तृतीयोऽध्यायः
मूलम्
नागोजीभट्टी
देव्या इति । चोप्यर्थे । तुतुषुस्तुष्टाः ॥६८॥ इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृतं सप्तश तीव्याख्याने द्वितीयोऽध्यायः ॥ २ ॥जगच्चन्द्रचन्द्रिका
देव्या गणैरिति ६९ ॥ ६८ ॥ ॥ इति श्रीकूर्माचलेन्द्रराजर्षिवर्यश्रीज्ञानचन्द्रात्मजश्रीकुमारजगच्चन्द्राश्रितसोमयाजिपुरोहितबलभद्रपण्डितगं गोत्रापत्यहर्षदेवात्मजावसथिभगीरथविरचिता कण्वगोविन्दकृतसप्तशतीमन्त्रहोमविभागकारिकाणां द्वितीयाध्यायस्य जगन्नन्दचन्द्रिकाख्यटीका संपूर्णा ॥ २ ॥दंशोद्धारः
देव्या इति । एषां तुतुषुः तुष्टा बभूवुः । तुष्टवुरिति पाठे एतानीत्यर्थे शेषे षष्ठी । युद्धमित्यध्याहारः वा ॥ ६८ ॥ ॥ इति श्रीमद्दुल्लोपनामदुण्ढिराजभट्टसूरिसूनुराजारामविरचिते सप्तशतीदंशोद्धारे द्वितीयोऽध्यायः ॥ २ ॥मूलम्
गुप्तवती
अथ पूर्वाध्यायान्त्यश्लोकान्तमृष्युक्तेरनुवृत्तिसत्त्वेऽपि पुनरेतदध्यायारम्भे ऋषिरुवाचेति कथनमध्यायस माभिबोधकवाक्यस्य सूताद्युक्तिरूपस्य व्यवधायकतया तस्या उत्तरत्राननुवृत्त्यभिप्रायेण । अत एव यामलादितन्त्रे समाप्ति वाक्यस्यापि स्वातन्त्र्येण मन्त्रान्तरत्वकथनमुपपद्यते । ततस्त्रिदशाः कथयामासुरित्यनेनैव गतार्थत्वात्सूर्येन्द्राग्न्यनिलेन्दु नामिति श्लोकत्रयारम्भे देवा ऊचुरित्यनपेक्षितत्वादेव नास्ति । तदुत्तरमृषिरुवाचेत्यपेक्षितमपि नैतत्तन्त्रसंमतमिति मण्डू क ⟨…⟩ ्यैवाध्यायप्रारम्भस्थस्यासमाप्त्यनुकर्षः । तन्त्रान्तरेषु सप्तश्लोकोत्तरम् ऋषिरिति पश्यत एव । एवमष्टमे 'भक्ष्यमाणा स्तवया चोग्रा इत्यर्धादुत्तरं दशमं श्लोकत्रयोत्तरं चापेक्षितस्य तत्रान्तरे सतोप्यृषिमन्त्रस्य प्रकृततन्त्रेऽभावादियमेव यत्र गति रिति दिक् ॥ १ ॥ १ ॥चतुर्धरी
॥शान्तनवी
अथ महिषासुरस्य सेनानीः चिक्षुरः चिक्षुरसंज्ञकः महासुरः तत्सैन्यं तस्य महिषासुरस्य सैन्यं व्या निहन्यमानं नितरां हन्यमानम् अवलोक्य वीक्ष्य कोपाद्योद्धुमम्बिकां देवीं ययौ जगाम । निहन्यमानमिति 'वर्तमान सामीप्ये वर्तमानवद्वा' इति भूते लट् । निहतमित्यर्थः ॥ १ ॥नागोजीभट्टी
ऋषिरुवाच । निहन्यमानमिति ॥ १ ॥जगच्चन्द्रचन्द्रिका
अथ तृतीयाध्यायस्य सप्तशतीमन्त्रहोमविभाग उच्यते । आदौ ऋषिरुवाचंक इति । आदौ अध्यायस्य पूर्वम् ऋषिरुवाच इति एको मन्त्रो भवेत् । 'ऋषिरुवाच स्वाहा १ ।' पञ्चत्रिंशत्ततः परम् । निहन्यमानाद्याः श्लोका मुखरागाकुलाक्षरम् । इत्यन्ता इति । ततः परम् ऋषिरुवाचेत्यनन्तरं निहन्यमान आद्यो येषां ते निहन्यमानाद्याः मुखरागाकुलाक्षरमित्यन्ता एतत्पर्यन्ताः श्लोकाः श्लोकरूपा मन्त्राः पञ्च अधिका त्रिंशत् पञ्चत्रिंशत् । द ⟨…⟩ दश अधिका विंशतिरागाकुलाक्षरमित्यन्ता एतत्पर्यन्ताः श्लोकाः श्लोकरूपा मन्त्राः पञ्च अधिका त्रिंशत पञ्चत्रिंशत् । ⟨…⟩ ऋषिरुवाचेत्यनन्तरं निहन्यमान आद्यो येषां ते निहन्यमानाद्याः मुखरागाकुलाक्षरमित्यन्ता एतत्पर्यन्ताः श्लोकाः श्लोकरूपा मन्त्राः पञ्च अधिका त्रिंशत् पञ्चत्रिंशत् । द ⟨…⟩ दश अधिका विंशतिरित्यर्थः । वर्तंते इति शेषः । तथाहि ऋषिरुवाच १ । निहन्यमानमिति २ ॥ १ ॥दंशोद्धारः
॥ १ ॥मूलम्
गुप्तवती
॥ २ ॥चतुर्धरी
यथा मेरुगिरेः शृङ्गमिति अभूतोपमा ॥ २ ॥शान्तनवी
स चिक्षुराख्यः असुरः समरे संग्रामे शरवर्षेण निरन्तरं प्रयुक्तबाणपातनेन देवीं ववर्ष छादयामास । कः केम कमिव । तोयं ददातीति तोयदः मेघः तोयवर्षेण संततप्रबद्धपाथः प्रथितपातनेन मेरुगिरेः हेमाद्रेः शृङ्गं यथा शृङ्ग॰ मिव । 'न भिन्ने वचने लिङ्गे न हीनाधिकतापि वां । उपमादूषणायालं यत्रोद्वेगो न धीमताम् । क्रियावाचित्वमाख्यातमेकोऽ श्रार्थैः प्रदर्शितः । प्रयोगतोऽनुसर्तव्या अनेकार्थां हि धावतः' । यद्वा यथातथैवैव साम्ये ॥ २ ॥नागोजीभट्टी
॥ २ ॥ ३ ॥ २ ॥जगच्चन्द्रचन्द्रिका
स देवीमितिदंशोद्धारः
स देवीमिति । यथा मेरुगिरेः शृङ्गमित्यभूतोपमा । मेघमण्डलस्य मेरोरधो विद्यमानत्वात् ॥ ३ ॥नागोजीभट्टी
सिंहमिति । सव्ये वामे ॥ ६ ॥जगच्चन्द्रचन्द्रिका
सिंहमाहत्येति ७ ॥ ६ ॥दंशोद्धारः
सिंहमिति । 'आङो यमहनः' इत्यात्मनेपदं तु न । अकर्मकात्स्वाङ्गकर्मकादिति वचनात् । सव्ये वामे ॥ ६ ॥मूलम्
गुप्तवती
पफाल विशीर्णः ॥ ७ ॥चतुर्धरी
तस्या भुजमित्यन्वयः । पफाल अभज्यतेत्यर्थः । त्रिफला विशरण इत्यस्य रूपम् । हे नृपनन्दन । यद्वा नन्दयतीति नन्दः । हे नृपनन्द । न पफाल आत्मक्रियानिष्पत्तिं नाकरोत् । एवं च फल निष्पत्तावित्यस्मादेव रूपम् । तच्छूलमिति पाठः । 'अस्त्री शूलं ह ⟨…⟩ गायुधम्' इति द्वि लिङ्गत्वाभिधानात् ॥ ७ ॥शान्तनवी
हे राजन् सुरथ निशामयेति तस्याः देव्याः वामभुजं प्राप्य चिक्षुराख्यमहासुरप्रयुक्तः खड्गः मण्डलाग्रः पफाल । ञिफला विशरणे । विशशार चूर्णीबिभूव विशीर्णोऽभूत् । ततः खङ्गभङ्गानन्तरं कोपात् अरुणलोचन रक्तलोचनः सः चिक्षुराख्योऽसुरः शूलं त्रिशूलम् आयुधं जग्राह अग्रहीत् । 'अस्त्री शूलं रुगायुधम्' ॥ ७ ॥नागोजीभट्टी
तस्या इति । पफाल विशीर्णः । तस्या भुजमित्यन्वयः ॥ ७ ॥जगच्चन्द्रचन्द्रिका
तस्याः खङ्ग इति ८ ॥ ७ ॥दंशोद्धारः
तस्या इति । पफाल व्यशीर्यत् । त्रिफला विशरणे । यद्वा नृपान्नन्दयतीतिनृपनन्दनः । मूल विभुजादि ⟨…⟩ त्मकः । तत्संबुद्धिः हे नृपनन्दन । पफाल । निजकार्यं चकारेत्यर्थः । फल निष्पत्तौ । अन्तर्भावितण्यर्थः ॥ ७ ॥मूलम्
गुप्तवती
॥ ८ ॥चतुर्धरी
तेजोभी रश्मिभिः जाज्वल्यमानम् अत्यन्तं ज्वलत् । अम्बरात् आकाशे । 'सुपां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी । यद्वा अम्बरे समवस्थायि रविबिम्बमिवेति ल्यब्लोपे पञ्चमी । केचित्तु अम्बरम् । अत सातत्यगमने इति किंतु रविबिम्बस्यैत्र विशेषणमाहुः । तेजोभी रविबिम्बमिवेति । रो रीतिलोपे शिति दीर्घत्वम् । ह्रस्वपाठे तु अविशब्द एव रविबिम्बवचनः । 'अविर्मेषे गिरौ सूर्ये' इत्यभिधानात् ॥ ८ ॥शान्तनवी
ततः त्रिशूलमग्रहणादनन्तरं चिक्षुराह्वयो महामुरः ततः प्राक् गृहीतत्रिशूलमायुधं भद्रकाल्यां देव्यां विषये चिक्षेप अक्षैप्सीत् । क्षिप प्रेरणे । कीदृशं त्रिशूलम् । अम्बरात् आकाशात् अम्बरमाकाशम् आक्रम्य तेजोभिः रविबि म्बमिव सूर्यमण्डलमिव जाज्वल्यमानं देदीप्यमानम् इत्यर्थः । अम्बरादिति कर्मणि ल्यब्लोपे पञ्चमी वक्तव्या । तेजोभि रविविम्बमित्यत्र रो रीति रेफलोपे पूर्वस्याणो दीर्घः । तेजोभिरविबिम्बमित्यदीर्घपाठेऽपि अवेः सूर्यस्य बिम्बमिवेत्यर्थः 'अवयः शैलमेषार्काः' इत्यभिधानात् । अम्बरमतति सततं गच्छति अम्बरादिति प्रथमान्तत्वे तु रविबिम्बविशेषणं द्रष्टव्यम् भद्रा च सा कालस्य कालाभिमुखस्य स्त्री काली चेति भद्रकाली । यद्वा काली चण्डिका ॥ ८ ॥नागोजीभट्टी
चिक्षेपेति । तत् शूलं अम्बराद्रविबिम्बमिव इत्युत्तरान्वयि । तेजोभिः इत्यत्र इलोप इति दीर्घः ॥ ८ ॥जगच्चन्द्रचन्द्रिका
चिक्षेपेति ९ ॥ ८ ॥दंशोद्धारः
चिक्षेपेति । जाज्वल्यमानमत्यर्थं ज्वलत् । अम्बरात् आकाशे । छान्दसत्वाद्विभक्तिव्यत्ययः । यद्वा अम्बरे अवस्थाप्य चिक्षेपेत्यर्थः । ल्यब्लोपे पञ्चमी । यद्वा अम्बरमततीत्यम्बरात् । प्रथमान्तं रविबिम्बविशेषणम् । अत सातत्यगमनेऽस्मात् किप् तेजोभिरविविम्बमिति पाठे अविः बिम्बमिति च्छेदः । 'अविः शैले रवौ मेषे' इति विश्वः ॥ ८ ॥मूलम्
गुप्तवती
तेन देवीमुक्तेन प्रतिशूलेन स चिक्षुरश्च शतधा नीत इति लिङ्गविपरिणामेनान्वयः ॥ ९ ॥चतुर्धरी
॥ ९ ॥शान्तनवी
तत् चिक्षुरप्रयुक्तम् आपतत् आगच्छत् शूलं कर्म दृष्ट्वा देवी स्वकीयं शूलम् अमुञ्चत प्रयुक्तवती । तेन देव्या अम्बिकया प्रयुक्तेन शूलेन तत् चिक्षुरप्रयुक्तं शूलं शतधा शतप्रकारैः चूर्णतां नीतं प्रापितमभूत् । न केवलं चि-नागोजीभट्टी
उदग्रश्चेति । रणे युद्धे दन्तैर्गजदन्तनिर्मितायुधैः मुष्टिभिः तलैश्चपटैश्च इत्यर्थः । यद्वा दन्तैर्दन्तयर्थः ॥ १६ ॥जगच्चन्द्रचन्द्रिका
उदग्रश्च रण इति १७ ॥ १६ ॥दंशोद्धारः
उदग्र इति । उदग्रनामा दैत्यः । एवमग्रेऽपि दैत्यनामान्यूह्यानि । दन्तैः मुष्टिभिः तलैश्चपेटाभिः । न्तो गजदन्तः तन्मयमुष्टिभिस्तलैस्तलभागैरित्यर्थः ॥ १६ ॥मूलम्
गुप्तवती
॥ १७ ॥चतुर्धरी
उद्धतम् उद्धतनामानम् ॥ १७ ॥शान्तनवी
रणे देवी क्रुद्धा उद्धतं नाम महासुरं चशब्दात् ससैन्यः गदापातैश्चूर्णयामास संपिपेष परासुमक ⟨…⟩ त्रिनेत्रा परमेश्वरी चण्डिका देवी रणे क्रुद्धा सती भिन्दिपालेन हस्तक्षेप्येण लगुडेन बाष्कलं नाम महासुरं जघान जिघांस वकार । ‘भिन्दिपालः सृगस्तुल्यौ’ । ‘रिष्टिः कृपाणिका प्रोक्ता भिन्दिपालस्तु गोफणिः' इति । भिण्डिपालव्याख्यान ⟨…⟩ याह्वयानं मूले प्रेक्ष्यं प्रेक्षावद्भिः । तथा परमेश्वरी वाणैस्ताम्रं नाम महासुरं जघान व्यसुं चकार । तथा परमेश्वरी वाणं॰ ⟨…⟩ धकनामानं महासुरं जघान ॥ १७ ॥नागोजीभट्टी
देवीति । उद्धतं तन्नामानम् । भिन्दीति दमध्यः ॥ १७ ॥जगच्चन्द्रचन्द्रिका
देवी क्रुद्धेति १८ ॥ १७ ॥दंशोद्धारः
॥ १७ ॥मूलम्
गुप्तवती
॥ १८ ॥चतुर्धरी
॥ १८ ॥शान्तनवी
तथा परमेश्वरी उग्रास्यम् उग्रम् आस्यं मुखं यस्य तम् उग्रास्यं नाम महासुरं जघान व्यसुं चकार रमेश्वरी उग्रवीर्यम् उग्रं वीर्यं यस्य तम् उग्रवीर्यंनामानं महासुरं जघान । चशब्दात्तत्सैन्यं तं व्यसुं चकार । 'तीर्य भावश्च' । तथैव परमेश्वरी वाणैरेव महान्तौ हनू कपोलाधोभागौ यस्य तं महाहनुं नाम महासुरं जघान । ⟨…⟩ सैन्यं तं व्यसुं चकार । त्रिनेत्रं चेति पाठे परमेश्वरी त्रीणि नेत्राणि यस्य तं त्रिनेत्रं नाम महासुरं न जघान । चशब्दात्ससैन्यकं तं व्यसुं चकार । परमा ईश्वरी । 'अश्नोतेराशुकर्मणि वरट् चेच्चोपधायाः' । यद्वा रस्य ह्री परमेश्वरी ॥ १८ ॥नागोजीभट्टी
॥ १८ ॥जगच्चन्द्रचन्द्रिका
उमास्यमिति १९ ॥ १८ ॥दंशोद्धारः
॥ १८ ॥मूलम्
गुप्तवती
॥ १९ ॥चतुर्धरी
बिडालस्य बिडालाक्षस्य । संज्ञैकदेशो संज्ञाप्रतीतिरिति न्यायात् यमक्षयं यमगृहम् । बाणैर्दुर्धरं दुनिन्ये ॥ १९ ॥शान्तनवी
रणे देवी असिना खड्गेन बिडालस्य बिडालनाम्नो महासुरस्य शिरः मूर्धानं कायात् शरीरात् वै ततः पातयामास प्रभ्रंशयामास । रणे देवी शरैः दुर्धरं च दुर्मुखं च उभौ महासुरौ कर्मणि । यमक्षयं यमस्य गृहं कर्म । निन्ये प्रापयामास । नयतिर्द्विकर्मकः । 'क्षयो यक्ष्मणि कल्पान्ते तथैव निलयेऽपि च' ॥ 'कालं च कालदण्डेन कालरात्रिरपातयत् । उग्रदर्शनमत्युग्रैः खड्गपातैरताडयत् ॥ २० ॥ असिनैवासिलोमानमाच्छिनत्सा रणोत्सवे । गणैः सिंहेन देव्या च जंपश्वेडाकृतोच्चकैः ॥ २१ ॥' कालं नाम महासुरं कालरात्रिरम्बिका कालदण्डेन अपातयत्। उग्रदर्शनं नाम महासुरम् अत्युग्रैः खड्गपातैः कालरात्रिरम्बिका १ इदं श्लोकद्वयं पाठकर्तृभिर्नाद्रियते । केवलं शान्तनव्यामेव व्याख्यातम् । ११२ दुर्गासप्तशती । " तृतीयोऽध्याय अताडयत् । तड आघाते चुरादिः । सा कालरात्रिरम्बिका रणोत्सवे असिनैव असिलोमनामानं महासुरम् आच्छिनत तसीत् । ‘क्ष्वेडा तु सिंहनादः स्यात्’ कालं चेत्यादिश्लोकद्वयं केचित्पठन्ति केचित्तु न " १९ ॥नागोजीभट्टी
बिडालस्येति । यमध्वयं यमगृहम् ॥ १९ ॥जगच्चन्द्रचन्द्रिका
बिडालस्येति २० ॥ १९ ॥दंशोद्धारः
बिडालस्येति । बिडालाख्यस्य । यमक्षयं यमगृहम् ॥ १९ ॥ एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः । माहिषेण स्वरूपेण त्रासयामास तान्गणान् ॥ ⟨…⟩गुप्तवती
॥ २० ॥चतुर्धरी
॥ २० ॥शान्तनवी
एवं प्रागुक्तभङ्ग्या स्वसैन्ये आत्मीयसैन्ये स्वयं संक्षीयमाणे सति महिषासुरस्तु तदसहमा माहिषेण महिषसंबन्धिना महिषाकारेण स्वरूपेण तान् देवीसंबन्धिनो गणान् त्रासयामास उद्वेजयामास । संक्षीयगण क्षि क्षये भ्वादिरकर्मकः परस्मैपदी । इह तु प्रयोगतोऽन्तर्भा वितण्यर्थविवक्षायाम् 'नाभुक्तं क्षीयते कर्म' 'क्षीयन्ते कर्माणि' इतिवत् सकर्मकत्वे सति कर्मकर्तरि लटः शानचि 'कर्मवत्कर्मणा तुल्यक्रियः' इति यक् ⟨…⟩ ात्मनेपदे अ धातुकर्योदीर्घे रूपम् ॥ २० ॥नागोजीभट्टी
एवमिति । गणान् निःश्वाससंभवान् ॥ २० ॥जगच्चन्द्रचन्द्रिका
एवं संक्षीयेति २१ ॥ २० ॥दंशोद्धारः
एवमिति । तान् निःश्वासभवान् ॥ २० ॥ कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् । ला ङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान्गुप्तवती
॥ २१ ॥चतुर्धरी
खुरक्षेपैः पादाघातैः । कवर्गद्वितीयोय खुरशब्दः । 'अश्वादिस्तु कवर्गयोः' इत्यभिधानात् ॥ २शान्तनवी
स महिषासुरः तुण्डप्रहारेण तुण्डेन वक्त्रेण जनिताघातेन कांश्चित्कानपि गणान् देव्यारोषज पुरुषान् रणशूरान् भूतले पातयामास । तथा खुरक्षेपैः अपरान् गणान् भूमौ भूतले पातयामास । 'शफं क्लीबे खुरः पुम् स तथा अन्यान् लाङ्गूलताडितान् गणान् भूमौ पातयामास । ‘पुच्छोऽस्त्री लूमलाङ्गूलं’ । स तथान्यांश्च ⟨…⟩ भ्यां विदा विषाणाभ्यां भेदितान् गणान् भूमौ पातयामास । 'दारिते भिन्नभेदितौ’ ॥ २१ ॥नागोजीभट्टी
कांश्चिदिति । खुरः कवर्गादिः ॥ २१ ॥जगच्चन्द्रचन्द्रिका
कांश्चित्तुण्डेति २२ ॥ २१ ॥दंशोद्धारः
॥ २१ ॥मूलम्
गुप्तवती
॥ २२ ॥चतुर्धरी
वेगेन गतितारतम्येन । भ्रमणेन मण्डलाकारगत्या ॥ २२ ॥शान्तनवी
तथा महिषः नादेन ध्वनिना कण्ठगर्जितेन अपरान् व्याकुलचित्तान् भूमौ पातयामास । सः तथ भ्यान्गणान् निःश्वासपवनेन निःश्वास एव पवनो वायुस्तेन पातयामास । सः महिषः तथा अपरान् गणान् भ्रमणेन प ऽग्रतः पार्श्वतश्च भूतले पातयामास । स तथा वेगेन जवेन कांश्चिदपरान्भूमौ पातयामास ॥ २२ ॥नागोजीभट्टी
वेगेन कांश्चिदिति । वेगयुक्तभ्रमणेन । वेगो गतेः भ्रमणं मण्डलाकारगतिः ॥ २२ ॥जगच्चन्द्रचन्द्रिका
केनेति २३ ॥ २२ ॥दंशोद्धारः
॥ २२ ॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥२गुप्तवती
॥ २३ ॥चतुर्धरी
प्रमथा गणाः तेषामनीकं सैन्यम् ॥ २३ ॥ १ ‘क्षुरक्षेपैः’ इत्यपि पाठः । तीयोऽध्यायः ३ ] गुप्तवत्यादिषट्टीकासंवलिता । ११३शान्तनवी
इत्थं महिषासुरः महादेव्याः अम्बिकायाः प्रमथानाम् अनीकानि सैन्यानि प्रमथगणान् निपात्य भूमौ पातयित्वा तस्याः सिंहं पञ्चास्यं हन्तुं हिंसितुम् अभ्यधावत आभिमुख्येन अधावत् । 'वरूथिनी बलं सैन्यं चक्रं चानी ⟨…⟩ याम्' । ततः प्रमथगणमथनतः सिंहं हन्तुमागमत् । ततश्च महिषमहासुरनिप ⟨…⟩ ड ⟨…⟩ का चण्डिका कोपं चक्रे क्रोधं दित्याह । कोपं चक्रे ततोऽम्बिकेति ॥ २३ ॥नागोजीभट्टी
निपात्येति । प्रमथाः गणाः २४ ॥ २३ ॥जगच्चन्द्रचन्द्रिका
निपात्येति ॥ २३ ॥दंशोद्धारः
॥ २३ ॥मूलम्
गुप्तवती
॥ २४ ॥चतुर्धरी
॥ २४ ॥शान्तनवी
महावीर्यः सः महिषासुरः खुरक्षुण्णमहीतलः सन् क्रोधात् क्रोधात् अथैकपादशकलनिष्पिष्ट ⟨…⟩ कृता ⟨…⟩ क्षो ⟨…⟩ ः सन् उच्चैरभ्रंलिहान् पर्वतान् उच्चैरभ्रंलिहमुकुटमूर्धनि देव्यामुखैश्चिक्षेप च उच्चैरक्षैप्सीत् । अथ ना ⟨…⟩ उन्ननाद् । णद ति शब्दे । गलगर्जनं चोच्चैश्चकार । 'वीर्यं बलं प्रभावश्च' । बलं प्राणसामर्थ्यम् । महावीर्यसंपन्नः सत्त्ववान् महिषोऽतितरायावत् ॥ २३ ॥नागोजीभट्टी
॥ २४ ॥जगच्चन्द्रचन्द्रिका
सोऽपि कांपादिति ⟨…⟩ ॥ २४ ॥दंशोद्धारः
॥ २४ ॥मूलम्
गुप्तवती
॥ २५ ॥चतुर्धरी
तस्य वेगभ्रमणाभ्यां विक्षुण्णा मही व्यशीर्यते ⟨…⟩ विशीर्णा । कर्मकर्तर्यात्मनेपदम् ॥ २५ ॥शान्तनवी
तस्य महिषस्य महासुरस्य वेगेन जवेन युक्तं भ्रमणं तेन विक्षुण्णा विशीर्णा संपिष्टा मही व्यशीर्यत व विशीर्णा अभवत् । शृ हिंसायाम् । क्र्यादिः परस्मैपदी विपूर्वकोऽकर्मकः । इह तु अन्तर्भावितण्यर्थविवक्षायां विशी घः स्वयमेव । विशीर्यते सेतुः स्वयमेवेतिवत्कर्मकर्तरि लङि रूपम् । किंच तस्य महिषस्य लाङ्गूलेन पुच्छेन आहततोऽद्भिरर्णवः सर्वतः सर्वत्र पृथिव्यां सकलजनान् प्लावयामास वांऽममं चकार । तसिप्रकरणे 'आद्यादिभ्य उपसंइत्यधिकरणे ङसिः । यद्वा कर्मणि ल्यब्लोपे पञ्चमी । सर्वतः सर्वां पृथ्वीं प्राप्य प्लावयामास मज्जयामासेत्यर्थः ॥२५॥नागोजीभट्टी
वेगेति । विक्षुण्णा कुण्ठिता व्यशीर्यतेति कर्मकर्तरि रूपम् । सर्वतः । सार्वविभक्तिकस्तसिः । मास । जलेनेति शेषः ॥ २५ ॥जगच्चन्द्रचन्द्रिका
वेगभ्रमणेति २६ ॥ २५ ॥दंशोद्धारः
वेगेति । व्यशीर्यतेति कर्मकर्तरि लट् ॥ २५ ॥मूलम्
गुप्तवती
॥ २६ ॥चतुर्धरी
खण्डंखण्डमिति क्रियाविशेषणम् । ययु ⟨…⟩ वागताः घना मेघाः श्वासानिलास्ताः निःश्वासवातनभसः आकाशात् । असु क्षेपणे ॥ २६ ॥शान्तनवी
घनाश्च महान्तो मेघाः तेन महिषेण धुताभ्यां शस्त्राभ्यां विभिन्नाः विदारिताः सन्तः खण्डंखण्ड कलं ययुः प्रापुः । महिषेण धुतभ्र ⟨…⟩ विदारिताः महान्तो मेघाः खण्डप्रकाराः खण्डसदृशाः सन्तः खण्डसादृश्यं ययुरि'प्रकारे गुणवचनस्य' इति अधिकस्याल्पसादृश्ये– गुणवचनस्य द्विर्भावः । खण्डंखण्डमयुरिति तु पाठे 'कर्मधारयवदुत्तत विकल्पेन कर्मं वारयस्वातिदेशात् द्विरुक्तयोर्भागयोर्मध्ये पूर्वभागसंवन्धिन्याः विभक्तेर्लुक् । 'श्वासानिलास्ताः शतशो' निलाहताः शीर्णाः' 'श्वासानिलास्ताऽविशीर्णा' इति पाठत्रयम् । तस्य महिषस्य रोषजाः श्वासा एव अनिलाः वायवः क्षिप्ताः अत एव विशीर्णाश्चूर्णीभूताः अचलाः पर्वताः नभसः सकाशात् निपेतुः निपतिताः । यद्वा श्वासानिलास्ताः शतशः । शतशतं शतशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शप्रत्ययः । यद्वा श्वासानिलाहताः शीर्णाः श्वासानिलैराहत स्ताडिताः इत्यनुसंधेयम् । शीर्णाश्चूर्णीभूताः ॥ २६ ॥नागोजीभट्टी
धुतेति । कम्पितेत्यर्थः । खण्डस्य खण्डा यस्यां क्रियायाम् । श्वासानिलेनाकाश प्रसस्ताः क्षि ⟨…⟩ अचलाः पुनराकाशात्पेतुरित्यर्थः ॥ २६ ॥जगच्चन्द्रचन्द्रिका
धुतशृङ्गेति २७ ॥ २६ ॥दंशोद्धारः
॥ २६ ॥ इति क्रोधसमाध्मातमापतन्तं महासुरम् । दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ २७।गुप्तवती
॥ २७ ॥ २७ ॥चतुर्धरी
क्रोधसमाध्मातं क्रोधनोद्धासितम् ॥शान्तनवी
इति प्रागुक्तरीत्या क्रोधसमाध्मातं क्रोधाग्नियुक्त क्रोधेन समन्तादाविष्टमासमन्ताद्विजृम्भितम् आ पतन्तम् अभ्यधावन्तं महिषं महासुरं दृष्ट्वा वीक्ष्य तदा तद्वधाय तं महिषं हन्तुं चण्डिकादेवी कोपम् अकरोत् । वध हिंसार्थ र्यते । विधिः प्रकृत्यन्तरम् ‘जनिवध्योश्च’ इति विधिग्रहणादवसीयते । तद्वधायेति । तस्य वधनं वधः। भावे घञ् 'जनिवध्योश्च ‘अत उपधायाः’ वृद्ध्यभावः । ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । तद्वधं विधातुं कोपं क्रोधमकरोत् स्कुर्यत । चडि कोपे । चण्डते चण्डति वा चण्डिका ॥ २७ ॥नागोजीभट्टी
॥ २७ ॥जगच्चन्द्रचन्द्रिका
इति को ⟨…⟩ ति २८ ॥ २७ ॥दंशोद्धारः
इतीति । क्रोधेन समाक्रान्तं संतप्तम् ॥ २७ ॥मूलम्
गुप्तवती
॥ २८ ॥चतुर्धरी
तस्येति । संबन्धलक्षणा षष्ठी । मृधे युद्धे ॥ २८ ॥शान्तनवी
म्रियन्ते यस्मिन्वीराः मृधं युद्धं तत्र महति मृधे सा चण्डिका देवी तावत् तस्य महिषस्य महा सुरस्य वधाय वै प्रसिद्धं वरुणादवाप्तं पाशं पाशाख्यमायुधं क्षिप्त्वा प्रवर्तन्तं महिषं महासुरं बबन्ध । अथ स पाशबन्धमसहि ⟨…⟩ णुर्माहिषं रूपं तत्याज अत्याक्षीत् । ततोनु स संत्यक्तमाहिषाकारो मायावित्वादन्य एव पशुः शार्दूलः खड्गः पोत्री वा प्रशस्त ⟨…⟩ थमक्षतगात्रोऽभूत् । अथ देव्या पाशेन सोपि वा बद्ध एवाभूत् ॥ २८ ॥नागोजीभट्टी
संति । सा तस्योपरि पाशं क्षिप्त्वा तं बबन्धेत्यन्वयः ॥ २८ ॥जगच्चन्द्रचन्द्रिका
सा क्षिप्त्वेति २९ ॥ २८ ॥दंशोद्धारः
सा क्षिप्त्वेति । तस्य पांशं बन्धनायेति शेषः । तस्य तस्मिन् । संबन्धसामान्ये षष्ठी वा ॥ २८ ॥मूलम्
गुप्तवती
॥ २९ ॥चतुर्धरी
॥ २९ ॥शान्तनवी
ततः महिषादिरूपपरित्यागादनन्तरं सः महासुरः मायावित्वात्सद्यः सपदि देव्या समं योद्धुं सिंहो ऽभूत् । ततः अम्बिकादेवी तस्य मायामयसिंहस्य शिरः मूर्धानं यावत् यावता कालेन छिनत्ति छेत्स्यति तावत् तावत्येव काले स मायावी महासुरः खड्गपाणिः पुरुषः प्रादुर्भवन् अदृश्यत दृष्टः । देव्येति शेषः । यावच्छिनत्ति इति भविष्यति काले 'यावत्पुरानिपातयोर्लट्' छिदिर् द्वैधीकरणे रुधादिः । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' । खड्गं पाणौ यस्य स तथोक्तः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति च वक्तव्यम् ॥ २९ ॥नागोजीभट्टी
तत इति । तस्य सिंहीभूतस्य । अहृस्यत देव्येति शेषः ॥ २९ ॥जगच्चन्द्रचन्द्रिका
ततः सिंह इति ३० ॥ २९ ॥दंशोद्धारः
तत इति । छिनत्ति छेत्स्यति । ‘यावत्पुरानिपातयोः’ इति भविष्यति लट् ॥ २९ ॥मूलम्
गुप्तवती
॥ ३० ॥चतुर्धरी
आशु शीघ्रम् । आश्वेव तं पुरुषं चिच्छेदेत्यन्वयः । सायकैर्बाणैः । खड्गचर्मणा सहितं पुरुषं खड्गं च र्मं च चिच्छेदेत्यन्वयः ॥ ३० ।शान्तनवी
ततः खड्गपाणेः पुरुषस्य दर्शनादनन्तरमेव देवी आशु सत्वरं सायकैराशुगैः खड्गचर्मणा सार्धं तं खड्गपाणिं पुरुषं कण्ठे चिच्छेद । खड्गं चर्म च पुरुषं च सायकैश्चिच्छेदेति सूचयितुं सार्धमित्युक्तम् । खड्गं चर्म च खड्गचर्म । नाज्ञत्वादेकवद्भावः । तेन सार्धम् 'फलकोऽस्त्री फलं चर्म' चर्ममयं गात्रत्राणं हस्तमात्रं फलकम् । ततः पुरुषरूपतः सकाशात् महासुरः महागजोऽभूत् ॥ ३० ॥नागोजीभट्टी
तत इति । तं पुरुषं देवी आश्वेव । खड्गचर्मणेति समाहारद्वन्द्वः । तत्सहितं सायकैश्चिच्छेत्यन्वयः ॥ ३० ॥जगच्चन्द्रचन्द्रिका
तत एवाश्विति ३१ ॥ ३० ॥दंशोद्धारः
॥ ३० ॥मूलम्
गुप्तवती
॥ ३१ ॥चतुर्धरी
॥ ३१ ॥शान्तनवी
स च महागजः करेण हस्तेन शुण्डादण्डेन तं प्रसिद्धं देव्या वाहनं सिंहं चकर्ष आकृष्टवान् जगर्ज व । बृंहितं चकार । 'बृंहितं करिगर्जितम्' । गर्ज शब्दे भ्वादिः परस्मैपदी । गजः सिंहं चकर्षेति हि महासुरविनाशसूचक उपातोयम् । प्रसिद्धिर्वैपरीत्यात् । ततः देवी तु पुनः सिंहं कर्षतः आक्षिपतः आहरतः तस्य महागजस्य करं शुण्डादण्डं खड्गेन चन्द्रहासेन निरकृन्तत निष्कृष्य अच्छैत्सीत् । कृती छेदने परस्मैपदी । यदभ्यधुः । 'कृणत्ति कृन्ततीत्येते वेष्टने छेदने क्रमात्'इति । इह तु छान्दसमात्मनेपदम् । ऋषयश्छान्दसं पदमनुकुर्वन्ति । अन्यथा निरकृन्तदित्येव स्यात् । कर्षंतस्तत्करं देवीति पाठे कर्षतो गजस्य स करः प्रसिद्धः तत्कर इति व्याख्या । इह स महासुरः प्राङ्महाहवक्षमः 'महिषोऽभूत्ततो व्याघ्रः ⟨…⟩ ः पोत्री हरिः पुमान् । गजोऽथ महिषो भूयो मायावी स महामृधे' इत्येतदावेदयितुमाह ॥ ३१ ॥नागोजीभट्टी
करेणेति । महासिंहं देवीवाहनं कर्षत इत्यस्य सिंहमित्यादि । निरकृन्ततेति छान्दसम् ॥ ३१ ॥जगच्चन्द्रचन्द्रिका
करेण चेति ३२ ॥ ३१ ॥दंशोद्धारः
करेणेति । गजेन सिंहाकर्षणं महासुरविनाशसूचक उत्पातोयम् । अकर्तत । कृती छेदने । परस्मैपदित्वेपि तद्धार्षः ॥ ३१ ॥मूलम्
गुप्तवती
॥ ३२ ॥चतुर्धरी
वपुः शरीरम् । आस्थितो गृहीतवान् । तथैव पूर्ववत् ॥ ३२ ॥शान्तनवी
ततः गजरूपवपुस्त्यागादनन्तरं भूयः पुनरपि स महासुरः माहिषं वपुराश्रितः प्राप्तवान् सन् तथैव पूर्ववदेव प्राग्वत् महिषः सन् त्रैलोक्यं क्षोभयामास क्षोभं प्रापयामास । तथैव स चराचरं त्रैलोक्यं लोकत्रयं क्षोभयामास । आश्रित इति श्रिञ् सेवायां सेवानुसरणे गतिविशेषे इति कर्तरि क्तः । आस्थित इति पाठे तु आङ्पूर्वस्ति ⟨…⟩ तिः प्रतिज्ञानार्थः सकर्मकः । 'गत्यर्थाकर्मकश्लिषशीङ्स्थास' इत्यादिना कर्तरि क्तः । वपुरास्थितः अङ्गीकृतवान् सन् त्रैलोक्यं क्षोभयामासेत्यर्थः । आस्थितेत्यविसर्गपाठे तु 'आङःस्था प्रतिज्ञाने' इत्यात्मनेपदम् । कर्तरि लुङ् । 'स्थाध्वोरिच्च' इत्याकारस्य इत्वं सिचः कित्त्वं च । तेन गुणाभावः । 'ह्रस्वादङ्गात्' इति सिचो लोपः । त्रैलोक्यं सचराचरम् इत्यत्र त्रयो लोकात्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । स इति छेदे तु स महासुर इत्यर्थः । चराश्च देवाद्यः । अचराश्च पर्वतादयः । चराचरम् । सर्वो द्वन्द्वो विभाषैकवद्भवति । चराचरात्मकं त्रैलोक्यं स महासुरः क्षोभयामासेत्यर्थः । यद्वा चराश्चाचराश्च चरा चरास्तैः सहितं त्रैलोक्यं सचराचरं संभवात्स्वरूपाख्यानतो विशेष्यभावः । यद्वा त्रैलोक्यं क्षोभयामास । तत् कीदृशं चराचरं जगदात्मकमित्यर्थः । स महासुरः जगदात्मकं त्रैलोक्यं क्षोभयामासेत्यर्थः । यद्वा सचराचरं जङ्गमाजङ्गमसहितं १ ‘वपुराश्रितः’ इति शान्तनवीपाठः । त्रैलोक्यं क्षोभयामासेत्यर्थः । चरिर्गत्यर्थः । ‘चरिचलिपतिवदीनां वा द्वित्वमच्यक्चाभ्यासस्य' इति पचार्धाच्च द्विर्भावेऽभ्या· सस्य च आगागमः । अविधिसामर्थ्याद्विलादिःशेषाभावः । अन्यथा त्वांगमादेशयोर्विशेषाभावादागमलिङ्गमपार्थकं स्यात्। ‘चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्’ ॥ ३२ ॥नागोजीभट्टी
तत इति । तथैव प्राग्वदेव ॥जगच्चन्द्रचन्द्रिका
ततो महेति ३३ ॥ ३२ ३२ ॥दंशोद्धारः
॥ ३२ ॥मूलम्
गुप्तवती
क्रुद्धेति । तुरीयापि चण्डिका प्रधानहननरूपं कृत्वापि रजोगुणाविर्भावाधिक्येन स्वस्या महालक्ष्मीत्व· मापादितवतीति ध्वननाय मध्ये पानमाह । अत एवारुणलोचनत्वं मुखरागादिश्च युज्यते ॥ ३३ ॥चतुर्धरी
पीयत इति पानं मधु ॥ ३३ ॥शान्तनवी
पीयते इति पानम् । कर्मणि ल्युट् । ततस्त्रैलोक्यक्षोभणादनन्तरं जगन्माता जगतां जननी जग· द्धिता चण्डिकादेवी क्रुद्धा सती अत एव अरुणलोचना अरुणे रक्ते लोचने यस्याः सा । उत्तमम् अमृतं पानं मधु पुनः पुनः पपौ । पा पाने । लीलया मध्वेव पपौ । पुनः पुनश्च जहासैव । युद्धं तु न गणयामास । हसे हसने । लिटस्तिपो णल् । पपौ विति ‘आत औ णलः’ । वीरपानं चकारेत्यर्थः । ‘वीरपानं तु यत्पानं वृत्ते भाविनिःसारण' वीराणां कर्तव्यं मद्यभ ⟨…⟩ नं वीरपानं 'मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः’ ‘घटायुतायुतोन्मानं मधु मांसोपदंशकम् । एकैकम्मांसतखण्डी पपावत्र रणोत्सवे' ॥ ३३ ॥नागोजीभट्टी
तत इति । महिषस्य शिवावतारत्वेन जायमानदयादिविच्छेदायात्र मद्यपानं पानं मद्यम् । कर्मणिखुट् । पानादरुणलोचना पुनःपुनर्जहासेत्यन्वयः ॥ ३२ ॥जगच्चन्द्रचन्द्रिका
ततः क्रुद्धेति ३४ ॥ ३३ ॥दंशोद्धारः
॥ ३३ ॥मूलम्
गुप्तवती
॥ ३४ ॥चतुर्धरी
बलं शारीरं सामर्थ्यम् । वीर्यम् उत्साहः । ताभ्यां यो गर्वः मदः । उद्धतः उद्रिक्तः ॥ ३४ ॥शान्तनवी
बलेन सामर्थ्येन । वीर्येण प्रभावेन तेजसा । मदेन हर्षेण गर्वेण च उद्धतः अविनीतः निर्मर्यादं उत्कटः स महिषः असुरोऽपि ननदं च कण्ठगर्जनं चकार । 'नर्द नर्द शब्दे' चण्डिकां प्रति भूधरान् गिरीन् विषाणाभ्यां शृङ्गाभ्यां चिक्षेप प्रक्षिप्तवान् । 'अविनीतः समुद्धतः' । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' । 'वीर्यं व ⟨…⟩ प्रभावश्च' ॥ ३४ ॥नागोजीभट्टी
ननदेति । बलं शारीरम् । वीर्यमुत्साहः । ताभ्यां मदो गर्वः ॥ ३४ ॥जगच्चन्द्रचन्द्रिका
ननदं चेति ३५ ॥ ३४ ॥दंशोद्धारः
ननदेति । बलं शारीरशक्तिः । वीर्यम् उत्साहशक्तिः । ताभ्यां मदो गर्वस्तेनोद्धतः 'विषाणं दन्त शृङ्गयोः' । इत्यमरः ॥ ३४ ॥मूलम्
गुप्तवती
लक्ष्म्याः सुरायाश्च मादकत्वेन साम्याच्च । 'सहैत्या (?) वा एतद्देवताया रूपं यन्मधु' इति श्रुतेथ मदेन सुराजन्येन उद्धूतः अतिशयितो मुखस्य रागो रक्तिमा यत्र । आकुलान्यस्पष्टाक्षराणि च यस्मिन्क ⟨…⟩ मेणि तत् ॥ ३५ ॥चतुर्धरी
मदेन उद्धूतो मुखरागो यस्याः सा । आकुलाक्षरम् अव्यक्तवर्णं यथा स्यात्तथा ॥ ३५ ॥शान्तनवी
सा चण्डिका तेन महिषेण महासुरेण प्रक्षिप्तान् क्षिप्तान् तान् भूधरान् गिरीन् शरोत्करैः शराणाम् उत्करैः उत्क्षेपैः प्रक्षेपणैः चूर्णयन्ती निःशेषयन्ती सती महिषासुरं मदोद्धूतमुखरागाकुलाक्षरं यथा स्यात्तथा उवाच । मदान्मधुपानजादुद्धूतो मुखे रागः तेनाकुलान्यक्षराणि वर्णो यस्मिन्कर्मणि वचने तन्मदोद्धूतमुखरागाकुलाक्षरम् । क्रियाविशेषणानां कर्मत्वं नपुंसकैकत्वं च वक्तव्यम् । यद्वा मदोद्धूतमुखरागा देवी मदेन मधुपानजेन उद्धूतो जातो मुखे रागः कषायभावो यस्याः सा तथोक्ता । आकुलाक्षरमिति क्रियाविशेषणम् । आकुलानि व्यामिश्रितानि अस्पष्टानि अक्षराणि यस्मिन्कर्मणि ⟨…⟩ आकुलाक्षरम् अस्पष्टाक्षरम् ॥ ३५ ॥ । ११७ तृतीयोऽध्यायः ३ ] गुप्तवत्यादिसप्तटीकासंवलितानागोजीभट्टी
सा चेति । मदेनोद्धूतः अतिशयेन जातो मुखे रागो यस्याः सा । आकुलाक्षरमिति वचनं क्रियाविशेषणम् । मद्यस्वभावोऽयम् ॥ ३५ ॥जगच्चन्द्रचन्द्रिका
सा च तानिति ३६ ॥ ३५ ॥दंशोद्धारः
मदेनोद्धूतो यो मुखरागस्तेनाकुलान्यक्षराणि यस्यां क्रियायां तथोवाच मदोद्धृतमुखरागेति देवीविशेषणं पृथक्पदं वा ॥ ३५ ॥देव्युवाच ।
मूलम्
गुप्तवती
मधु यावत् पिबामि लक्ष्म्यावेशविशिष्टा यावद् ⟨…⟩ वामि । मया लब्धा । ‘इन्दिरा लोकमाता मा’ इति कोशात् ॥ ३६ ॥चतुर्धरी
गर्जंगर्जेति संभ्रमेण पुनरुक्तिः । आशु शीघ्रम् ॥ ३६ ॥शान्तनवी
अत्र ह्याकुलाक्षरमुवाचेत्युक्तत्वात् गर्जगर्ज इत्येवं प्रतिपदं व्यस्ताक्षरं देव्युक्तम्। ऋषिणा तु तत्संस्वल्पार्थसंगत्या प्रणीतम । रे मूढ हे अज्ञ त्वं क्षणं नावत् गर्जंगर्जं। यावदहं मधु पिबामि यावता क्षणेन मधु पास्यामि तावन्तं क्षणं त्वमपि कण्ठगर्जनं कुरुकुरु । तावदेव तवायुः । ततः क्षणान्तरे मया त्वयि महिषासुरे हते व्यमूक्तं सति अत्र अत्रैव संग्रामभूमावेव । अत्रैवास्मिन्नेव क्षणेऽवसरे वा आशु अविलम्बितं देवताः इन्द्राद्यो देवाः गर्जिष्यन्त्यानन्दतां गास्यन्ति । गृजि शब्दे लट् । पिवामीति । पा पाने भविष्यति काले 'यावत्पुरा ⟨…⟩ ातयोर्लट्’ इति लट् । ‘अत्र मृद् ⟨…⟩ था जाता ⟨…⟩ तयोर्लट्' ॥ ३६ ॥नागोजीभट्टी
देव्युवाच । गर्जंगर्जेति संभ्रमेण द्विरुक्तिः । मदेन च पिबामीति पूर्वं पाण ⟨…⟩ युक्तिः राजाने प्रति क्रम इति न दोषः ॥ ३६ ॥जगच्चन्द्रचन्द्रिका
देव्युवाचैक इति । देव्युवाचेति एको मन्त्रः । तथाहि ‘देव्युवाच श्लोका ३७ ।’गर्जगर्जेति भागे इति । तथाहि 'गर्जंगर्ज क्षणं मूढ' इति अपरोऽन्यः श्लोकरूपो मन्त्रः ३८ ॥ ३६ ॥दंशोद्धारः
गर्जेति । गर्जंगर्जेति 'नित्यवीप्सयोः' इति पौनःपुन्ये द्वित्वम् । पिबामि पास्यामि । ‘यावत्पुरा’ ⟨…⟩ लट् ॥ ३६ ॥मूलम्
गुप्तवती
॥ ३७ ॥चतुर्धरी
पादेनाक्रम्य । पृष्ठे इति शेषः ॥ ३७ ७ ॥शान्तनवी
सा देवी एवमुक्त्वा समुत्पत्य उत्प्लुत्य तं महिषासुरम् आरुढा आरुढवती सती एनं महिषं महासुरं कण्ठे च कण्ठप्रदेश एव एकेन पादेन उचितेनाक्रम्य शूलेन आयुधेन अताडयत् । तड आघाते चुरादिः । आरुढा । इह तु 'गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः । एनमित्यन्वादेशे रूपमिदम् । 'एनदोऽन्यतरस्याम्' ॥ ३७ ॥नागोजीभट्टी
ऋषिरुवाच । एवमिति । समुत्पत्य कूर्दनं कृत्वा तं सा आरुढा अथ एनं पादेनाक्रम्य दृढंबद्ध्वा कण्ठे शूलेनाताडयदित्यन्वयः ॥ ३७ ॥जगच्चन्द्रचन्द्रिका
ऋषिरुवाचेति 'ऋषिरुवाचस्वाहेत्ययं मन्त्रः ३९ ।' । पुनश्च श्लोकपञ्चकमिति । पुनर्भूयोऽपि श्लोकानां पञ्चकं पञ्चश्लोकरूपा मन्त्रा इति । तथाहि एवमुक्त्वेति ४० ॥ ३७ ॥दंशोद्धारः
॥ ३७ ॥मूलम्
गुप्तवती
॥ ३८ ॥चतुर्धरी
ततस्तान् निजमुखात् आत्ममुखात् । ततः शूलताडनात् हेतोः अर्धनिष्क्रान्तः निःसृतार्धकायः तया देव्या वीर्येण सामर्थ्येन अत्यतिशयेन संत्रस्तः प्रतिबद्ध इत्यर्थः ॥ ३८ ॥ १ ‘एवासांदेव्या’ इति शान्तनवीपाठः ।शान्तनवी
ततोऽनन्तरं स महिषासुरः तया देव्या पदा पादेन आक्रान्तः शूलेन ताडितः सन्नपि ततस्तस्मा ⟨…⟩ मुखादात्मीयात् महिषवक्त्रात् सकाशात् अर्धनिष्क्रान्त एव अर्धेन शरीरेण निर्गतः देव्या वीर्येण बलेन सामर्थ्येन संवृतः संछादि ⟨…⟩ स्तम्भित आसीत् । तथैवास न संपूर्णो निष्क्रान्तः । अर्धनिष्क्रान्तः अर्धेन वा निष्क्रान्तः अर्धनिष्क्रान्तः ॥ ३८ ॥नागोजीभट्टी
तत इति । तया पादाक्रान्तः दृढं वृतोपि सः ततः शूलताडनोत्तरं ततः महिषस्वरूपीयात् नि ⟨…⟩ मुखादर्धनिष्क्रान्तः निःसृतार्धकाय एव देव्या वीर्येण अति अतिशयेन संवृतः परिबद्धः निष्क्रमितुं नाशकदित्यर्थः ॥ ३८ ॥जगच्चन्द्रचन्द्रिका
ततः सोऽपीति ४१ ॥दंशोद्धारः
॥ ३८ ॥ ३८ ॥ अर्धनिष्क्रान्त एवासौ युद्ध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्त्वा निपातितः॥३९गुप्तवती
तया देव्या मधुपानेन परिणता राजसी लक्ष्मीस्तया निपातित इत्यर्थः । शिरश्छेदोत्तरमपि युद्ध ⟨…⟩ पुराणान्तरेषु द्रष्टव्यः ॥ ३९ ॥चतुर्धरी
एवं च 'शिरश्छेदोद्भवं तद्दानवं खड्गपाणिनम्' इत्यादिविशेषः कल्पान्तरीण इति प्रतीयते ॥ ३९ समासः । अर्धनिष्क्रान्तइवेति विग्रहप्रसङ्गात् ॥ 'एवं स माहिषो नाम ⟨…⟩ सैन्यः समुह् ⟨…⟩ णः । त्रैलोक्यं मोहयित्वा तु तया देव्या विनाशितः ॥ ४० ॥' एवमुक्तरीत्या महिषो नाम प्रसिद्धः स महासुरः ससैन्यः सैन्यसहितः ससुहृद्गणः सुहृद्गणसहितः त्रैलोक्यं त्रीं ⟨…⟩ मोहयित्वा मोहं दुःखं प्राप्तवान् । ततो युद्धं कुर्वाणो देव्या तया भगवत्या तु विनाशितः विनाशं प्रापितः । 'महाकाल निपातितः' इति क्वचित्पाठः । महान्कालः उग्रः तत्परन्या महती काली दुर्गा तया वा निपातितः । परासुः कृतः ॥ त्रैलोक्यस्थैस्तदा भूतैर्महिषे विनिपातिते । जयेत्युक्तं तदा सर्वैः सदेवासुरमानुषैः ॥ ४१ ॥ तदा तस्मिन्समये देव्या महिषे महासुरे विनिपातिते सति त्रैलोक्यस्थैः सर्वैः पुरुषैः देवीं प्रति जयेति लोको ⟨…⟩ वर्तस्वेत्युक्त्वा । कीदृशैः त्रैलोक्यस्थैः सर्वैः पुरुषैः । सदेवासुरमानवैः देवाः स्वर्लोकसद्मानः इन्द्रादयः । असुराः पाता ललोकसंज्ञानो बलिप्रभृतयः । मानवाः भूलोकसंज्ञानो ब्राह्मणादयः । तैः सहिताः तैः । पुनः कीदृशैः । त्रैलोक्यस्थैः त भूतैः तस्मात् महिषासुरात् आ भूताः पीडां प्राप्नुवंतः तैः 'आस्तु स्यात्कोवपीडयोः' भूमाभावात्मनेपदी चुरादिः 'आ ⟨…⟩ षाढा' इ णिजभावपक्षे कर्तरि क्ते रूपम् । योगविभागात्समासः । इत्थंभूतेति निर्देशाद्वा ॥ ३९ ॥नागोजीभट्टी
अर्धेति । एवं च शिरश्छेदोद्भवं तं दानवं शूलपाणिनमिति विशेषः कल्पान्तरीय इ बोध्यम् ॥ ३९ ॥जगच्चन्द्रचन्द्रिका
अर्धनिष्क्रान्त इति ४२ ॥ ३९ ॥दंशोद्धारः
॥ ३९ ॥ ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् । प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ४० ।गुप्तवती
ननाश पलायितम् । अत्र ऋषिद्वयं यथास्थानमपेक्षितमेव । देव्युक्तिरनपेक्षितैवास्तीति दिक् ॥४०चतुर्धरी
हाहाकृतं कृतहाहाशब्दम् । सर्वमित्यवशिष्टाभिप्रायेण ननाश पलायितम् । प्रहर्षं हर्षोद्रेकं परं नि ⟨…⟩ तिशयं जग्मुर्लब्धवन्तः ॥ ४० ॥शान्तनवी
ततो महिषमर्दनानन्तरं यत्किंचिद्दैत्यसैन्यम् अवशिष्टम् अल्पं स्वल्पं तदपि हाहाकृतं हाहा इ ⟨…⟩ ससंभ्रमं दीनभावेन कृतम् आहितं तत् ननाश । णश अदर्शने । अर्दनम्भावः । अदृष्टमभूत् । किंच देवतानां गणास्तु सकला सर्वेऽपि परमुत्कृष्टं प्रहर्षं संतोषं जग्मुश्च प्राप्तवन्तः । 'हा विषादशुगर्तिषु' । चापले द्वे भवत् इति वक्तव्यम् । संभ्रमे ⟨…⟩ प्रणतिश्चापलम् । हाहा इति संभ्रमप्रवृत्त्या दीनत्वेन कृतमनाथं ननाश । दैत्यसैन्यमित्यर्थः ॥ ४० ॥नागोजीभट्टी
तत इति । ननाश पलायितम् । हाहेति कृतं येनेति सैन्यविशेषणम् ॥ ४० ॥ १ अयं श्लोको न पाठान्तर्गतः केवलं शान्तनवीकारेणैव व्याख्यात इति मध्ये निवेशितः ।जगच्चन्द्रचन्द्रिका
ततो हाहेति ४३ ॥ ४० ॥दंशोद्धारः
तत इति । ननाश पलायितम् । णश अदर्शनं ॥ ४० ॥ तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४१ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके० महिषासुरवधस्तृतीयोऽध्यायः ॥ ३ ॥गुप्तवती
॥ ४१ ॥ इति श्रीगुप्तवत्यां मन्त्रव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥चतुर्धरी
दिव्यैर्दिवि भवैः । महर्षिभिर्नारदादिभिः ॥ ४१॥ ॥ इति श्रीमार्कंण्डेयपुराणे चतुर्ध ⟨…⟩ टीकाया ऽध्यायः ॥ ३ ॥शान्तनवी
अथ तां देवीं सुरा इन्द्राद्यः दिवि भवैः दिव्यैः महर्षिभिः सह सहितास्तुष्टुः स्तुतवन्तः । सुगन्ध महर्षयश्च देवीं स्तुतवन्त इत्यर्थः । अथ गन्धर्वपतयश्च जगुः हाहाहूहूप्रभृतयो गन्धर्वा गायनाः तेषां पतयो गायनविचक्ष ⟨…⟩ प्रभृतयः गीतवन्तः । ग शब्दे लिट् । अथाप्सरोगणाश्च अप्सरसां गणाश्च ननृतुः उर्वशीप्रभृतयः स्वर्गवाराङ्गनाः सः तासां गणाः नृत्तवन्तो देवीविजयमहोत्सवं । नृती गात्रविक्षेपं । लिट् उस् ॥ ४१ ॥ ॥ इति श्रीमद्राजाधितोमरान्वयश्रीमदुद्धरणात्मजश्रीशन्तनुचक्रवर्तिविरचितायां शान्तनव्यां चण्डिकामाहात्म्यटीकायां महिषासुरवधवि ⟨…⟩ युपलतृतीयोऽध्यायः ॥ ३ ॥नागोजीभट्टी
तुष्टुवुरिति । सुरा इन्द्राद्याः । दिव्यैर्वेदवादिभिः महर्षिभिश्च सह तुष्टुवुरित्यर्थः ॥ ४१ ॥ इति शिवभट्टसतीगर्भजनागोजीभट्टकृतं सप्तशतीव्याख्यानं महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३ ॥जगच्चन्द्रचन्द्रिका
तुष्टुवुस्तामिति ४१ ॥ चतुश्चत्वारिंशतिस्तु सर्वे मन्त्रास्तृतीयके इति । तु पुनः तृतीयाधिक ये सर्वे मन्त्राः चतुर्भिरधिकाश्चत्वारिंशतिः स्युरिति शेषः । चतुर्दशाधिकत्रिशतिः स्युरित्यर्थः ॥ ४१ ॥ ॥ इति श्रीभविरचिता सप्तशतीमन्त्रहोमविभागकारिकाणां जगच्चन्द्रचन्द्रिकाख्या टीका संपूर्णा ॥ ३ ॥दंशोद्धारः
॥ ४१ ॥ इति श्रीदंशोद्धाराख्यसप्तशतीटीकायां तृतीयोऽध्यायः ॥ ३ ॥ चतुर्थोऽध्यायः ४ ऋषिरुवाच । शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः महर्षपुलकोद्गमचारुदेहाः ॥ १ ॥गुप्तवती
शक्राद्य इति महर्षाणामुपलक्षणम् । उभयेषामप्येतद्दृष्टवान् । 'महिषान्तकरीत्युक्तं दृष्टं देवैर्महर्षिभिः' न्त्रान्तरात् । तस्मिन् महिषासुरे तां महालक्ष्मीं प्रणतिभिर्नेत्रा शिरोधरा ग्रीवा अंसौ च येषां ते । पुलकोद्गमेन रोमाभावेन चारवः कण्टकिता इव देहा येषाम् ॥ १ ॥चतुर्धरी
( ततः सुरगणाः सर्वे देव्या इन्द्रपुरोगमाः । स्तुतिमारेभिरे कर्तुं निहतं महिषासुरे ॥ १ ॥ नन्तरम् इन्द्रमुख्या देवाः महिषासुरवधादनन्तरं देवीस्तुतिं कर्तुम् आरेभिरे उद्यमं चक्रुः ॥ १ ॥ ) शक्राद्य इति । तस्मिन्महिषे सुरारिबले दैत्यसैन्ये देव्या निहते सति सुरगणास्तां देवीं वाग्भिस्तुष्टुवुरित्यन्वयः । देवा इति । सुरगणाः देवाः क्रीडायुक्ता इति योज्यम् । शिरोधरा ग्रीवा । अंसौ स्कन्धौ ( बाहुमूर्धानश्च ) प्रणत्या नम्राः शिरो येषां ते । प्रहर्षपुलकोद्गमः प्रहर्षजनितरोमोत्थानं तेन चारवो देहा येषाम् ॥ १ ॥शान्तनवी
ऋषिरुवाच सुमेधा ऋषिः सुरथं राजानं प्रति वाक्यमुक्तवान् । ततः सुरगणाः सर्वे देव्या इन्द्रपुरोगमाः । स्तुतिमारेभिरे कर्तुं निहते महिषासुरे ॥ १ ॥ चण्डिकया रणं महिषासुरे निहते सति ततोऽनन्तरम् इन्द्रपुरोगमाः शक्रमुखाः सर्वेऽपि सुरगणाः देव्याः स्तुतिं कर्तुमारेभिरे न्तवन्तः । रभ राभस्ये । आत्मनेपदे लिङि पुरो गच्छति पुरोगमः । इन्द्रः पुरोगमः अग्रेसरो येषां ते तथोक्ताः ।'पुरोगमः मी' । रणे देव्या चण्डिकया तस्मिन्नतिवीर्ये सुरारिबले महिषासुरसैन्ये च तस्मिन्नतिवीर्ये दुरात्मनि महिषासुरे च निहते १ इदं पद्यमध्यायारम्भे चतुर्धरीशान्तनव्योरेव विवृतमस्ति ।