायः ॥ १ ॥दंशोद्धारः
सावर्णिरेव सावर्णिकः । बाह्वादेराकृतिगणत्वादिञ् । तस्येदं सावर्णिकम् । यद्वा सावर्णिकमिति अभिधत्ते । यद्वा सावर्णौ भवं सावर्णिकम् । अध्यात्मादित्वाट्ठञ् ॥ ७८ ॥ ॥ इति श्रीमहुल्लोपनामडुण्ढिराजभट्टसूरिसूनुराजारामविरचिते सप्तशतीदंशोद्धारे प्रथमोऽध्यायः ॥ १ ॥ द्वितीयोऽध्यायः २. ऋषिरुवाच । देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा । महिषेऽसुराणामधिपे देवानां च पुरंदरे ॥ १ ॥गुप्तवती
अथ तन्त्रे नवभिः श्लोकैर्द्वितीयाद्यध्यायत्रयमन्त्रविभजनपरो द्वितीयः पटलः।“ईश्वर उवाच । द्वितीये ऋषिवागष्ट षष्टिः श्लोका इति क्रमः । ततस्तृतीयेऽध्याये तु ऋषिः प्रोवाच देशिके । पञ्चत्रिंशत्ततः श्लोकमन्त्रा ज्ञेया वरानने । देव्युवाच ततः श्लोकमन्त्र एको महेश्वरि । ऋषिरुक्तिः ः पुनः श्लोकमन्त्राः पञ्च सनातनाः । एकमाहुतयस्तत्र चत्वारिं श्चतुर्युताः ।” द्वितीयेऽध्याये ऋषिरुवाचेत्येको मन्त्रः । देवासुरमित्यादयोऽष्टषष्टिः श्लोकमन्त्राः । इत्येकोनसप्ततिः । तृतीयं तु ऋषिवाक्यद्वयं देव्युवाचेत्येकः एकचत्वारिंशच्छ्लोकमन्त्रा इति चतुश्चत्वारिंशत् । देशिके इति देव्या एव गुरुत्वेन संबोधनम् । ‘चतुर्थे त्वृषिवाङ्मन्त्रः श्लोकाः षड्विंशतिस्ततः । पुनस्तथैव ऋग्युक्तिः श्लोकौ द्वौ मन्त्ररूपिणौ । एवं स्तुतेति मन्त्रोऽया मतिगुह्योऽति पावनः । देव्युक्तिर् ⟨…⟩ यतो मन्त्रः कथितः षोडशाक्षरः । देवा ऊचुरिति प्रोच्य भगवत्या कृतं वदेत् । मन्त्रोऽयं शतवर्णाढ्यो द्वादशोत्तरयुक् पुनः । अथो ऋषिरुवाचेति मन्त्रश्चेति प्रसादिता । इति श्लोकास्तु चत्वारो मन्त्रास्तावन्त एव ते' । श्लोकौ द्वावित्युक्तयोर्मध्ये प्रथमस्य प्रशंसामात्रमेव स्तुतेति । त्रियतामित्यर्धश्लोकमन्त्रोत्तरम् । 'ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता । कर्तव्यमपरं यच्च दुष्करं तन्निवेद्यताम्' इति श्लोकः क्वचित्पठ्यते स प्रकृततन्त्रानुसारिभिः नादर्तव्य इति ध्वनयन्नाह । देवा ऊचुरिति । भगवत्या कृतं सर्वम् इत्यारभ्याम्बिके इत्यन्तोऽध्यष्टश्लोकात्मक एव मन्त्रो द्वादशाधिकशताक्षर इत्युक्त्या मन्त्रोऽयमित्येकवचनेन च प्रतीयते । प्रार्थनारूपार्थैक्याल्लक्षणतोऽपि युज्यते । परंतु पटलान्ते वक्ष्यमाणाभ्यामंतदध्यायस्वमन्त्रेयत्तातद्विवेचनान्यां सह विरोधापत्त्यैकत्वमविवक्षितम् । तावन्त एव ते इत्यत्र तच्छब्देनेषद्व्यवधानेनोक्तानध्यष्टश्लोकाननू ⟨…⟩ तावन्त एवेत्यनेन चतुर्मन्त्रात्मकता विधीयते । अन्यथा तस्य वैयर्थ्यापत्तेः । अतश्चैकोर्धश्लोकमन्त्रत्रयः श्लोकमन्त्रा इति सिद्ध्यति । स च यद्यपि काण्वोक्तरीत्या प्रथमार्धमात्रस्यापि निराकाङ्क्षत्वात्स एवेति सुवचम् । तथाप्युत्तरश्लोकमन्त्रद्वयेन नैराकांक्ष्यसामञ्जस्यम् । अतश्चरमस्यैतदर्धस्य पूर्वोक्तेनौत्सर्गिकन्यायेन मन्त्रत्वमास्थेयम् । यश्च मर्त्यं इति मन्त्रस्य तु सार्धश्लोकत्वे सत्यैवैकवाक्यत्वस्य संभवादेवागत्याध्याहारादिभिः पूर्णता स्वी स्वीकार्या । अथवा वित्तार्धिविभवैरित्येतन्नैकं पदं किंतु वित्तसत्यैवैकवाक्यत्वस्य संभवादेवागत्याध्याहारादिभिः पूर्णता स्वीकार्या । अथवा वित्तार्धिविभवैरित्येतन्नैकं पदं किंतु वित्तकार्येति पदद्वयं भिन्नम् । वित्ता तत्संनिधिज्ञानविषयीभूता सती संपदां विभवैर्ऋद्धिं समर्धयेत्यर्थः । ऋध्नोत्यादेर्विकरणव्यत्ययच्छन्दसः । एतेन धनवित्तपदयोः पौनरुक्त्यमपि समाहितं भवति । वस्तुतस्तु मन्त्रचतुष्टयस्यैकसंख्यावशीकारणैकस्य कथनादेव ज्ञापकान्मन्त्रार्थौऽत्र परस्पराकाङ्क्षानिष्पत्त्ये एक एवानुसंधेयः । आहुतिमात्रं तु भिद्यत इत्यन्यत्रोत्सर्गसिद्धस्यै॰ कार्थबोधकत्वैकाहुतिकरणत्वपर्या ⟨…⟩ स्यधिकरणतयोः सामानाधिकरण्यस्यापवाद इति न कोपि दोषः । 'श्लोकाश्चतुर्थेऽध्याये तु षट्त्रिंशत्परमेश्वरि । अथ (र्धे) मन्त्रद्वयेनैव चत्वारिंशद्द्वियुक् पुनः'। देवानां देव्याश्चैकैकोक्तिः । ऋषिवाक्यत्रयं द्वावर्धश्लोकौ पञ्चत्रिंशच्छ्लोकमन्त्रा इति द्विचत्वारिंशन्मन्त्रा इत्यर्थः ।'एव मध्यचारित्रस्य पञ्चाशाच्च शतोत्तरम् । तथा पञ्चयुतं मन्त्रा महा॰ लक्ष्म्या विभेदतः' । महालक्ष्म्या इति द्वितीयचरित्रदेवतोक्तिः । एवमुत्तरत्र सरस्वत्यादिदेवतानामध्यायभेदेन तत्रतत्र कथनात्पूर्वाध्याये महाकाल्येव पारिशेषाद्देवता । द्वादशत्रयोदशाध्याययोरिह तन्त्रे देवताया अकथनाच्चामुण्डैव सामान्यप्राप्ता॰ देवता चण्डिका वा । तृतीयचरित्रत्वाविशेषात् महासरस्वत्येव वा देवतेति ध्येयम् । इति श्रीगुप्तवत्यां कात्यायनीतन्त्रस्थैकवि॰ शपटलस्य व्याख्या ॥ ॥ अथैतत्संग्रहश्लोकाः सप्त । 'ऋषिर्वागष्टषष्टिः स्युः श्लोका देवासुरादयः । एवं द्वितीयकेऽध्याये मन्त्रा एकोनसप्ततिः । ऋषिर्निहन्यमानायाः पञ्चत्रिंशत्तु मन्त्रकाः । देव्योक्तिर्गर्जगर्जेतिश्लोक एव ऋषेर्वचः । पञ्च श्लोका इति चतुश्चत्वारिंशत्तृतीयकं । ऋषिः शक्रादयः श्लोकाः षड्विंशतिरथर्षिवाक् । श्लोकद्वयमथो देवी श्लोकार्ध नियतामिति । देवा ऊं॰ चुत्रयः श्लोका भगवत्या कृतादिकाः । वृद्ध्येऽस्मत्प्रसन्ना त्वमित्यर्धश्लोकको मनुः । ऋषेर्वचश्चतुःश्लोकीत्यध्याये तु चतुर्थके । मन्त्रा द्विचत्वारिंशत्स्युरध्यायत्रितयात्मनः । मध्यमस्य चरित्रस्य पञ्चपञ्चाशदुत्तराः । शतं मन्त्रास्तेषु देव्या वचसी द्वे ऋषेस्तु पद्। देवानामेकमर्धं द्वे अन्ये श्लोका इति स्थितिः ॥ २५ ॥' मध्यमचारित्रस्य विष्णुर्ऋषिः । महालक्ष्मीर्देवता । उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । महालक्ष्मीप्रीत्यर्थे जपे विनियोगः । अथ मन्त्रव्याख्या । विप्रचित्तेर्दैत्यस्य पुत्री माहिष्मतीनाम्नी सिन्धुद्वीपाख्यमृषिं तपस्यन्तं महिषिंवेषेणाभीषयत् । ततस्तेन महिष्येव भवेति शप्ता सती तस्यैवर्षेः शुक्रं दैत्यकन्यादर्शनेन स्कन्नं पीत्वा महिषासुराख्यं दैत्यं प्रासूतेति कथा वराहपुराणे देवीभागवते च विस्तरेण वर्णिता तत एवावगन्तव्या ॥ देवासुरं तदुभयसमाहाररूपम् ॥ १ ॥चतुर्धरी
भूयः शृण्विति अभिहितं तत्रेतिहासमवतारयन् ऋषिरुवाचेति । देवासुरमिति । देवाश्चासुराश्च प्रह्तारो यस्मिंस्तदेवासुरम् । देवासुराणामिदमिति वा परपदवृद्धिः । अब्दशतमिति । अत्यन्तसंयोगे द्वितीया । महिषे रम्भासुर