चतुर्थोऽध्यायः
चतुर्धरी
एतच्च स्तुतिपरम् । वस्तु ⟨…⟩ त्त्वनिर्वाच्यमेव त्वमित्याह । किमिति । इदं तव रूपं स्वरूपं किं वर्णयामंति समर्थनायां पञ्चमी । असामर्थ्ये हेतुमाह । अचिन्त्यमिति । सर्वेषु असुरदेवगणादिकेषु अचिन्त्यम् अनिरूपणीयं सर्वो ⟨…⟩ कष्टत्वाद ⟨…⟩ न्वयार्थो । एतत्प्रसिद्धम् अतिवीर्यंमनन्यसाधारणं सामर्थ्यं च तव किं वर्णयामेत्यन्वयः । प्राचीन एव हेतुः । भूरि प्रचुरम् । हे देवि यानि चाहवेषु तव अति चरितानि अनन्यसमानि चेष्टितानि च किं वर्णयामेत्यन्वयः । इहापि स एव हेतुत्वेन विपरिणमते । सु(ख)चरितानीति वा पद( ⟨…⟩ )च्छेदः ॥ ५ ॥शान्तनवी
असुराश्च देवाश्च असुरदेवाः । शाश्वतिकविरोधविवक्षायां तु असुरदेवम् । तेषामसुराणां च देवानां च गणाः आद्यो येषां मनुष्यादीनां ते तथोक्ताः तेषु । 'अजाद्यदन्तम्' इत्यसुरशब्दस्य पूर्वप्रयोगः । अजाद्यदन्तत्वाद्य ⟨…⟩ हितत्वाच्च । अमरदैत्यगणादिकेषु इति पाठः सभ्यः । हे देवि सर्वेषु असुरदेवगणादिकेषु तव अद्भुतं रूपम् अचिन्त्यं मनसाऽपि चिन्तयितु स्तुतुम् अप्यशक्यम् एतत्तव मनोहरं रूपं वाचा किं वर्णयामः । वर्णं वर्णक्रियायाम् । चुरादिलोडन्तं तत् । मनसाऽपि स्तुतुमशक्यं तत् वाचा किं वर्णयितु शक्यं स्यादिति भावः । हे देवि तव भूरि अधिकम् असुरक्षयकारि अतिवीर्यं च किं वाचा वर्णयामः । यन्मनसापि अचिन्त्यं स्यात् वीर्यं बल प्रभावश्च । हे देवि सर्वेषु असुरदेवगणादिकेषु आहवेषु संग्रामेषु तवाद्भुतानि चरितानि वीरकर्माणि च किं वर्णयामः वाचा वाण्या यानि मनसापि स्तोतुमशक्यानि ॥ ५ ॥नागोजीभट्टी
एषा आपाततः स्तुतिर्वस्तुतस्त्वनिर्वाच्याऽस्तुत्यैवेत्याह । किमिति । असुरा दैत्याः । देवाः शिवादयः । गणाः प्रमथाः । तत्प्रभृतिषु अचिन्त्यं सर्वोत्कृष्टत्वादनिरूपणीयं तत्र रूपम् । अतः किं केन प्रकारेण वर्णयाम । च परं दैत्यनाशाकारि भूरि वीर्यम् अति अत्युत्कृष्टम् । च परं युद्धेषु यानि चरितानि तान्यप्यति अत्युत्कृष्टानि । अतः किं वर्णयामेत्यन्वयः । सर्वत्राचिन्त्या इति ॥ ५ ॥जगच्चन्द्रचन्द्रिका
किं वर्णयाम इति ५ ॥ ५ ॥दंशोद्धारः
किं वर्णयाम इति । लोडुत्तमबहुवचनम् । दन्त्यपाठ सुचरितानीति च्छेदः । यानि सर्वेषु असुरद् गणादिकेषु अतिशयेन वर्तन्ते । अद्भुतानीति वा पाठः ॥ ५ ॥मूलम्
गुप्तवती
दोषैः बुद्धिमान्द्यादिभिः अंशभूता । तवेति शेषः । 'पादोऽस्य विश्वाभूतानि'इति श्रुतेः । अव्याकृता नामरूपव्याक्रियातः पौर्वकालिकी । अत एवाद्या ॥ ६ ॥चतुर्धरी
मूलप्रकृतिश्च त्वमेवेत्याह । हेतुरिति । त्वं समस्तजगतो हेतुः मूलकारणम् । तत्रोपपत्तिमाह । त्रिगु णात । सत्त्वरजस्तमोमयीत्यर्थः । नन्वेवं रागादिसंबन्धः स्यान्न च सः । किन्तु सर्वकारणं त्वमेवेत्याह । अपीति । त्रिगुणादि सती दोषैः रागादिभिर्न ज्ञायसे । न विषयीक्रियसे इत्यर्थः । एवमपि परिच्छिन्नतया सर्वकारणमप्यसीत्याह । हरिहरादिभिरिति । अथवा सर्वाश्रयेति क्वचित् तत्पुरुषेऽपि वाच्यलिङ्गता । सर्वाश्रया सर्वं आश्रयो यस्या इति बहुव्रीहिः । कारणान्तरमप्यस्ती त्याह । अखिलमिति । इदमखिलं जगत् ब्रह्माण्डम् अंशभूतं तवैकदेशाश्रितम् अनन्तब्रह्माण्डाधिकरणत्वात् । न त्वेवं विकारा यस्याः । सांशत्वेन मूर्तत्वापत्तिरित्याह । अव्याकृतेति । षड्विधविकारहीनेत्यर्थः । 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा' इति भगवद्गीतासु । हि यस्मात् त्वम् आद्या प्रकृतिः तस्याः विशेषणं परमिति । परः परमात्मा मीयते जीवभावेनावच्छिद्यतेऽनयेति परमा । परो हि प्रकृतधर्माध्यासात् जीवभावेनाध्यवसीयते ॥ ६ ॥शान्तनवी
हे देवि त्वं त्रिगुणापि त्रयो गुणाः यस्यां सा सत्त्वं रजस्तम इति त्रयो गुणाः सत्त्वगुणा त्वं वैष्णवी शक्तिः सती जगन्ति रक्षसि । रजोगुणा त्वं ब्राह्मी शक्तिः सती जगन्ति सृजसि । तमोगुणा त्वं माहेश्वरी शक्तिः सती जगन्ति संहरसि । अत एव त्रिगुणाप्यसि । अत एव त्वं समस्तजगतां हन्त्र्यसि । सर्जनीयसंरक्षणीयसंहरणीयानि विविधानि जगन्ति स्वर्गभूपातालाख्यानि तेषां त्वं हेतुरसि । हे देवि त्वं हरिहरादिभिर् अपि देवैस्तत्त्वतो न ज्ञायसे । मायारूपत्वात् । हे देवि त्वम् अपारा अनवधिरनन्ता अन्तरहिता । हे देवि त्वं सर्वाश्रया सर्वा आश्रयो यस्याः सा तथोक्ता या आश्रीयते आश्रया सर्वस्याश्रया सर्वाश्रयापि । हे देवि इदमखिलं जगत् तवैव अंशभूतं मायामयत्वाज्जगतः अंशरूपेण समस्तं निष्पन्नं समस्तांशत्वभूतत्वं प्रापदिति वा अंशभूतम् । हे देवि त्वमव्याकृतासि केनापि न व्याकृतासि पदेन वाक्येन वा । ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । त्वं च विद्यात्वेन परब्रह्मतत्त्वमेव । यद्वा हे देवि त्वम् अव्याकृतासि केनापि प्रकाशितासि । परप्रकाशित्वानभ्युपगमात् ब्रह्मस्वरूपस्य स्वयंप्रकाशत्वाभ्युपगमाच्च । तस्य त्वं च परब्रह्म तत्त्वमेव स्वयं प्रकाशमानमनतिशयानन्वचिद्रूपमसीत्यर्थः । यद्वा हे देवि त्वमव्याकृतासि अग्राह्यासि । केनापि न हिंसितासि । हृञ् हिंसायां खादिः । त्वमेव तु युद्धे हितान्व्याकृणोपि व्याहंसि । यदभ्यधुः । 'हिंसाकरणयोः स्वादौ कृणोति कृणुते कृ ⟨…⟩ ः । करोति कुरुते द्वे द्वे संपद्यते पदे क्रमात्' इति । अव्याकृता हि परमा इति पाठे तु हि यस्मात् ⟨…⟩ हे देवि त्वं परमा परा उत्कृष्टा मा लक्ष्मीः ततः अव्याकृता अविष्णुः तेन व्याकृता उरसि स्थापिता लोकेषु वा व्याकृता व्यवस्थिता । यद्वा हे देवि हि यस्मात् तव समस्तरोमकूपेषु निजश्मीन् दिवाकरो ददौ । अतस्त्वम् अव्याकृतासि अविना सूर्येण आसमन्तात् कृतासि तेजोभिर्निर्निर्मितासि । अत एव त्वं परमा परा श्रेष्ठा मा तेजोलक्ष्मीः । 'अवयः शैलमेषार्काः' । यद्वा 'अव्याकृता हि परमा प्रकृतिस्त्वमाया’ । हे देवि हि यतः त्वं जगतामाया मूलभूता । अतः सृष्टेः प्राक् केवलैवेति अव्याकृता सत्त्वर रजस्तमोगुणानुदयान् भेदप्रत्ययानुदयात्स्वरवादिना अपृथक्कृता सांख्यद् ⟨…⟩ नप्रसिद्धा परमा प्रकृतिः प्रधानाख्यासि । इयं देवी सांख्यमते प्रकृतिराख्याता । वेदान्तिनस्तु तामनिर्वचनीयामात्ममायामनादिमविद्यामाहुः । शाब्दिकास्तां शब्दशक्तिमाचक्षते । तान्त्रिकास्तां कर्मणामपूर्वोत्पादनसामर्थ्यलक्षणां फलगतिमाहुः । तार्किकास्तां च हुता(?) चावसिति गिद्धिभिदामाहुः । शैवास्तां शिवशक्तिमाहुः । वैष्णवा विष्णुमायां नामाहुः । शाक्तास्तु तां महामायामनादिमादिमां शक्तिमाहुः । पौराणिकास्तु तां देवीमाहुः ॥ ६ ॥नागोजीभट्टी
मूलप्रकृतिस्त्वमेवेत्याह । हेतुरिति । त्वं समस्तजगतां हेतुमूलकारणम् । तत्र हेतुः । यतः त्रिगुणा सत्त्वरजस्तमोयुता । नन्वेवं रागादिसंबन्धेन सर्वकारणं न स्यादत आह । अपीति । त्रिगुणापि दोषः रागादिभिर्न ज्ञायते न विषयीक्रियसे । यद्वा दोषैर्विशिष्टा केनापि न ज्ञायते । तदभावादित्यर्थः । नन्वेवं परिच्छिन्नतया सर्वहेतुत्वं न स्यादत आह । हरिहरादिभिरप्यपारा अज्ञाता । परिच्छेदाभावादित्यर्थः । तत्र हेतुः । सर्वाश्रया सर्वमाश्रयं यस्याः सा । कार्ये हि कारणमाश्रयते । सर्वत्र वर्तमाना च । यत एव जगत् तवांशभूतं सर्वसमग्रे ⟨…⟩ ब्रह्मणस्त्वदंशत्वात् । एतद्द्वयं परिच्छिन्नं त्वयाहतं स्यादिति भावः । नन्वेवं विकारापत्तिरत आह । अव्याकृता षड्विधविकाररहितत्वान् हि यतः संसारमाया प्रथमा प्रकृतिः सत्त्वरजस्तममां साम्यावस्थासि । कीदृशी । परमा पर आत्मा मीयते जीवभावेन विच्छिद्यते यया । परमात्मैव प्रकृतिः धर्माध्यामाजीवत्वेनाध्यवसीयते ॥ ६ ॥जगच्चन्द्रचन्द्रिका
हेतुः समस्तेति ॥ ७ ॥ ६ ॥दंशोद्धारः
मूलप्रकृतिश्च त्वमेवेत्याहुः । हेतुरिति । यतो हरिहरादिभिरप्यपारा अपरिच्छिन्ना । तत्र हेतुः । सर्वाश्रया । आर्षत्वात्परवल्लिङ्गत्वाभावेन विशेष्यनिघ्नता । यद्वा सर्वेषामाश्रयो यस्यामिति बहुव्रीहिः । हेत्वन्तरमाह । अखिल जगत्तवांशभूतम् । नचैवं विकारितापत्तिरित्याह । अव्याकृता विकाररहिता । यत आद्या परमा प्रकृतिः पर आत्मा मीयतेऽवच्छि ⟨…⟩ नेऽनया जीवत्वेनेति परमा । आवरणशक्तिरित्यर्थः ॥ ६ ॥मूलम्
गुप्तवती
सुरता देवता । 'देवात्तल्'इति देवशब्दो ऽर्थपरः । यद्वा सुरसमूहः सौमा 'पौष्णं त्रैतमालभेत' इति वाक्ये त्रयाणां यमलानां समूहत्रिता तत्र भवत्रैत इत्यत्रैव प्रकृतेऽपि निर्वाहाय 'गजसहाभ्यां च' इति वार्तिके चकाराह्यन्यत्रापीति मुख्यत्वात् । समस्तसुरशक्तिरूपा त्वमित्यन्वयो वा । तृप्तिं प्रयाति देवगण इति शेषः ॥ ७ ॥चतुर्धरी
यस्याः स्वाहायाः समुदीरणेन समुच्चारणेन समस्तसुरता निःशेषदेवगणः । तृप्तिं प्रयाति । सा स्वाहासि भवसि । यत्तदोः साहचर्यनियमात् । स्वधा च त्वमेवेत्यन्वयः । अतो हेतोः त्वम् उच्चार्यसे । पितृकर्मणीति शेषः ॥७॥शान्तनवी
समस्तसुरता इति । सुर ऐश्वर्ये । सुरन्ति सुराः । सुराणां भावः सुरता । सास्ति येषां ते सुरताः इन्द्रादयः । मत्वर्थे अर्शआदित्वादच् । समस्ताश्च ते सुरताश्च समस्तसुरताः । समस्तविबुधा इति यावत् । हे देवि सा वै प्रसिद्धा स्वाहा त्वमेवासि । 'स्वाहा च हुतभुक्प्रिया' । यस्याः स्वाहायाः समुदीरणेन उच्चारणेन सकलेषु मखेषु यज्ञेषु समस्तसुरताः समस्तविबुधा यज्ञभुजः तृप्तिं प्रयान्ति प्राप्नुवन्ति । किंच हे देवि वै प्रसिद्धा सा स्वधा त्वमेवासि । अत एव खलु पितृयज्ञेषु जनैः पितृश्राद्धकर्तृभिः पुष्पैः पितृगणस्य तृप्तिहेतुः स्वधा स्वधेत्येवंरूपमन्त्रात्मा सती त्वमेवोच्चार्यसे कथ्यसे । ‘दैवे श्राद्धे भवेत्स्वाहा पैत्र्ये श्राद्धे स्वधोच्यते’ । ‘स्वाहा देवहविर्दाने श्रोषड्वौषड्वषट्स्वधा' इत्यभिधाने तु विभागो नाश्रितः ॥७॥नागोजीभट्टी
यस्या इति । हे देवि यस्याः समुदीरणेन उच्चारणेन समस्तसुरता सकलसुरसमूहः सर्वयज्ञेषु तृप्तिं प्रयाति सा स्वाहा त्वमेवासि । वै प्रसिद्धम् । तथा पितृगणस्यापि तृप्तिहेतुत्वमेव । अत एव जनैः पितृकर्मणि स्वधा च उच्चार्यते वा ॥ ७ ॥जगच्चन्द्रचन्द्रिका
यस्याः समस्तेति ८ ॥ ७ ॥दंशोद्धारः
यस्या इति । यस्याः स्वाहायाः समुदीरणेन सदुच्चारणेन समस्तसुरता समस्तदेवगणस्तृप्तिं प्रयाति सा स्वाहासि । तथा स्वधा च पितृगणतृप्तिहेतुरसि ॥ ७ ॥मूलम्
शान्तनवी
हे देवि त्वं मेधासि । अत एव त्वं विदिताखिलशास्त्रसारासि । यद्वा हे देवि त्वं विदिताखिलशास्वसारा मेधासि । ‘धीर्धारणावती मेधा’ । विदितानि अखिलानि शास्त्राणि साराणि चतुर्वर्गतत्त्वपराणि न्याख्यानि यया मेधया या त्वमेवासि । ‘प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते' । हे देवि त्वम् असङ्गा संयुक्ताखिलबन्धहेतुः अप्रतिबन्धा अनिवारितगतिः दुर्गा दुष्प्रापा दुःखेन गम्यमाना दुर्गा दुर्गभवसागरनौरसि । दुर्गो दुस्तरः भवः संसारः सागर इव दुर्गभवसागरः दुर्गभवसागरे नौः दुर्गभवसागरनौः तरणिरसि । लोके नौः नौका प्रसिद्धा । यद्वा दुर्गा दुस्तरो भवः संसारः तं दुर्गभवं स्यति खण्डयति दुर्गभवसा । न विद्यते गरो विषं दुःखं यत्र सा अगरा अगरा चासौ नौश्चेति ⟨…⟩ गरनौः दुर्गभवसा चासौ ⟨…⟩ गरनौश्चेति दुर्गभवसागरनौः । अथवा हे देवि त्वं दुर्गे दुर्गमे दुष्प्रापे भवे शंभौ परब्रह्मतत्त्वसारे साम्ने विषये असक्ता रागादिरहिता दुर्गा दुष्प्रापा दुर्लभा नौस्तरणिरसि । नौरिव नौः । देवी बद्धप्राप्तिगाधनभूता विद्यारूपेति भावः । हे देवि त्वं कैटभारिहृदयैककृताधिवासा श्रीरसि । विष्णुवक्षःस्थलनिवासिनी लक्ष्मीश्चेति वासि । कीटस्येव इन्द्रगोपकस्येव भा यस्य तत् कीटभं विष्णुकर्णमलं तत्र भावः कैटभः असुरः अधिवासः स्थितिर्यस्याः सा तथोक्ता । 'हृदयं चित्तवक्षसोः' । हे देवि त्वमेव शशिमौलिकृतप्रतिष्ठा गौरी उमा असि । शशी चन्द्रः मौलौ किरीटे यस्य स चन्द्रशेखरः शम्भुः तेन कृता प्रतिज्ञा अवस्थितिरर्धशरीरभाक्त्वेन यस्याः सा तथोक्ता । 'चूडा किरीटं केशाश्च संयता मौल्यत्रयः' ॥ ५० ॥ स्याः सा तथोक्ता । 'चूडा किरीटं केशाश्च संयतानागोजीभट्टी
तदधिष्ठात्र्यपि त्वमेवेत्याह मेधासीति । मेधा सरस्वती । नैव दुःखप्राप्यत्वेन दुर्गासीत्युच्यते । दुर्गमसारसागरस्य नौः ज्ञानद्वारा । एवं पूर्वार्धेन ब्राह्मीत्वं चोक्तम् । प्रसिद्धनैतो व्यतिरेकमाह । असंगेति । सा हि कर्णधागादिभगवती । शंभो कृता प्रतिज्ञा आस्पदं यया अर्धशरीरत्वात् । उत्तरार्धेन रौद्रीत्वं वैष्णवीत्वं चोक्तम् ॥ १० ॥जगच्चन्द्रचन्द्रिका
मेधासीति ११ ॥ १० ॥दंशोद्धारः
मेधासीति । मेधा सरस्वती विदितोऽखिलशास्त्राणां सारस्तत्त्वं यया । दुर्गे दुर्गमे भवसागरे स ⟨…⟩ ाऽप्रतिहतप्रसारा नौः । यद्वा असङ्ख्या अद्वितीया । कर्णधाराद्यनपेक्षेत्यर्थः । कैटभारिर्विष्णुः ॥ १० ॥मूलम्
गुप्तवती
अत्यद्भुतमिति । ईदृशवक्त्रालोकनेना रिषड्वर्गध्वंसपूर्वकचित्तशुद्ध्या परतत्त्वावबोधस्य सद्योऽवश्यंभावा॰ दिति भावः । तेन पापाधिक्यं ध्वनितम् ॥ ११ ॥चतुर्धरी
ईषद्धासेन सह वर्तत इति ईषत्सहासम् । सैषद्धासमिति वक्तव्ये ईषत्सहासमिति पदव्यत्ययश्छान्दसः । यद्वा ईषत्सहासमिति क्रियाविशेषणं भिन्नं पदम् । कनकोत्तमम् अत्युत्कृष्टं काञ्चनं तस्य कान्तिरिव कान्तिर्यस्य । कनकाद्यु॰ त्तमा कान्तिर्यस्येति वा । अतएव कान्तं मनोरमम् । तथापि त्कर्षं विलोक्य महिषासुरेण प्रहतं तदत्यद्भुतमत्याश्चर्यमित्यर्थः । आत्तरुषा व्याप्तकोपेनेति महिषासुरस्य विशेषणम् । सहसा बलेन ॥ ११ ॥शान्तनवी
ईषत्सहासं मन्दस्मितोपेतम् अमलं रुचिरं परिपूर्णचन्द्रबिम्बानुकारि पूर्णेन्दुबिम्बोपमं कनकेभ्य उत्तमं यत्कनकं तस्यैव कान्तिः शोभा यस्य तत् कनकोत्तमकान्ति अत एव कान्तं शोभाढ्यं मनोहरम् । हे देवि ईदृग्विधं तव वक्त्रकमलं जगन्मोहनं जयति तथापि तव वक्त्रं विलोक्य सहसा अतर्कितम् आत्तरुषा प्राप्तकोपेन महिषासुरेण प्रहतम् अत्यद्भु॰ तमेतत् । अहो ईदृशं जगन्मोहनं जगत्संजीवनं वक्त्रं विलोक्य पुमानानन्दमाप्नुयात् । तत्कथं महिषासुरस्तद्विलोक्य संजात॰ कोपः प्रादुरासीदिति चित्रमेतदिति भावः । अतर्किते तु सहसा अव्ययम् । बले त्वनव्ययम् । सहसा बलेन वा महिषासुरेण प्रहतम् । 'सहो बलं सहा मार्गः' । सहते सहः । अनव्ययत्वे सहसा कृतमिति । 'ओजःसहोऽम्भस्तमसस्तृतीयायाः' इत्यौत्त॰ रपादकमलार्विधान चावगमकम् । अत्यद्भुतम् । अदि भुवो हुतच । आदित्याश्चर्यैंऽव्ययम् । ऋना हरू कुधू येन सः तेन पारिपूर्णचन्द्रबिम्बानुकारि तादृशमिति ॥ ५१ ॥नागोजीभट्टी
ईषदिति । ईषत् हासमहितम् । छान्दसः पदव्यत्ययः । पूर्वार्धोक्तगुणविशिष्टं तव वक्त्रं विलो तथापि आत्तहर्षा प्राप्तरोषेण महिषासुरेण सहसा दर्शनस् ⟨…⟩ कालमेव तथातिनिष्ठुरं यत्प्रहृतं तदत्याश्चर्यमित्यर्थः । जगन्मोहक मिति दृष्ट्वापि न तस्य भेद इति अतिसुभेदोऽयम् । तादृशस्यापि वधेन देव्या एवोत्कर्षः सिध्यति ॥ ११ ॥जगच्चन्द्रचन्द्रिका
ईषत्सहासेति ५२ ॥ ११ ॥मूलम्
नागोजीभट्टी
देवीति । देवि प्रसीदेत्युक्त्वा विचार्यं व्यर्थमेतद्वचः प्रसन्नत्वादेव त ⟨…⟩ ाह । भवता परमा परा सानुग्रहा मा बुद्धिर्यस्यास्तादृशी । कथमेतत् ज्ञानं तत्राह । यतो नो भवाय कोपवती त्वं नो रिपूणां कुलानि सद्यो विनाशयसि । तत्र संप्रतिपत्तिमाह । विज्ञातमित्यादि । एवंच कोपोप्यपररक्षणफलको न तु स्वाभाविक इति सत्त्वगुणप्रधानत्व दर्शितम् ॥ १३ ॥जगच्चन्द्रचन्द्रिका
देवि प्रसीदेति १४ ॥ १३ ॥दंशोद्धारः
देवीति । परा सानुग्रहा मा शोभा यस्यास्तथा भवती जायमाना त्वं प्रसीद । भवाय उत्तरोत्तरपदे । भवती त्वमिति वाऽन्वयः । भवभावनायेति पाठे संसारविभूतिजननाय । अस्त विनाशम् ॥ १३ ॥मूलम्
गुप्तवती
प्रसादफलमाह । ते संमता इति त्रिभिः । धन्या धनलाभवन्तः । 'धनगणं लब्ध्वा' इति च ॥१४॥चतुर्धरी
संमताः संमानभाजः । न सीदति अवसानं न लभते । धर्मवर्गं इति धर्मपदं पुरुषार्थोपलक्षणम् । पुरुषार्थवर्गे इत्यर्थः । धन्याः श्लाघ्याः निभृता विनीताः आत्मजाः सुताः भृत्याः सेवकाः दाराः कुटुम्बाद्यः येषां ते ॥ १४ ॥शान्तनवी
हे देवि भवती सदाभ्युदयदा सती येषां प्रसन्नास्ति ते एव लोकाः जनपदेषु नीवृत्सु देशेषु गमनाः सत्पुरुषाः लब्धप्रतिष्ठाः स्युः । हे देवि भवती येषां प्रसन्नासि तेषामेव धनानि स्युः । तेषामेव यशांसि कीर्तयः स्युः । ह देवि भवती सदा अभ्युदयदा सती येषां प्रसन्नास्ति तेषामेन बन्धुवर्गश्च न सीदति न दुःख्यति । चकारात्स ⟨…⟩ ग्राह ⟨…⟩ तिश्च न सीदति । त एव धन्या धनेषु साधवः । यद्वा धनैः लब्धारः ⟨…⟩ धन्याः । 'धनगण लब्ध्वा' इति सूत्रेण ⟨…⟩ प्रत्ययः । 'सु कृती पुण्यवान् धन्यः' । हे देवि येषां भवती सदाभ्युदयदा सती प्रसन्नास्ति त एव निभृतात्मजभृत्यदाराः धन्याश्च स्युः । निभृताः विनीताः शिक्षितकुलाचारा अचपलाः आत्मजाः सुताः भृत्याः अनुचराः दाराः कुलस्त्रियश्च येषां ते तथोक्ताः । देव्याः समनुग्रहात् भवन्त्येते गुणा इति भावः । 'निभृतविनीतप्रथिताः समाः' ॥ १४ ॥नागोजीभट्टी
ते इति । संमताः महाजनाङ्गीकृताः । धर्मवर्गः धर्मघटितो वर्गः धर्मार्थकाममोक्षरूपः । धन्याः पुण्यत्वेन प्रसिद्धाः । निभृताः नितरां पोषिताः । अभ्युदयदा सर्वमनोरथदा ॥ १८ ॥जगच्चन्द्रचन्द्रिका
ते संमता इति १५ ॥ १४ ॥दंशोद्धारः
ते संमता इति । धर्मवर्गे इति पुरुषार्थोपलक्षणम् । निपुणा विनीता आत्मजगृह्यदारा येषाम् । व न्धुवर्गे इत्यपि पाठः ॥ १४ ॥मूलम्
गुप्तवती
धर्म्याणि धर्मेण प्राप्याणि । 'नौवयोधर्म' इत्यादिना यः ॥ १९ ॥चतुर्धरी
धर्म्याणि धर्मादनपेतानि । अत्यादृतोऽतिश्रद्धावान् । ततः कर्मणा हंतः स्वर्गं ब्रह्मलोकादिलक्षणं ष्कारान्मोक्षश्च भवतीप्रसादाद्भवत्यनुग्रहात् । छन्दोनुरोधात् न पुंवद्भावः । यद्वा भवतीति भिन्नं पदम् । प्रसादात्प्रसन्नतया । ननु भो तेन हेतुना लोकत्रये इह स्वर्गे मोक्षेऽपीत्यर्थः । तत्रैहिकं फलं सत्कर्माचरणं स्वर्गायुसुखानुभवः । मौक्तिकं नित्या नन्दोद्बोधः लोकद्वय इति ठः । तत्र इहलोके पर लोके च ॥ १५ ॥शान्तनवी
हे देवि भवतीप्रसादात् भवत्याः देव्याः प्रसादात्संभावितः सुकृती सुकृतवान् पुण्यवाञ्जनः प्रतिदिनं सदैव अत्यादृतः अतितरां सादरः सन् सकलानि समस्तानि स्वशाखोक्तानि अत एव धर्म्याणि धर्मेण प्राप्याणि धर्मादनपेतानि वा यथायथं स्मार्तानि श्रौतानि चोभयानि वा कर्माणि ब्रह्मयज्ञादानि करोति । ज्योतिष्टोमादीनि हि स्वर्गकामः करोति ततश्च स्वर्गं प्रयाति । इत्थं पुनः कर्म करोति पुनः स्वर्गं प्रयाति । तेन हेतुना हे देवि लोकद्वयेपि शुचि दिव्यपि त्वमेव फलदासि । ननु इदम् इत्थमेव । 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' ‘नौवयोधर्म’ इति धर्मेण प्राप्याणीत्यर्थे यत्प्रत्ययः । यद्वा धर्मादनपेतानि धर्म्याणि 'धर्मपथ्यर्थन्यायादनपेते' इति यत् । 'आहतौ सादरार्चितौ’ । ननु च भवत्प्रसादादित्यत्र सर्वनाम्ने ⟨…⟩ क्तिमात्रे पूर्वपदस्य पुंवद्भावो भवतीति भवत्प्रसादादिति स्यात् । उच्यते । पुंवदिति योगविभागसाध्यमिदं पुंस्त्वम् । देव योगविभागादिष्टसिद्धिः । ततश्च 'एकोऽहं भवतीसुतः क्षयकरो मातः कियन्तोऽरयः'इतिवत्पुंवद्भावाभावः । क्वचिदस्त्येन भवतीति तु छित्त्वा प्रसादात् प्रसन्नत्वाद्वर्ती लोकद्वयेऽपि फलदास्ति इति पुंस्त्वशङ्कानिरासपरव्याख्याने भवतीसुतक्षयकर इति प्रयोगः कदर्थितः स्यात् ॥ १५ ॥नागोजीभट्टी
धर्म्याणीति । हे देवि भवतीप्रसादात् यः सुकृती प्राग्जन्मार्जितपुण्यवान् सततमेव मुक्तफल ⟨…⟩ त्वत्प्रसादादेव अत्यादतः नित्यनैमित्तिकादावतिथिश्रद्धावान् प्रतिदिनं सदैव । षष्टिघटिकावच्छेदेन सकलानि धर्म्याणि कर्माणि करोति । पुनस्त्वत्त एव त्वत्प्रीत्युद्देशेन कृतकर्मभ्यो लब्धत्वत्प्रसादादेव स्वर्गं प्रयाति । ततः क्रमेण वा मोक्षं च । ननु निश्रेये । तेन त्वं लोकत्रयेऽपि फलदा इति शेषः ॥ १५ ॥जगच्चन्द्रचन्द्रिका
धर्म्याणीति १६ ॥ १५ ॥दंशोद्धारः
धर्म्याणीति । चान्मोक्षम् । भवतीप्रसादात् । आर्षत्वान्न पुंवद्भावः । यद्वा भवती कर्त्री । प्रसादालोकत्रयेऽपि फलदा । ऐहिकफलं सदाचारः । स्वर्गफलं सुखानुभवः । मुक्तिफलं निर्वानन्दः । लोकद्वये इति वा पाठः ॥१५॥मूलम्
गुप्तवती
॥ १६ ॥चतुर्धरी
दुर्गे संकटे । दारिद्र्यं निर्धनता । दुःखं मतिकूलप्रवेदनीयम् । भयमनागतप्रतीकूलसंधानजदुःखम । आर्द्रचित्ता स्निग्धचित्ता त्वदन्या कार्पाल्यर्थः ॥ १६ ॥शान्तनवी
हे देवि हे दुर्गे भीतस्य अस्वस्थस्य अशेषजन्तोः सर्वस्यापि प्राणिनः स्वान्तेन स्मृता सती त्वं भीतिं हरसि । हे दुर्गे त्वं स्वस्थैरभीतैः तु जन्तुभिः स्मृता सती अतीव शुभां मतिं चतुर्वर्गफलसाधनभूतां बुद्धिं ददासि । त्वन्मन्त्रत्वद्ध्यानत्वद्भजनपरां मतिं वा ददासि । तदित्थम् । हे देवि त्वं दारिद्र्यदुःखभयहारिणि सर्वोपकारकरणाय सर्वोपकारान् किन्तु सदा आर्द्रचित्ता कृपार्द्रहृदया परा देवता त्वदन्या कास्ति । न कापि ‘अम्ब्यादितो भयं हन्तुं मतिं दातुमनुत्तमाम् । देवि त्वत्वदपरा कास्ति सर्वोपकृतिकारिणी' । दुःखेन गन्तुं शक्यतेऽस्यां दुर्गा ‘सुदुरोरधिकरणे च’ इति डः । ‘बलवत्सुष्ठु किमुन शस्यतीव च निर्भरे' । स्वस्थैः स्वर्गस्थैर्देवैः स्मृता अतीव शुभां मतिं ददासि इत्यर्थः । दारिद्रा दुर्गतौ दरिद्राति दुर्गच्छति निःस्वीभवति निर्धनीभवत्यकिंचनीभवतीति दरिद्रः दरिद्रस्य भावः कर्म च दारिद्र्यं दारिद्र्यतः समुत्थितं दुःखं दारिद्र्यदुःखं दारिद्र्यदुःखाद्भयं दारिद्र्यदुःखभयं तत् हरतीति तच्छीला दारिद्र्यदुःखभयहारिणी तस्याः संबुद्धिः हे दारिद्र्यदुःखभयहारिणि । सर्वेषु भक्तेषु अभक्तेषु उदासीनेषु शत्रुषु च उपकाराणां करणं विधानं तस्मै ॥ १६ ॥नागोजीभट्टी
दुर्गे इति । दुर्गे दुर्गमे संकटे इति यावत् । तन्नाम इति च । दारिद्र्यान्दारिद्र्यं ⟨…⟩ । भयं प्रतिकूलप्रतिसंधानजम् । आर्द्रचित्ता स्निग्धचित्ता ॥ १६ ॥जगच्चन्द्रचन्द्रिका
दुर्गे इति १७ ॥ १६ ॥दंशोद्धारः
दुर्गे इति । दुर्गे संकटे । संबोधनं वा ॥ १६ ॥मूलम्
गुप्तवती
ईषत्सहासमिति श्लोकद्वयेनोक्तमाश्चर्यं परिहरति द्वाभ्याम् । एभिरिति ॥ १७ ॥चतुर्धरी
एभिरिति । एभिरसुरैः हतैः सद्भिः । प्रकृत्यादित्वात्तृतीया । चिराय चिरकालम् । नरकायेति तादर्थ्ये चतुर्थी । पापं प्रतिकूलं कुर्वन्तु नामेति नामशब्दोऽभ्युपगमे । नूनमुत्प्रेक्षायाम् ॥ १७ ॥शान्तनवी
अथैषा देवी सर्वोपकारकरणाय दत्तावधाना सदार्द्रचित्ता स्यात् किमिति तर्हि दैत्यान् निहन्ति तत्रात्तरमाह । उपैतु इति लोडन्तः पाठः । कुर्वन्तु इतिवत् । नाम इत्यपपाठः । नाम्ब इति पाठे न अम्ब इति छेदः । हे देवि हे अम्ब हे सर्वजननि त्वं सर्वोपकारकरणाय सदा कृपार्द्रचित्ता असीति यत्तत्थैव नान्यथा । तथाहि एभिः अहितैर्जगत्पीडाकर्ममहिषासुरादिभिर्दैत्यैर्हतैः रणे त्वद्धृतैः जगत् लोकः सुखमुपैतु पीडकाभावात् सुखं प्राप्नोतु । तथा एते अहिताः लोकत्रयद्द्रुहः महिषासुरादयो दैत्याः चिराय नरकाय नरकं निरयं गन्तुं पापं पाप्मानं कुर्वन्तु । 'किंतु । संग्रामे मृत्युं मरणम् अधिगन्त्रा मृत्युमुपेत्य दिवं स्वर्गं प्रयान्तु प्राप्नुवन्तु इति मत्वा विचिन्त्य अनुग्रहबुद्ध्या एव एतान् अहितान् सर्वलोक१ १७ द्रुहो महिषासुरादीन् दैत्यान् विनिहंसि मारयसि । ततो ऽन्यानपि दैत्यान् विनिहंसि हनिष्यसि च । 'वर्तमानसामीप्ये वर्तमानवद्वा'इति लट् । नूनमवश्यम् । निश्चयेऽव्ययम् । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' अव्ययाह्वाः । अम्ब इति 'अम्बार्थनद्योर्ह्रस्वः' । नामेत्येव पाठे न आमनरकाय इति छेदः । आमनरकाय कुष्ठादिमहाव्याधिप्रधाननरकाय पापं न कुर्वन्तु इत्यर्थः । अथवा 'नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने' । एभिः असुरैर्हतैः जगत्सुखमुपैतु । तथा एते असुराः यद्यपि पापं कृतवन्तः कुर्वन्तु नाम चिराय चिरकालं तथा वधेनोद्धरणीया इत्यर्थः । नरकाय पापं कुर्वन्तु नाम तथापि संग्राममृत्युम्धिगम्य तु दिवं प्रयान्तु इति मत्वा नूनं निश्चित्याह । हे देवि त्वम् एतान् असुरान् अहितान् विनिहंसि तस्मात्त्वं सर्वोपकारकरुणया सदार्द्रचित्तासीति यदुक्तं तत्तथैव नान्यथा ॥ १७ ॥नागोजीभट्टी
सर्वोपकारित्वमुपपादयति । एभिरिति । दैत्यैरित्यर्थः । उपैतीति लट् । उपैत्वित्यर्थः । एतं दैत्याः । नामेत्यभ्युपगमे । नरकायेति तादर्थ्ये चतुर्थी । तथापि रणे मृत्युं प्राप्य स्वर्गं गच्छन्तु इति हेतुत्रयं मनसि कृत्वा जगदहितान् हंसीत्यर्थः ॥ १७ ॥जगच्चन्द्रचन्द्रिका
एभिर्हतैरिति १८ ॥ १७ ॥दंशोद्धारः
नन्वसुरापकारिण्या मम कथं सर्वोपकारित्वमभि ⟨…⟩ त आहुः । एभिरिति । असुरहननेन जगदुपका ⟨…⟩ रित्वं पापिनामपि स्वर्गदानेन दैत्योपकारित्वम् इति भावः ॥ १७ ॥मूलम्
गुप्तवती
शस्त्रेण धारातीर्थस्नातत्वपावनेन पूताः ॥ १८ ॥चतुर्धरी
दृष्ट्वैव विलोक्यैव दृष्ट्वा चक्षुषैवेति (दृष्ट्वा दर्शनं ⟨…⟩ ति) पाठार्थौ । न किं भस्म प्रकरोति कर्तुं शक्नोति । प्रहिणोषि व्यापारयसि । लोकान् इन्द्रलोकादीन् शस्त्रैः पूताः क्षीणपापाः । शस्त्रैः पूतान् निर्जितानिति पाठार्थौ । इत्थम् एवं प्रकारेषु तेषु रिपुष्वपि अतिसाध्वी परोपकारस्वरूपा ॥ १८ ॥शान्तनवी
हं देवि भवती सर्वांसुरान् सर्वेषामपि असून् प्राणान् रान्ति गृह्णन्ति सर्वासुराः तान् असुरान् दृष्ट्वैव क्रूरदृष्ट्यैव भस्म भस्मीभूतान् किं न प्रकरोति किं न भस्मीकरोति । किंतु सामर्थ्यतः करोत्येव । तथापि हे देवि त्वम् अमीषु शत्रुषु शस्त्रम् आयुधं प्रहिणोषि प्रयुंक्षे इति यत् तत्र तवाभिप्रायोऽन्य एव । हि निश्चयेन । रिपवोऽपि शत्रवोऽपि संग्रामे शस्त्रपूताः शस्त्रहताः कृतप्रायश्चित्ता इव शमितपापफलाः सन्तः लोकान् वाञ्छितान् स्वर्गादीन् प्रयान्तिवति । तदित्थम् । हे देवि तव तेष्वहितेष्वपि शत्रुष्वपि साध्वी मतिरनुग्रहबुद्धिर्भवति । किं पुनः साधुषु स्वधर्मनिरतेषु साध्वी तव मति भवतीति किं ब्रूम इति भावः । भवतीशब्दप्रयोगे प्रकरोतीति प्रथमपुरुषः । भस्मत्वस्य विधेयत्वादेकत्वेपि न विरोधो वेदाः प्रमाणमितिवत् । प्रहिणोषि । हि गतौ 'स्वादिभ्यः श्नुः' 'हिनुमीना'इति णत्वम् । 'लोकस्तु भुवने जने' । साध्वी । 'बोतो गुणवचनात्' इति ङीप् ॥ १८ ॥नागोजीभट्टी
दृष्ट्वेति । दर्शनोत्तरमेतावन्मात्रेणैव भस्मकरणयोग्येषु यत् त्वं शस्त्रं पातयसि तत्तेषामुत्तमलो कृतार्थ्ये इति तेष्वपि उपकारिकैव त्वमिति किं वक्तव्यं भक्तेष्विति भावः ॥ १८ ॥जगच्चन्द्रचन्द्रिका
दृष्ट्वैव किं नेति १९ ॥ १८ ॥दंशोद्धारः
ननु जगद्रक्षार्थमेतान्हन्मि तत्कथं स्वर्गादिदानेनोपकारित्वं निर्णीतं भवद्भिरिति चेत्तत्राहुः । दृष्ट्वेति । लोकानिन्द्रलोकादीन् । शस्त्रपूतानिति पाठे । शस्त्रनिर्जितानित्यर्थः ॥ १८ ॥मूलम्
गुप्तवती
॥ १९ ॥चतुर्धरी
खङ्गस्य प्रभानिकरो दीप्तिसमूहस्तस्य विस्फुरणैः सर्वतः प्रसरणैः उग्रैः भयानंकः कृत्वा शूलाग्र शूलमुख्यम् । अग्रशब्दस्य श्रेष्ठवाचित्वात् । तस्य कान्तिनिवहेन दीप्तिसमूहेन कृत्वा असुराणां दृशः चक्षूंषि कर्तू ⟨…⟩ णि विलयं विना शानं यन्नागताः तदेतदाश्चर्यमिति शेषः । हेतुगर्भविशेषणमाह । अंशुमत् इन्दुखण्डयोग्यम् अर्धचन्द्रान्विते तव आननं मुखं विलोक्यतामित्यन्वयः ॥ १९ ॥शान्तनवी
हे देवि रणे तव उग्रैः खड्गप्रभानिकरविस्फुरणैः तथा उग्रेणं शूलाग्रकान्तिनिवहेन च असुराणां दृश दशः विलयं विनाशं नागताः नागमन् इति यत् तदेतदन्यदेवास्ति कारणम् । किं तत् । अंशुमदिन्दुखण्डयोगि आननं सुधांशुखण्डयुक्तं तव वक्त्रं विलोकयताम् इति हेतुगर्भितं विशेषणम् असुराणाम् । यद्यपि असुराः रणे देव्याः अंशुमदिन्दुखण्डयोगि अमृतांशुख ण्डयुक्तम् आननं न विलोकयेयुः तर्हि उग्रैः खड्गप्रभानिकरविस्फुरणैः तथा उग्रेण शूलाग्रकान्तिनिवहेन च विलयं गतदृशः विनाशं तद्दृष्टयः संपद्येरन्निति भावः । अत्र क्रियातिपत्तिर्घटते । यथा हे देवि संग्रामे यद्यसुरास्तवामृतांशुमयेन्दुखण्डयोगि आननं न व्यलोकयिष्यन् तर्हि उग्रैः खड्गप्रभानिकरविस्फुरणैः तथा उग्रेण शूलाग्रकान्तिनिवहेन च विलीनदृशः समपश्यन्त । न च तदेतत् समपत्स्यत । यत् यस्मात् अंशुमदिन्दुखण्डयोगि आननं व्यलोकयिष्यन् । तस्मादसुरा विलीनदृशो न पश्यन्त इति । खड्गप्रभाः तासां निकरः स्तोमः तस्य विस्फुरणानि संचलनानि तैः । शूलस्याग्राणि त्रीणि तेषां कान्तयः प्रभाः तासां निवहः समूहः तेन अंशवः किरणाः तद्वानिन्दुरमृतमयूखः तस्य खण्डः शकलः तेन योगः संबन्धो मेलनं तद्वत् अंशुमदिन्दुखण्डेन योक्तुमर्हं योग्यम् आननम् अंशुमदिन्दुखण्डयोग्यानम् इत्यपि समासः । 'अकः सवर्णे दीर्घः' ॥ १९ ॥नागोजीभट्टी
खड्गेति । निकरः समूहः । विस्फुरणं सर्वत्र प्रसरणम् । निवहः समूहः । यद्विलयं नागतास्तदेतत् अंशुमदिन्दुखण्डं तद्योगि तद्युक्तमाननं तव विलोकयतां चैषामाश्रयादिति शेषः ॥ १९ ॥जगच्चन्द्रचन्द्रिका
खड्गप्रभेति २० ॥ १९ ॥दंशोद्धारः
खड्गप्रभेति । किंच खड्गप्रभानिकरविस्फुरणैः असिकान्तिसमूहस्फुरणैः शूलाग्रस्य शूलमुख्यस्य दीप्ति समूहेन च कृत्वा असुराणां दशो विलयं यन्नागतास्तदेतयुक्तमिति शेषः । यतः अंशुमदिन्दुखण्डयोगि अर्धचन्द्रान्वितं तवाननं ⟨…⟩ लोकयताम् । यद्वा अंशुमदिन्दोः खण्डने योग्यं शरत्पूर्णचन्द्रापेक्षया ऽधिकाह्लादकारित्वात् सर्वोत्कृष्टत्वन्मुखचन्द्रावलोकनेनाह्लादितारिदृष्टीनां दुःसहमपि शस्त्रतेजः सुसहं जातमित्यर्थः । कश्चित्तु तदेतदाश्चर्यमि ⟨…⟩ व्याजहार तन्न । अंशुमदित्यादिहेतुगर्भविशेषणासंगतेः ॥ १९ ॥मूलम्
गुप्तवती
हतदेवपराक्रमाणां दैत्यानां हन्तृ वीर्याणामित्यन्वयः ॥ २० ॥चतुर्धरी
हे देवि तव दुर्वृत्तवृत्तशमनं दुर्जनचेष्टाखण्डनशीलं चरितं रूपं सौन्दर्यम् अस्ति । हतो देवानां पराक्रमो यस्तेषामसुराणामित्यर्थः । इत्थम् एवं सत्यपि दया शस्त्रप्रहरणलक्षणा । शस्त्रहता हि पापिनोऽपि पूयन्ते ॥ २० ॥शान्तनवी
हे देवि तव शीलं सद्वृत्तं कर्तृ । दुर्वृत्तवृत्तशमनम् । दुष्टं वृत्तं येषां ते दुर्वृत्ताः तेषां दुष्टचरित्राणां पुंसां वृत्तस्य शमनं शमयितृ निवारकं वर्तते । यद्वा दुष्टेन वृत्तेन वृत्तं निष्पन्नं फलं दुर्वृत्तवृत्तं दुष्टं फलं नरकलक्षणं तस्य शमनं शमयितृ अपनेतृ तव शीलम् । तथा हे देवि तव एतत् सर्वसौभाग्यसौन्दर्यैभाजनं रूपम् अचिन्त्यं मनसापि विचारयितुमशक्यम् अविचार्यं सत् अन्यैर्मनोहरैरतुल्यम् असदृशम् असाधारणमसमानं वर्तते । तथाच हे देवि तव वीर्यं च हतदेवपराक्रमाणां दैत्यानां हन्तृ घातकं वर्तते । तथा हे देवि इत्थं प्रागुक्तभणित्या त्वया देव्या स्वकीया दया कृपा वैरिष्वपि प्रकटितैव प्रकाशितैव । 'वृत्तं पथे चरित्रे त्रिष्वतीते दृढनिस्तले' ' शीलं स्वभावे सद्वृत्ते' 'रूपं गुणे स्वभावे च' । अचिन्त्यं स्मर्तुम् अशक्यं वीर्यं बलं प्रभावश्च । वीर्यं कर्तुं । हतः देवानां पराक्रमो यैः तेषाम् असुराणाम् ॥ २० ॥नागोजीभट्टी
दुर्वृत्तानां वृत्तं पापं तस्य शमनं तव शीलं स्वाभाविको गुणः । तथान्यैरतुल्यमत एवाविचिन्त्यम् । कीदृशमिति चिन्ताविषयं दृष्ट्वैव किं नेत्यादिना रूपमाकृतिः च परं हृता आत्मसात्कृताः देवा येन ईदृशः पराक्रमो येषां तेषां दैत्यानां हन्तृ वीर्यम् । एवं चेदृशरूपेणेदृशबलेन तेषां शास्त्रतो हननमिति तदीयपापशान्तये इति तेषु दयैव त्वया कृतेति भावः ॥ २० ॥जगच्चन्द्रचन्द्रिका
दुर्वृत्तेति २१ ॥ २० ॥दंशोद्धारः
॥ २० ॥मूलम्
गुप्तवती
अतिहारि अतिसुन्दरम् । वरदे वरान् ददासीति कृपा । वरान्दैत्यान् हंसि खण्डयसीति निष्ठुरता च ॥ २१ ॥ । १ 'हन्तृहतदेव' इत्यपि पाठःचतुर्धरी
ते तव पराक्रमे केनान्येनोपमा भवतु । अपि तु न केनापि । रूपं च तव शत्रुभयकारि शत्रूणां भयकर्तुं शीलं यस्य तत् । अतिहारि अतिमनोहरं कुत्र । न कुत्रापि । किंतु भुवनत्रये त्वय्येवेत्यन्वयः ॥ २१ ॥शान्तनवी
हे देवि वरदे भुवनत्रयेऽपि ते तव अस्य पराक्रमस्य केन सह उपमा भवतु । केनापि उपमैव नास्ति । निरुपमत्वात्ते पराक्रमस्य । ननु 'अतुलोपमाभ्याम्' इति निषेधात् तृतीया न स्यात् सहविवक्षायां तृतीयास्त्येव । सूत्रं तु षष्ठ्यर्थे सहभावाविवक्षार्थं च । हे देवि हे वरदे रूपं च शत्रुभयकारि शत्रूणां भयोत्पादनशीलं ततोऽन्येषां तु अतिहारि अतिमनोहारि तवैवास्ति न त्वन्यस्य कस्यापि । हे देवि हे वरदे त्वदीये चित्ते कृपा च समरनिष्ठुरता तथा त्वय्येव दृष्टा नान्यत्र दृष्टा न कुत्रापि दृष्टेति भावः । भवत्विति लोट् । दृष्टा इति निष्ठा । दृष्ट्वा इति क्त्वान्तोऽपपाठः । कृपा समरनिष्ठुरता इति च प्रथमा न तु द्वितीया । समरे निष्ठुराया भावः । 'त्वतलोर्गुणवचनस्य पुंवद्भावः' ॥ २१ ॥नागोजीभट्टी
केनेति । अतिहारि मनोहरम् । विरोधोऽत्रालंकारः । केनोपमेति तृतीया आर्षत्वात् । चित्ते कृपा रिपुष्वप्युपकारकत्वात् निष्ठुरता तु स्पष्टैव । अत्र कृपा स्वाभाविकी निष्ठुरता त्वारोपितेति विरोधपरिहार इति बोध्यम् ॥ २१ ॥जगच्चन्द्रचन्द्रिका
केनोपमेति २२ ॥ २१ ॥जगच्चन्द्रचन्द्रिका
केनोपमेति २२ ॥ २१ ॥जगच्चन्द्रचन्द्रिका
केनोपमेति २२ ॥ २१ ॥दंशोद्धारः
केनेति । अतिहारि अतिमनोहरम् ॥ २१ ॥मूलम्
गुप्तवती
॥ २२ ॥चतुर्धरी
ते रिपवोऽपि समरमूर्धनि रणप्रधानस्थाने हत्वा दिवं नीता इत्यन्वयः । उन्मदाः उद्रिक्ताहंकाराः ये सुरारयस्तद्भवं तेभ्यो जातं भयमपि अपास्तम् अपनीतम् । ते तुभ्यम् ॥ २२ ॥शान्तनवी
हे देवि त्वया एतत् त्रैलोक्यं रिपुनाशनेन अखिलं यथा भवति तथा त्रातं रक्षितम् । त्रैङ् पालने । 'नुदविदोन्दत्राघ्राहीभ्योऽन्यतरस्याम्'इति वा निष्ठानत्वम् । हे देवि त्वया समरमूर्धनि युद्धभूमौ रिपुगणान् हत्वा ते रिपुगणाः दिवं स्वर्गं नीताः प्रापिताः । हे देवि त्वया अस्माकं देवानाम् उन्मदसुरारिभवं भयमपि अपास्तम् अपक्षिप्तं दूरीकृतम् । हे देवि सर्वजननि नमस्ते । लोके खलु हिताः नतिमर्हन्ति । त्रयो लोकांत्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । अखिलं त्रैलोक्यमिति पाठे पौनरुक्त्यशङ्का । न विद्यतेऽखिलं यस्मिन्निति क्रियाविशेषणं द्रष्टव्यम् । 'संभवे व्यभिचारे च स्याद्विशेषणमर्थवत्’ । रिपूणां नाशनेन समरमूर्धनि समरस्य मूर्धैव मूर्धा युद्धभूमिः । तत्र उदुच्छ्रितमदेभ्यः सुराणामारिभ्यो दैत्येभ्यो भवं संभवम् । ‘नमः स्वस्ति’ इति चतुर्थी ॥ २२ ॥नागोजीभट्टी
त्रैलोक्यमिति । त्वयेत्यन्तमेकान्वयः । ततो रिपुगणा इत्यन्तम् अपरं वाक्यम् । भयमित्यतो भवमित्यन्तमपरम् । अनेन चित्ते कृपेत्येतद्विवृतम् । नमस्ते इत्यनेन नमस्काratिरिक्तप्रत्युपकारणे नास्माकं सामर्थ्यमिति ध्वनितम् ॥ २२ ॥जगच्चन्द्रचन्द्रिका
त्रैलोक्यमिति २३ ॥दंशोद्धारः
॥ २२ ॥मूलम्
गुप्तवती
॥ २३चतुर्धरी
॥ २३ ॥ ॥शान्तनवी
हे देवि हे अम्बिके त्वं शूलेन आयुधेन शत्रुभ्यो नोऽस्मान् पाहि रक्ष । पा रक्षणे । 'सेट्वापिच्च' । ‘अत्री शूलं रुगायुधम्' । हे देवि अम्बिके त्वं घण्टास्वनेन घण्टायाः स्वनेन नः शत्रुतः पापतश्च पाहि । हे देवि हे अम्बिके त्वं चापज्यानिःस्वनेन चापारो ⟨…⟩ कृष्टमौर्वांजनितनिःस्वनेन च नोऽस्मान् पाहि शत्रुतः पाप्मनश्चेति शेषः ॥ २३ ॥नागोजीभट्टी
॥ २३ ॥मूलम्
गुप्तवती
भ्रामणेनेत्यनेन विदिक्ष्वध ऊर्ध्वं च रक्षेति ध्वनितम् । ॥ २४ ॥गुप्तवती
भ्रामणेनेत्यनेन विदिक्ष्वध ऊर्ध्वं च रक्षे ⟨…⟩ ति ध्वनितम् । ॥ २४ ॥मूलम्
नागोजीभट्टी
देव्युवाच । व्रियतामिति । देवा ऊचुः । भगवत्येति ॥ २९ ॥जगच्चन्द्रचन्द्रिका
देवीति । 'देव्युवाचेत्ययं मन्त्रः ३१' । ततः परं देव्युवाचेत्यनन्तरं 'व्रियतां त्रिदशाः सर्वं यदस्मत्तोऽभिवाञ्छितं स्वाहा ३२' इति अर्धश्लोकमन्त्रोऽर्धश्लोकरूपो मन्त्रः । अथ देवा ऊचुरिति । अथानन्तरं 'देवा ऊचुः स्वाहेत्यपरो मन्त्रः ३३' । ततः परमिति । देवा ऊचुरित्यनन्तरं 'भगवत्या कृतं सर्वं'मित्यर्धं श्लोकमन्त्रक इति भगवत्येत्यादि अर्धश्लोकरूपो मन्त्रः । तथाहि 'भगवत्या कृतं सर्वं न किंचिदवशिष्यतेदंशोद्धारः
॥ २९ ॥मूलम्
गुप्तवती
॥ ३० ॥गुप्तवती
॥ ३० ॥चतुर्धरी
॥ ३० ॥शान्तनवी
हे देवि यदस्मात् त्वया भगवत्या अस्माकं देवानां शत्रुरयं महिषासुरनामा निहतः व्यमृक्षतः अतत्वया भगवत्या सर्वमस्माकं देवानां प्रयोजनं कृतमेव । न किंचिदवशिष्यते न किंचित्कार्यशेषोऽवशिष्यते । न कश्चिदपि शत्रुः शेषोऽवशिष्टः । हे महेश्वरि महानीश्वरः तस्य स्त्री । यद्वा महर्ता ईश्वरी । 'अश्रोतराशुकर्मणि वरं चेन्नोपधायाः' दर्वि यदि पक्षान्तरे । त्वया भगवत्या अस्माकं त्वदनुग्रहजीविनां देवानां त्वदेकजीविनां वरश्च देयोऽनुमतः स्यात् तर्हि अयं वरः प्रार्थ्यतेऽस्माभिः ॥ ३० ॥नागोजीभट्टी
यदिति । यत इत्यर्थः । पूर्वान्वयार्थम् । उत्तरार्धमुत्तरान्वयि । यदि वापीति । वाशब्द एवमर्थे । यद्येवं सत्यपि वरो देय इति तवेच्छा चेत्तदा वक्ष्यमाणमस्त्वित्यर्थः । अस्माकमस्मभ्यमित्यर्थः ॥ ३० ॥जगच्चन्द्रचन्द्रिका
यदर्यनिहतायं ⟨…⟩ च श्लोकमन्त्रत्रयं भवेदिति । तु पुनः यदयं निहत आद्यो यस्य तन यदर्यनिहताद्य ⟨…⟩ श्लोकरूपा ये मन्त्रास्तेषां त्रयं भवेत् । त्रयः पृथक् मन्त्रा भवेयुरित्यर्थः । तथाहि यदयं निहत इति ३ ⟨…⟩ ॥ ३० ॥दंशोद्धारः
॥ ३० ॥मूलम्
गुप्तवती
॥ ३१ ॥चतुर्धरी
हिंसेथा इति । भ्वादिगणपाठादात्मनेपदम् । हे अमलाननं प्रसन्नवदने अम्बिके यश्च मर्त्यः लोकः एभिः स्तवैः पूर्वोक्तैः त्वां स्तोष्यति ॥ ३१ ॥शान्तनवी
कोऽसौ । हे देवि त्वं परमापत्सु अस्माभिस्त्वदेकशरणैर्देवैः संस्मृता संस्मृता सर्ता वारंवार ध्याता सती नोऽस्माकं परमापदः परमाः आपदः । यद्वा परमा अत्यर्थाः आपदः येभ्यस्ते परमापदः शत्रवः तान् महासुरान हिंसेथाः हिंस्याः । हिसि हिंसायाम् । रुधादेः प्रार्थने लिङ् । परस्मैपदस्थाने 'व्यत्ययो बहुलम्' इत्यात्मनेपदस्य थासः सीयुट् । अस्माकमिति दानप्रतिग्रहभावाभावात्संप्रधानत्वात्संबन्धे षष्ठ्येव । मात्रा पित्रा च पुत्राणां बालानां कशिपुर्दीयते ' ⟨…⟩ जकस्यांशुकं दत्ते स्वामी भृत्यस्य वेतनम्' इतिवत् । पक्षान्तरे चेद्यदि च । देवाः द्वितीयं वरं प्रार्थयन्ते । हे अम्बिके हे अमलानने हे प्रसन्नवदने त्वम् अस्माभिः प्रपन्ना प्रणता सेविता सती वरदासि अतः यश्च मर्त्यः एभिस्त्वद्विषयैरस्माभिर्देवैः कृतैः स्तवैः त्वां देवीं स्तोष्यति भक्तितः स्तविष्यति ॥ ३१ ॥नागोजीभट्टी
संस्मृतेति । हिंसेथा इत्यार्षः । उत्तरार्धमुत्तरान्वयि ॥ ३१ ॥जगच्चन्द्रचन्द्रिका
संस्मृता संस्मृतेति ३६ ॥ ३१ ॥दंशोद्धारः
यदीति । हिंसेथा इति भौवादिकस्य रूपं न तु रौधादिकस्य । तस्य परस्मैपदित्वात् ॥ ३१ ॥मूलम्
गुप्तवती
वृद्धय इति । अस्मदिति निमित्तपञ्चमी । प्रसन्ना सती सर्वदा पुरुषार्थप्रदा भवेथाः । मर्त्यस्यापराधानिमित्तीकृत्य तस्मै मा क्रुद्ध्य इति भावः । स्पष्टमन्यत् ॥ ३२ ॥चतुर्धरी
तस्य मर्त्यस्य अस्मत्प्रसन्ना सती अस्माकं प्रसन्ना सती त्वं वित्तर्द्धिविभवैः धनदारादिसंपदाम् । वित्तं वेदनम् । ज्ञानमिति यावत् । भावे क्तविधानात् । ऋद्धिः उपचयः । विभवः ऐश्वर्यम् । तैरिति सहार्थे तृतीया । अर्थेनापि भ १ ‘यदि चापि’ इति पाठः । २ ‘अस्मत्प्रसन्ना’ इति शान्तनवीसंमतः पाठः । र्तीति स्मरणात् । धन कनकादि । आदिशब्दः क्षेत्रादिपरिग्रहार्थः । (आदिशब्दात्पुत्रदारादिसंग्रहः) धनदारादय एव संपद नासां वृद्धये उपचयाय भवेथा इत्यन्वयः ॥ ३७ ॥शान्तनवी
तस्य मर्त्यस्य मनुष्यस्य वित्तर्द्धिविभवैः सह धनदारादिसंपदां सदा वृद्धये प्रवृद्धये भवेथाः । सर्वदा वित्तस्य अर्थस्य ऋद्धेः समृद्धेर्विभवैरुद्धैः सह धनस्य गोमहिष्यश्वादेः दाराणां पत्नीनाम् । आदिशब्दात्सेवकादीनां संपदो क्षेत्रारामधान्यपुत्रमित्रादिसंपत्तीनां च वृद्धये भवेथाः । प्रार्थने लिङ् । 'व्यत्ययो बहुलम्' इत्यात्मनेपदम् । ( वैदिकं वेदकल्प मिदं देवीस्तवनमिति सूचयितुं प्रयुक्तमृषिभिः) यद्यपि वित्तं धनमिति पर्यायौ तथाप्युपचाराद्गवाश्वादिकं धनशब्देन विव ⟨…⟩ िताम् । वित्तर्द्धयश्च विभवाश्च ऐश्वर्याणि तैः सहितं धनं गवादि दारादि पत्न्यादि तेषां संपदः तासाम् ॥ ३२ ॥नागोजीभट्टी
तस्येति । वित्तर्द्धिविभवैरिति सहयोगे तृतीया । भवने च साहित्यं वित्तं ज्ञानं तस्य वृद्धिरुप न ⟨…⟩ ः । विभवा ऐश्वर्यादयः । धनदारादीनां संपदः अनुरूपा आत्मभावाः । आदिना पुत्रादिवृद्धये उपचयाय ॥ ३२ ॥जगच्चन्द्रचन्द्रिका
तस्य वित्तर्द्धीति ३७ ॥ ३२ ॥दंशोद्धारः
यथेति । वित्तं वदनं ज्ञानम् । भावे क्तः । ऋद्धिरुपचयः । विभव ऐश्वर्यम् । सहार्थे तृतीया॥३२॥मूलम्
गुप्तवती
॥ २३ ॥चतुर्धरी
भद्रं कल्याणं करोतीति भद्रा । भद्रा चासौ काली चेति विग्रहः । भद्रं कालयति वर्धयतीति कर्मण्यणंव । अन्तर्हिता अदृश्या ॥ ३३ ॥शान्तनवी
हे नृप हे सुरथ इति प्रागुक्तरीत्या देवैर्जगतोऽर्थे त्रैलोक्यसंरक्षणप्रयोजनाय तथा आत्मनोऽर्थे स्वार्थे देवकार्यविषयेऽर्थे च प्रसादिता प्रसादसुमुखीकृता भद्रकाली भद्रा सर्वमङ्गला काली रुद्रपत्नी । कर्मधारयः । हे देवाः तथास्तु युष्मद्वाञ्छितमस्तु सिध्यत्वित्युक्त्वा अन्तर्हिता बभूव अन्तर्धानमगात् अदृश्या बभूव ॥ ३३ ॥नागोजीभट्टी
ऋषिरुवाच । इतीति । तथात्मनः आत्मनश्चार्थे इत्यर्थः । तथेत्युक्त्वा तथास्त्वित्युक्त्वा भद्रं काल्यतीति भद्रकाली । अन्तर्हिताऽदृश्या बभूवेत्यन्वयः ॥ ३२ ॥जगच्चन्द्रचन्द्रिका
ऋषिरुवाचेति । ‘ऋषिरत्राचेयपरो मन्त्रः ३८’ । श्लोकाश्चत्वारो मनवः परिकीर्तिता इति चत्वारो मन्त्रा भवेयुरित्यर्थः । प्रकीर्तिता उक्ताः । तद्यथा 'इति प्रसादितेति ३९' ॥ ३३ ॥दंशोद्धारः
इतीति । भद्रा चासौ काली चेति विग्रहः । यद्वा भद्रं कारयतीति तथा । कर्मण्यण् । रलयोर॰ भद्रः ॥ ३३ ॥मूलम्
गुप्तवती
॥ ३४ ॥चतुर्धरी
॥ ३४ ॥शान्तनवी
हे भूप हे सुरथ । जगत्त्रयहितैषिणी सा देवी देवशरीरेभ्यो यथा पुरा पूर्वं तेजोरूपा संभूता महिषासुरवधाय प्रादुरभूत् इत्येतत् सर्वं ते तुभ्यं सुरथाय मया सुमेधसा मुनिना कथितं तथात्युक्तम् ॥ ३४ ॥नागोजीभट्टी
इतीति । स्पष्टम् ॥ ३४ ॥जगच्चन्द्रचन्द्रिका
इत्येतत्कथितं भूपेति ४०दंशोद्धारः
॥ ३४ ॥मूलम्
गुप्तवती
गौरीदेहादिति । गौरवर्णशरीरप्रकटनाय नीलवर्णकोशरूपं शरीरं पार्वत्या परित्यक्तमिति वक्ष्यते । देहात्कोशादित्यर्थः ॥ ३५ ॥चतुर्धरी
इतिहासान्तरं निरूपयति । पुनरिति । गौरी पार्वतीत्यनुषज्यते । देहं शरीरम् आसनम् आसः अवस्थितिर्यस्याः सा देहासा । गृहीतशरीरेति यावत् । सा गदितमाहात्म्या गौरी पुनर्गृहीतदेहा सती यथा समुद्भूताऽभवदि१ 'गौरी देहा सा' इति चतुर्धरीपाठः । चतुर्थोऽध्यायः ४ ] गुप्तवत्यादिषट्टीकासंवलिता । १२७ ऽन्वयः । अथवा गौर्या देहः शरीरकोश एव देहकारणं यस्याः सा गौरीदेहा । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । देहमहे हेतुमाह । वधायेति । दुष्टदैत्यानां धूम्रलोचनादीनाम् । ते तुभ्यम् ॥ ३५ ॥शान्तनवी
इदं श्लोकद्वयमेकक्रियमेकान्वयं द्रष्टव्यम् । शृणु स्व इति पदद्वयम् । हे स्व हे आत्मीय भूप सूरथ सा प्रसिद्धा देवानामुपकारिणी देवी पुनश्च पुनरपि दुष्टदैत्यानां दुष्टानां देवादिपीडकानां धूम्रलोचनरक्तबीजचण्डमुण्डादीनां दैत्यानां वधाय च तथा शुम्भनिशुम्भयोः वधाय च लोकानां रक्षणाय च प्रयोजनाय यथा गौरीदेहात् गौर्याः देहात्समुद्भूता अभवत् आसीत् तत्सर्वं यथावद्यथार्थं यावत् ते तुभ्यं राज्ञे कथयाम्यहं सुमेधानाम ऋषिः तत् त्वं यथावत् यावत्प्रकारेण ख्यातं मया कथितं शृणु आकर्णय । शृणुष्वेति पाठे 'व्यत्ययो बहुलम्' इत्यात्मनेपदम् । शुम्भ भाषणे हिंसायां च भ्वादिः । शुम्भति भाषते हिनस्ति वा शुम्भः । दन्त्यादिरयम् । तालव्यादिपाठे शुभशुम्भ-शोभार्थे तुदादिः । शुम्भति शोभते रणेष्विति शुम्भः । यथाप्रकारवत् यथावत् । क्रियाविशेषणम् ॥ ३५ ॥नागोजीभट्टी
पुनश्चेति । गौरीदेहः कारणं यस्या इत्यर्थः । समुद्भवः यथा तत्र हेतुर्दुष्टवधो देवलोकरक्षणं वा ॥ ३५ ॥जगच्चन्द्रचन्द्रिका
पुनश्च गौरीति ४१ ॥ ३५ ॥दंशोद्धारः
इतिहासान्तरं सूचयति। पुनश्चेति। गौरीदेहासा इति पाठे गौरीदेह एव आसनमासः स्थितिरस्याः। शरीरकोशनिःसृतत्वात् । यद्वा गौरीदेहो देहकारणमस्या इति मध्यमपदलोपी समासः ॥ ३५ ॥ रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ३६ ॥ इति श्रीमार्कण्डेयपुराणे शक्रादिकृतदेव्याः स्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४ ॥गुप्तवती
अत्र चण्डीस्तवे देवकृतास्त्रयः स्तवास्तत्तदारम्भे देवा ऊचुरित्यपेक्षितम्। तथा देवकृतवरप्रार्थनद्वयमपीति तयोरारम्भेऽपि द्विवारमिति पञ्चवारं तन्त्रान्तरे देवोक्तिरस्ति । परं तु स्तवारम्भे प्राक् श्लोकेषु नियमेन तदर्थस्योपनियद्वत्वेन पौनरुक्त्यापत्त्या स्तवारम्भे त्रितयं नापेक्षितमित्याशयेन यामलपाठे प्रार्थनारम्भ एव द्विवारं देवोक्तिरादृता। प्रकृनतन्त्रे त्वर्धजरतीयमेव प्र(थम)कृतस्तवस्य चरमस्तवस्य चारम्भे परिहृत्यैतदुत्तरं स्तवारम्भे प्रार्थनद्वयारम्भे चेति त्रिर्देवोकि ⟨…⟩ ङ्गीकारादिति द्रष्टव्यम् । अतः प्रथमश्लोकोत्तरं देवा ऊचुरिति न वक्तव्यम्। इतरयथास्थानं युक्तमेवेति दिक्। पूर्वाध्याये मध्येमध्ये श्लोकान्तराण्यत्र फलश्रुतौ च तानि बहुत्वान्न प्रदर्शितानि ॥ ३६ ॥ इति श्रीगुप्तवत्यां मन्त्रव्याख्याने शाक्रादिस्तुतिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥चतुर्धरी
॥ ३६ ॥ इति चतुर्धरीटीकायां शाक्रादिभिः कृता देव्याः स्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४ ॥शान्तनवी
अस्य श्लोकस्य व्याख्या पूर्वश्लोकेन सह कृतास्ति ॥ ३६ ॥ इति श्रीमद्राजाधिराजतोमरान्वयश्रीमदुद्धरणात्मजशान्तनुविरचितायां शान्तनव्यां देवीमाहात्म्यटीकायां शाक्रादिस्तुतिश्चतुर्थोऽध्यायः ॥ ४ ॥नागोजीभट्टी
ननु तेनाप्यस्याः कोर्थस्तदाह । उपकारिणीति । उपकारस्वभावा यंत इत्यर्थः । तच्छृणुष्वेत्या ⟨…⟩ स्तङ्ग । तत्प्रकारं मया मत्तः । निपातोऽयम् । ख्यातं लोकप्रसिद्धम् । एनामुपक्रम्य लक्ष्मीतन्त्रे लक्ष्मीवाक्यम् । 'अभि ⟨…⟩ ुत । सुरैः साहं महिषं जघ्नुषी क्षणात् । महिषान्तकरीसूक्तं दृष्टं देवैर्महर्षिभिः । उत्पत्तिं युद्धविक्रान्तिः स्तोत्रं चेति सुरेश्वर । कथयन्ति सुविस्तीर्णं ब्राह्मणा वेदपारगाः । लभन्ते च फलं शब्दाधिपत्यमनश्वरम्' । इति महिषान्तकरीसूक्त देवैर्महर्षिभिश्च दृष्टम् । देव्या यया ततमिति श्लोकेऽखिलदेवमहर्षिपूज्यत्वविशेषणात् । युष्माभिः स्तुतयो याश्चेति श्लोके ब्रह्मर्षीणां स्तुतिकर्तृत्वप्रतिपादनाच्चेति बोध्यम् ॥ ३६ ॥ इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृते सप्तशतीव्याख्याने चतुर्थोऽध्यायः ॥ ४ ॥जगच्चन्द्रचन्द्रिका
रक्षणाय च लोकानामिति ४२ ॥ ३६ ॥ "ऋषित्रयं तु देव्यैका एकदेवास्तु पञ्चभिः । उवाचवचनैः श्लोकाः पञ्चत्रिंशत्तु मन्त्रकाः" । अर्धश्लोकात्मकं यत्तन् मन्त्रद्वयं भवेदिहेति । इह चतुर्थेऽध्याये तु पुनः ऋषित्रयम् । ऋषिरुवाचेति त्रयो मन्त्राः । देव्यैका देव्युवाचेत्येको मन्त्रः । एकऋदेवाः देवा ऊचुरित्येको मन्त्रः । तु पुनः एतैः पञ्चभिरुवाचव॰ चनैः सह पञ्च अधिका त्रिंशत् एका श्लोकरूपा मन्त्रका मन्त्रा इत्यर्थः । अर्धश्लोकरूपं यन्मन्त्रद्वयं मन्त्रयुगं द्वौ मन्त्रावित्यर्थः । भवेत् । "षट्त्रिंशच्छ्लोककेऽध्याये चत्वारिंशद्द्वयाधिका । विभज्य गणना कार्या मन्त्राणां हवनादिषु" । इति षट्त्रिंशच्छ्लोका यस्मिन्नीदृशेऽध्याये चतुर्थाध्याये द्वयाधिका द्वाभ्यामधिका चत्वारिंशत् भवेदिति शेषः । द्विचत्वारिंशन्मन्त्रा भवन्तीत्यर्थः । मन्त्राणां शक्रादय इत्यादिमन्त्राणां हवनादिषु होमादिषु विभज्य मन्त्रविभागं कृत्वा गणना संख्या कार्या कर्तव्या । मन्त्रवि॰ १ 'शृणु स्व' इति शान्तनवीकारा ⟨…⟩ तः पाठः ।