प्राधानिकं रहस्यम्
मूलम्
अथ रहस्यत्रयम् । प्राधानिकरहस्यम् । अस्य श्रीरहस्यत्रयस्य ब्रह्माऽच्युतरुद्रा ऋषयः । नवदुर्गा देवता । अनुष्टुप् छन्दः महालक्ष्मीर्बीजम् । श्रीः शक्तिः अभीप्सितफलसिद्ध्यर्थे जपे विनियोगः । । राजोवाच एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि ॥ १ ॥
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २ ॥
आराध्यं यन्मया देव्याः स्वरूपं येन तद्द्विज । राज्ञः प्रश्नः । भगवन्निति उपास्यदेवताया मुख्यारूपमुपासनेति-
गुप्तवती
अथ रहस्यव्याख्या ॥ सुमेधसं प्रति १ ॥ २ ॥ ⟨…⟩ कर्तव्यतां च वदेत्यर्थः ॥ । ऋषिरुवाच न मे किंचित्त्वावाच्यं नराधिप ॥ ३ ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते । भक्तोऽसीतिगुप्तवती
भक्तोसीति । देव्या गुरोश्चेत्यर्थः ॥ ग्रन्थारम्भे वर्णितं धर्मरूपं ब्रह्मैव चण्डिकापदवाच्यमुपास्यस्वरूपं तस्याश्च व्यष्टिरूपाणि त्रीणि महाकाली महालक्ष्मीर्महासरस्वती । तेन समष्टिरूपैव चण्डिका तुरीया धर्मिरूपा निर्गुणा किन्तु तस्याश्च व्यष्टिरूपाणि त्रीणि महाकाली महालक्ष्मीर्महासरस्वत ती । तेन समष्टिरूपैव चण्डिका तुरीया धर्मिरूपा निर्गुणा किन्तु पञ्चमीति स्थितिः । आस व्यष्टित्रयकथनेनैव तदभिन्नायाः ती । तेन समष्टिरूपैव चण्डिका तुरीया धर्मिरूपा निर्गुणा किन्तु पञ्चमीति स्थितिः । आसु व्यष्टित्रयकथनेनैव तदभिन्नायाः समष्टेस्तुर्यायाः कथितप्रायत्वात्तामनिर्दिश्यैव व्यष्टिष्वन्यतममेव तुरीयासमानयोगक्षेमतयोत्तमत्वेन त्रिगुणेति निराकारेत्यलक्ष्येत्यवतारत्रयान्तर्गतेति च निर्दिशन् शुद्धसत्त्वस्वरूपां सगुणातुर्यामपहृत्य त्रयान्यतमात एवेतरे द्वे निःसृते इत्यादिरीत्या सृष्टिं कथयितुमारभते ॥ ३ ॥मूलम्
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥४ ॥
गुप्तवती
सर्वस्याद्येत्यादिना । त्रिगुणा सात्त्विकराजसतामसमूर्तित्रयसमष्टिरेव सर्वप्रपञ्चादिकारणम् । केचित्तु महालक्ष्मीरिति ख्याता सर्वदेवगुणान्विता' इति शिवपुराणादित्याहुः । एतत् । न यद्व्यष्ट्यन्तर्गतमहालक्ष्म्याः पार्थक्येनेह महालक्ष्मीरिति व्यष्टित्रयान्यतमा अपि तु तुरीयायाश्चण्डिकाया एव नामान्तरम् । ‘सदाशिवाङ्कमारूढा शक्तिरित्याह्वया शिवा। रजोभूयिष्ठतया नामदशकेन चेतरयोरिव कथनाभावात्तदर्थमध्याहारादिक्लेशस्तुल्य एव । ‘लक्ष्या’ सगुणा ‘अलक्ष्या’ निर्गुणा यस्या ग्रहणं नोपलक्ष्यते तस्मादुच्यतेऽलक्ष्येति । देव्यथर्वशीर्षश्रुतेः स्वाविषयकज्ञानस्वरूपेति तदर्थः । वृत्तिज्ञाननिरासाय स्वाविषयकेति तेषां घटमहं जानामीत्येवकारात्, ब्रह्मणश्चरमवृत्तिव्याप्यत्वेऽपि फलव्याप्यत्वानङ्गीकारादिति भावः ॥ ४ ॥मूलम्
मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती । नागं लिंगं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५ ॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा । शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६ ॥
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी । बभार रूपमपरं तमसा केवलेन हि ॥ ७ ॥
सा भिन्नाञ्जनसङ्काशा दंष्ट्राञ्चितवरानना । विशाललोचना नारी बभूव तनुमध्यमा ॥ ८ ॥
गुप्तवती
लक्ष्यां निर्दिशति । मातुलिङ्गमिति । बीजपूराख्यं फलमित्यर्थः । ‘खेटं’ चर्म ‘बिभ्रती’ करोतीति शेषः । नागादित्रयं मूर्धनि बिभ्रति, ‘लिङ्गम्’ अत्र पुंचिह्नं रुद्रस्य ‘योनिः’ स्त्रीचिह्नं विष्णोः, स्त्रीपुंसात्मकत्वं च ‘विष्णुर्योनिं कल्पयत्विति श्रुतेः’ परिशेषान्नागो ब्रह्मणश्चिह्नं स्यात् । तेनास्याः ब्रह्मविष्णुरुद्रात्मकत्वं स्त्रीपुंसात्मकत्वं च प्रदर्शितं भवति ॥ ५ ॥मूलम्
अलश्यामाह । शून्यमिति । प्रलयकाले स्थूलरूपाभावेन संस्कारात्मनावस्थितं जगत् स्वेन तेजसा चिन्मात्ररूपेण या व्याप्नुवतीत्यर्थः ॥ ६ ॥
महालक्ष्मीरिव महाकाल्यात्मकत्वेनापि परिणतेत्याह । शून्यमिति ॥ ७ ॥
८ ॥
⟨…⟩
पात्रशिरःखेटैरलंकृतचतुर्भुजा । कबन्धधारां शिरसा बिभ्राणा शिरसां स्रजा ॥ ९ ॥
खड्गपात्रशिरःखेटैरलंकृतचर्भुजा । कबन्धहारं शिरसा बिभ्राणा शिरसां स्रजम् ॥ ९ ॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥१० ॥