पञ्चमोऽध्यायः

मूलम्

भागः कर्तव्य इत्यर्थः ॥ ३६ ॥
इति श्रीसप्तशतीमन्त्रहोमकारिकाणां भगीरथविरचित जगच्चन्द्रचन्द्रिकाख्या चतुर्थाध्यायस्य टीका संपूर्णा ॥ ४ ॥

दंशोद्धारः

॥ ३६ ॥ इति श्रीदंशोद्धारटीकायां चतुर्थोऽध्यायः ॥ ४ ॥ पञ्चमोऽध्यायः ५. ऋषिरुवाच । पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मद्बलाश्रयात् ॥ १ ॥

गुप्तवती

अथ तन्त्रे सार्धद्वाविंशत्या श्लोकैः पञ्चमाध्यायषट्कगतमन्त्रविभजनपरस्तृतीयः पटलः ॥३॥ ‘‘ईश्व ⟨…⟩ उवाच । ऋषिवाक्यं पुरेत्याद्या विष्णुमायां प्रतुष्टुः । इत्यन्ताः श्लोकमन्त्राः षड् देवा ऊचुस्ततः परम् ॥ नमो देव्या इति त्रिशच्छ्लोक्यन्ते नम्रमूर्तिभिः। विष्णुमायादिकास्तेषु भ्रान्त्यन्ता एकविंशतिः॥ अवतारैः पृथङ्मन्त्रा त्रिषष्ट्याहुतयस्तु ताः । चितिरूपेण मन्त्रेणाप्याहुतित्रयमाचरेत् । एवं मन्त्रा अशीतिः स्युरथो ऋषिरुवाच ।’’ नमो देव्यै महादेव्यै इत्यारभ्य त्रिंशश्लोकी वर्तते । तदन्तिमक्षरणः सर्वापदो भक्तिविनम्रमूर्तिभिरिति पठ्यते तेषां त्रिंशतो मध्ये विष्णुमायेति शब्दितेत्यारभ्य भ्रान्तिरूपेण संस्थितेरेतद्द्वितीयचरणवन्तः श्लोका एकविंशतिः सन्ति । इतरचरणत्रयस्य सर्वेषु साधारण्यादसाधारणमध्यमप्रतीकग्रहणम् । ते एकरूपा एव भासमाना अपि महाकाली-महालक्ष्मी-महासरस्वतीरूपचण्डिकावतारैस्त्रिभिः प्रतिपाद्यैरर्थभेदात्पृथगेव मन्त्रा मन्तव्याः । प्रत्येकं त्रित्रिमन्त्ररूपा इति यावत् । ततश्चैतैस्त्रिभिः पुनरुच्चारितैस्तिस्रस्तिस्र आहुतयः कार्या इति संहत्य त्रिषष्टिः । एकाविंशतित्रिषष्टिरिति च कथनेन तन्त्रान्तरे लक्ष्म्या उपरि धृतिस्तुष्टिरपरि पुष्टिश्चेति मन्त्रद्वयमधिकम् । स्मृतिमेधाद्वयमपि पठ्यमानमेतत्तन्त्रानुसारिभिर्नोपसंहर्तव्यमिति ध्वनितम् । चितिरूपेणेति मन्त्रस्यापि त्रिरावृत्तिरिति षट्षष्टिः त्रिंशदवशिष्टाः श्लोका अष्टौ पुराशुम्भेत्यादयः पूर्वोक्ताः षडित्येवं चतुर्दशाहुतय इत्यशीतिर्मन्त्रा जाता इत्यर्थः । ऋषिदेववचसोरङ्गमन्त्रमध्ये पार्थक्येन निर्देश्यमाणत्वादिति भावः । मध्ये संख्यापिण्डकथनं तु श्लोकसंख्यातो मन्त्रसंख्याया अत्यन्तविप्रकर्षेण गणकबुद्विभ्रमनिरासार्थम् । ऋषिदेववचसो गणनमध्यायसमाप्तिभ्रमनिरासार्थम् । अत्रैकैकश्लोकोद्भवमन्त्रस्यावतारत्रयरूपप्रतिपाद्यभेदेनैव भेदं वदता मन्त्राणां शब्दानुपूर्व्या मिथो वैलक्षण्याभावः सूचितः न्याय्यश्च । नमस्तस्या इत्यक्षरचतुष्टयस्यैकरूपत्वेऽपि तच्छन्दार्थानां महाकाल्यादिरूपाणां भेदात् सर्वत्र सहस्रनामसु नाम्नां पुनरुक्त्या सहस्रसंख्यान्यूनताप्रसक्तेः पुनरुक्तनाम्नामर्थभेदवर्णनेनैव भगवत्पादादाभभाष्यकारैः परिहियमाणताया दर्शनात् । मन्त्राणामनुसंधानार्थत्वेन तद्भेदाद्भेदस्य युक्तत्वाच्च । पूर्वार्धस्य तु प्रतिमन्त्रं पूर्वभागेऽनुषङ्गः । चरमाक्षरचतुष्टयस्य तु प्रतिमन्त्रमन्तेऽनुषङ्गः । 'या ते अग्ने अयाशया रजाशया हराशया तनूवर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीस्त्वेषं वचो अपावधीः' इतिमन्त्रे अयाशायादित्रये प्रत्येकं पूर्वभागे याते अग्ने इत्यस्याग्ने तनुरित्यादेश्च योगेन मन्त्रत्रयस्वरूपस्यानुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययो गित्वादित्यधिकरणे निर्णयदर्शनात् । तेनैव न्यायेन नमकचरममन्त्रस्यैकत्वेन पठितस्यापि होमे विभज्य मन्त्रत्रयकल्पनापेक्षायां ये पृथिव्यामित्यादित्रये नमो रुद्रेभ्य इति पूर्वभागस्यैषवस्तेभ्य इत्याद्युत्तरभागस्य च पूर्वोत्तरस्थाने प्रत्येकमनुषङ्गेण मन्त्रत्रयस्य सर्वसंमतत्वाच्च । तेन या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमोनम इति चतुर्विंशत्यक्षरोऽष्टाक्षरैस्त्रिभिः पादैरेको गायत्रीछन्दस्को मन्त्रः सिद्धः । अयमेव च त्रिः पठनीयः । देवता तु भिन्नानुसन्धेयेति सिद्धम् । एवंसति यत्काण्वेनोक्तम् । प्रथमो विंशत्यक्षरो द्वितीयश्चतुरक्षरस्तृतीयोऽष्टाक्षर इति तद्विभजनं केन न्यायेन केन वा वचनेन सिध्यतीति स एव प्रष्टव्यः । ननु नमस्तस्यै इत्येतत्रयमेव प्रत्येकं पारिपूर्णवाक्यत्वान्मन्त्रत्रयम् । तास्मन्सीदामृत इत्यत्रैव तच्छब्दप्रयुक्ताकाङ्क्षायाः पूर्णत्वविघटकत्वाभावादिति स्वयैवोक्तेः । तेनैव न्यायेन या देवीत्यस्य प्रत्येकं मन्त्रत्वप्राप्तौ त्रय एव प्रतिश्लोकं मन्त्रा इति ( प्रति ) वचनेनाधिक्यासंभवाय यत्र क्वचिदेकवाक्यतयान्यतराकाङ्क्षामात्रेण योगे सिद्धे स्वाव्यवहितेनैव परेण योगः कल्प्यते तावतैव निराकाङ्क्षत्वात् । एवं नमोनम इत्यस्यापि स्वाव्यवहितपूर्वणीते मध्यस्थस्य न केनापि योगः । ) अयाशयेत्यादेर्यं पृथिव्यामित्यादेश्च निराकाङ्क्षत्वाभावादुभयाकाङ्क्षया कल्प्यमानो योगो विनिगमनाविरहात्त्रिष्वपि सिध्यतीति वैषम्यम् । यत्त्वर्थभेदमात्रेण मन्त्रभेद इति तन्नामार्थकशब्दमात्रोच्छेदापत्त्या ललितासहस्रनामव्याख्याने बौधायनीयसहस्रभोजनखण्डव्याख्याने च त्वयैव निरस्तमिति न तत्साधकम् । अत एव ‘ऋताषाडृतधामाभिर्गन्धर्वैस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा’ इत्येतावन्मात्रस्य परिपूर्णतया ता इदं ब्रह्मेत्यंशस्य योग्यस्याप्यनुषङ्गं परिहृत्यैव मन्त्रत्वं स्वीकृतम् । संकर्षे इति चेन्नैवम् । वाक्यशेषशेषिणोरानन्तर्यस्याप्रयोजकत्वात् । बहुशेषस्याप्येकत्रैव लाघवाय पठनीयत्वेन यत्र क्वापि पाठे तस्याप्यवर्जनीयत्वादेव । अतएवोक्तं जैमिनिना ‘आनन्तर्यमचोदना’ इति । अन्यथा ‘चित्पतिस्त्वा पुनातु । वाक्पतिस्त्वा पुनातु । देवस्त्वा सविता पुनातु’ इति वाक्यत्रयस्यापि प्रत्येकं परिपूर्णत्वेन ‘अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः’ इति शेषस्य स्वाकाङ्क्षामात्रेण पञ्चमोऽध्यायः ५ ] गुप्तवत्यादिषट्टीकासंवलिता । १२९ कल्प्यमानो योग एकेनैव कल्पनीयः स्यात्। इष्टश्च तस्य त्रिभिरपि योगो भाष्यकारादेः । कथमन्यथा शतरुद्रीये ‘देवानाꣳहृदयेभ्यः’ इत्यस्य 'नमो वः किरिकेभ्यः' इत्यव्यवहितपूर्वेणान्वयमात्रेण विश्रान्ताकाङ्क्षस्य ‘नमो विक्षीणꣳकेभ्यः’ इत्यादीनां नमस्तस्या इतिवत्पूर्णानामप्याकाङ्क्षोत्थापनेन तस्य पुनःपुनराकर्षणेन महति अमेयातनेन (?)बहुशेषतापादनं सर्वसंमतं युज्यताम् । तस्मादन्यतराकाङ्क्षयाप्युत्थाप्यमाना परस्याकाङ्क्षा विनिगमनाविरहात्त्रयाणामपि शेषित्वयोग्यानामुत्थाप्यत इति त्रिभिरप्यावृत्या शेषस्याप्यन्वयो वाच्यः । ताभ्यः स्वाहेत्यत्रैव ता इदमित्यस्यापि पूर्णत्वेनान्यतराकाङ्क्षाया अप्यभावेन वाक्यान्तरेण संदर्भ (श्रुतितयैव)पठिततया च नानुषङ्गप्रसक्तिः । ऋष्यन्तरमतानुसारेण तस्य प्रसक्तौ वा तयैव रीत्या स्वाहेत्यस्यापि अनुषङ्गेणैव सिद्धेर्द्विः पाठवैय्यर्थ्यापत्तिः । तद्वशादेव च तावन्मात्रस्यैव भिन्नमन्त्रत्वज्ञापनान्न दोषः । अथापि यदि य इदं या इदमिति यच्छब्दयोगेन पठ्यते तदानुषङ्गो ब्रह्मणापि न वार्येत । तच्छब्दपाठात्तु द्वयोरपि निराकाङ्क्ष्यान्नानुषङ्ग इति तु संकर्षस्थजैमिनीयाधिकरणाशयः । एतेन तत्र स्वाहाशब्दस्यैव प्रकृते नमःशब्दस्य प्रत्येकं पाठात्तावन्मात्रस्यैव मन्त्रत्वसंभव इत्यपास्तम् । शेषस्य या देवीति यच्छब्दघटितत्वेन वचनबलेन स्वतन्त्रमन्त्रत्वायोगेन त्रिष्वप्याकाङ्क्षाया उत्थापनीयत्वात् । पूजायां तु नमोऽन्तिमा इति वचनेनान्यभागे एव योजनीयस्य लौकिकनमःशब्दस्यानुषक्तंनमोनमःशब्दस्य वा पूजार्थकत्वेन 'स्वाहाकृतस्य समुत्तृप्णुतभुंवः स्वाहेति' मन्त्रमध्यपठितस्वाहापदस्य हविस्त्यागार्थकताया इव तादृशनमःशब्दस्यापि तदभावेन तत्पुनः पाठमात्रेण तावन्मात्रस्य मन्त्रत्वासिद्धेश्च । अतोऽन्यायाभासमूलक एव त्वत्कल्पितो विभागः । तादृशस्याप्युपादेयतायामिहैवाव्यवस्थापत्तिः । यथा पूर्वार्धमेको मन्त्रः । उत्तरार्धे तु समं स्यादिति न्यायाद् द्वौ पादौ द्वौ मन्त्रौ । अथवा द्वाविंशत्यक्षरश्चतुरक्षरः षडक्षर इति त्रयः । अथवा विंशत्यक्षरः षडक्षरौ द्वाविति मध्यममन्त्रस्य ‘नमो हिरण्यबाहवे’ इत्य(स्ये)त्रेवोभयतो नमस्कारत्वसंभवात् । अथवा द्वितीयतृतीयनमःशब्दयोः पूर्वत्र परत्रापि वारद्वयमन्वयः । ‘नमो भवाय च रुद्राय च नमः शर्वाय च' इत्यादौ द्वितीयादिनमःशब्दानां काकाक्षिवदुभयत्रावृत्तिस्वीकारेण तेषामुभयतो नमस्कारात्मकल्पपक्षस्यापि स्वीकारात् । तेन द्वाविंशत्यक्षरषडक्षराष्टाक्षरा ⟨…⟩ त्रयो मन्त्रा भवन्ति । नमोनम इत्येव वा नम इत्येव वा भिन्नो मन्त्रः । मध्यमः षडक्षरोऽष्टाक्षरो वा दशाक्षरो वा चतुरक्षरो वा इतरांश एकः । वसिष्ठस्मृतौ शूद्रधर्मप्रकरणेऽस्याभ्यनुज्ञातो नमस्कारो मन्त्र इति वाक्यस्य नम इति शब्दमात्रं द्व्यक्षरो मन्त्र इति व्याख्यानदर्शनात् । अतएव नमःशब्दो द्वावपि वा भिन्नौ मन्त्रावन्यः सर्व एक इत्यादिबहुव्याकुली स्यात् । यद्यप्यर्थभेदेन मन्त्रभेदो निरस्त इति तदपि न । ललितासह्रस्वनाम्नःपुनरुक्तताया एव संभवप्रदर्शनाय तन्निरासात् । सहस्रभोजनेऽप्येकस्यैव ब्राह्मणस्य दिनभेदेन द्विर्भोजननिरासार्धं तथोक्तेः । अलाभे तु तस्याप्यङ्गीकारात् कथमन्यथा विष्णुसहस्रनामादौ गतिः । नामशब्दस्य प्रातिपदिकपरत्वेनाथैवच्छन्दरूपस्य विशिष्टस्य तस्यार्थैक्योऽपि शब्दभेदमात्रेणैव शब्दैक्येऽप्यर्थभेदमात्रेण भेदस्य विशेष्याभावादिमयुक्तिविशिष्टा” भावरूपस्यापाततो दुर्निवारतायास्तत्रैवास्माभिः समर्थितत्वाच्च । अवतारैः पृथङ्मन्त्रा इति वचनेनैवार्थभेदस्यैव प्रकृते मन्त्रभेदक ⟨…⟩ र्वेन स्पष्टमेव मन्त्राणां साजात्यध्वननाच्च । एकस्यैव त्रिराम्नानेनाभ्यासादपि मन्त्रभेदसिद्धेश्च । कथमन्यथा ऋचां दशसहस्राणित्यादिना ऋग्वेदमन्त्राणां समुदितसंख्यापिण्डः कथ्यमानो युज्यताम् । कतिपयानामृचामश्वावती गोमतीरित्यादीनां पुनराम्नानात् सावर्णिर्भविता मनुरिति चरमचरणस्य सकृदाम्नातस्यापि त्वन्मतरीत्या द्विरुच्चारणविधानमात्रेण मन्त्रेण मन्त्रान्तरत्वस्वीकारे एकजातीयस्यैव त्रिराम्नाने मन्त्रत्रयत्वस्य कैमुतिकन्यायेनैव सिद्धौ शब्दभेदानावश्यकत्वाच्च । वस्तुतस्तत्र त्रयोदशाध्यायान्तेमश्लोक ( द्वय ) स्यैव पुनरुच्चारणं विधीयते न चरमचरणमात्रस्येति वक्ष्यते । तेन ‘भद्रं नो अपि वातय मनः’ इति दशाक्षरस्य ऋगन्तरावयवत्वपार्थक्याभ्यां मन्त्रभेदस्यैव सावर्णिरिति चरणे पूर्वश्लोकशेषत्वस्वातन्त्र्याभ्यां द्वैविध्यस्य स्वीकारेण दृष्टान्तासिद्वावपि न क्षतिः । चरमश्लोकद्वयस्यैव दृष्टान्तत्वसंभवात् । तस्माद्गायत्रीछन्दस्क एक एव मन्त्रोऽवतारभेदानुसंधानेन त्रिर्भिन्नः पठनीय इति कृतमतयो मात्सर्यमुत्सार्य विदांकुर्वन्तु । “आदावेवं स्तवादि स्यादन्ते कस्मान्न गृह्यते । इति सप्तदशश्लोकमन्त्रा अथ ऋषेर्वचः । निशम्येत्याद्यः श्लोका गिरेत्यन्तास्तत्त्रयः । अथ दूत उवाचेति देवि दैत्येश्वरादयः । व्रजान्ता नव मन्त्राः स्युरथो ऋषिरुवाचह । इत्युक्त्वा सा तदेत्येकः श्लोकमन्त्रः सरस्वती । देव्युवाचाथ चत्वारः श्लोकाः सत्यादयो लघु । दूतो ⟨…⟩ लितासि मैवमित्यादयस्ततः । श्लोका गमिष्यसीत्यन्ताश्चत्वारो देव्युवाच हि । एवमेतद्बली दैत्यः स च युक्तं करोतु यत् । इत्यन्तौ द्वौ मनू श्लोकावङ्गमन्त्राश्च ते नव । इत्यूनत्रिंशदधिकाः शतं मन्त्राः प्रकीर्तिताः" । अत्र लङ्घति पदस्य लङ्घन्ता इत्यर्थः । सरस्वतीशब्दो देवीविशेषणम् । तृतीयचरित्रे तस्या एव देवतात्वद्योतनार्थम् । संख्यापिण्डकथनं त्वध्यायसमाप्तिद्योतकम् । "ऋष्युक्तिरित्याकर्ण्येति श्लोकाश्चत्वार ईरिताः । पुनर्ऋषिरुवाचेति तेनाक्षप्ता इति त्रयः । श्लोकात्मकास्ततो मन्त्रा देव्युवाच ततः परम् । देव्येश्वरेण प्रहित इत्येकः श्लोकमन्त्रकः । अथर्षिवाक्यमित्युक्ताः सोऽभ्यधावदिति ह्यमी । श्लोका द्वादश मन्त्राः स्युः षष्ठेऽध्याये तु संहृताः । चतुर्विंशतिसंख्याका देवताहुतयः क्रमात् । ऋष्युक्तिर ⟨…⟩ शैलाद्याच्च त्रयोविंशति मातरः । ऋषिवाक्यं ततस्तावानीतौ द्वौ मातराविति । सप्तविंशतिसंख्याका भवन्त्याहुतयः प्रिये । अत्राध्यायद्वये देवी "धूम्राक्षीति प्रकी ⟨…⟩ ताः" । देवतामन्त्रयोर्भेदान्मातृपदेन मन्त्रा एवोच्यन्ते । "ऋषिखण्डे च निहते इत्यध्यायावसानकाः । त्रिषष्ट्याहुतयः प्रोक्ता

शान्तनवी

हे राजन् पुरा पूर्वस्मि(न्कल्पे)न्काले शुम्भनिशुम्भाभ्याम् असुराभ्यां द्वाभ्यां कर्तृभ्यां मदबलाश्रयात् मदेन गर्वेण सहितं बलं मदबलं तस्य आश्रयः संश्रयणं तस्माद्धेतोर्मदबलान्वितत्वात् । शचीपतेः इन्द्रस्य इन्द्राद्वा सकाशात् त्रैलोक्यम् आहृतं गृहीतम् । किंच यज्ञभागाश्च हताः । यज्ञविधिविहतिद्वारा यज्ञभागा अपि इन्द्रस्य विहताः । त्रयो लोकाश्चैलोक्यं यज्ञानां भागाः अंशाः । 'हर्षे गर्वे मदे क्षैब्ये गजदाने च कीर्तितः' । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' । शुम्भ भाषणे हिंसायां च । भ्वादिः परस्मैपदी दन्त्यादिः । शुम्भति भाषते हिनस्ति च शुम्भः । दन्त्यादिरपि शुम्भः । तालव्यादिपाठे तु शुम्भ शोभार्थे । रुधादिः । शुम्भति शोभते रणेष्विति शुम्भः तथा निशुम्भः ॥ १ ॥

नागोजीभट्टी

यथावत्कथयामीति प्रतिज्ञातमितिहासमाह । ऋषिरुवाच । पुरेति । कश्यपात् दन्वामुत्पन्नौ नमुचिज्येष्ठौ शुम्भनिशुम्भाविमौ सतालव्यौ चेति वामनपुराणे । लक्ष्मीतन्त्रेऽपि 'तामसे त्वन्तरे शक्र महाविद्यां विधाय सा । गौरीदेहात्समुद्भूता कौशिकीति तदा ह्यहम् । वधाय दुष्टदैत्यानां तथा शुभनिशुम्भयोः । मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः । तास्तास्तद्रूपधारिण्यः साहाय्यं विदधुर्मम । ताभिर्निहतदैत्येन्द्राद्धन्तव्यो मे यथातथा । संहृत्यात्मनि ताः सर्वा मदीया वि ⟨…⟩ षोऽखिलाः । अहं निजघ्नुषी पश्चाद्दैत्यौ शुम्भनिशुम्भका'विति । 'नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् । पुरंदर तदा दृष्टं देवैरग्निपुरोगमैः । एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति । कौशिकी सर्वदेवेश सर्वकामप्रदा ह्यहम् । उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः । पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः । एतासां परमा प्रोक्ता कूटस्था सा महीयस्याः । महालक्ष्मींमहाभागा प्रकृतिः परमेश्वरी । अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः । नमोदेव्यादिकं देवीसूक्तं सर्वफलप्रदम् । इमां देवीं स्तुवन्तियं स्तोत्रेणानेन मामिह । क्लेशा ⟨…⟩ ीय सकलानैश्वर्यं महदश्नुते' इति । 'यज्ञत्वा वैश्यसुरथो परां सिद्धिमवापतुः' इति अग्निमुखदेवगणदृष्टस्तोत्रं नारायणीसूक्तम् । तत्र 'नारायणि नमोस्तु ते' इति बहुधाभ्यासात् नमो देव्यै इत्यादिकं देवीसूक्तं देवीपदेनोपक्रमादिति बोध्यम् । मदों गर्वैः । बलं शक्तिः ॥ १ ॥

जगच्चन्द्रचन्द्रिका

अथ पञ्चमाध्यायस्य सप्तशतीमन्त्रहोमविभाग उच्यते । 'षट्सप्ततिश्लोकयुक्तेऽध्याये मन्त्रास्तु पञ्चमे । एकोनत्रिंशदधिकं शतं कात्यायनीमतम्' इति । तु पुनः षडधिका सप्ततिः षडधिका सार्धविंशतित्रयं तावन्तो ये श्लोकास्तैर्युक्ते ईदृशे पञ्चमे पञ्चमाध्याये एकेन ऊना त्रिशन्नवाधिका विंशतिरित्यर्थः । अधिकं शतं विंशतिपञ्चकं काल्यायनीमते कात्यायनीतन्त्रस्य मते मन्त्राः स्युः । एक ऋषिरुवाचेति । 'ऋषिरुवाचेति एको मन्त्रः १' । पुरा शुम्भाद्यश्च षट् । श्लोकमन्त्रा इति । पुरा शुम्भ इति श्लोक आदिर्येषां ते पुराशुम्भाद्यः पुरा शुम्भनिशुम्भाभ्यामित्याद्यः च पुनः षट् श्लोकमन्त्राः श्लोकरूपाः षट् मन्त्रा वर्तन्ते । तथाहि पुरा शुम्भ इति २ ॥ १ ॥

दंशोद्धारः

पूर्वाध्यायान्ते सूचितमितिहासं प्रस्तुवन्नृषिरुवाच । शुम्भनिशुम्भौ कश्यपसुतौ । यथोक्तं वामने । 'कश्यपस्य दनुर्नाम भार्यासीद्द्विजसत्तमाः । तस्याः पुत्रत्रयं जज्ञे सहस्राक्षाद्बलाधिकम् । ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चाऽपरोऽसुरः । तृतीयो नमुचिर्नाम महाबलपराक्रमः' इति । मदो गर्वः । बलं शक्तिः ॥ १ ॥

मूलम्

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् । कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ २ ॥

गुप्तवती

सूर्यतां रूपधर्मकालादिपरिच्छेदरूपमधिकारम् । त्रैलोक्यपदेन स्वर्गस्यापि क्रोडीकारादितरदिक्पालत्रयमेवाह । कौबेरमिति ॥ २ ॥

चतुर्धरी

सूर्यतां सूर्यभावं सूर्यस्याधिकारमित्यर्थः । ऐन्दवम् इन्दुसंबन्धिनमधिकारम् इतरविलक्षणं क्रियाकलापं तथा कौबेरमथ याम्यं च वा वरुणस्याधिकारमित्यनुषज्यते ॥ २ ॥

शान्तनवी

तावेव शुम्भनिशुम्भावेव कामरूपत्वात् सूर्यरूपतां सूर्यभावं चक्राते विदधाते । सूर्याधिकारहरणात् सूर्यभावमिव । ऐन्दवम् इन्दुसंबंधिनम् अधिकारम् आधिपत्यं तावेवासुरौ चक्राते । तथा तावेव कौबेरसंबन्धिनमधिकारं कुबेरूपदं चक्राते । अथ च तावेव याम्यं यमदैवताकम् अधिकारं चक्राते । तथा तावेव वरुणस्य अधिकारं चक्राते । याम्यमिति । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इत्यत्र प्राग्दीव्यतीयेष्वर्थेषु यमाच्चेति वक्तव्यमिति ण्यः । सूर्येन्दुकुबेरयमवरुणाधिकारान् तावेवासुरौ द्वावपि अग्रहीष्टामित्यर्थः ॥ ३ ॥

नागोजीभट्टी

तावेवेति । सुवति कर्मणि लोकं प्रेरयतीति सूर्यस्तस्य भावः सर्वलोककर्मप्रेरकता । तद्वैन्द्वमधिकारं तथा कौबेरं वरुणस्य चाधिकारमित्यन्वयः ॥ २ ॥

जगच्चन्द्रचन्द्रिका

तावेव सूर्यतामिति ३ ॥ २ ॥

दंशोद्धारः

तावेवेति । सूर्यतां सूर्याधिकारम् ॥ २ ॥ तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च । ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ३ ।

गुप्तवती

दैत्यदानवरक्षसामेकयूथ्यत्वेन निर्ऋतेर्वरदायकत्वेनोपजीव्यत्वादीशानस्य च परित्यागेन विदिक्पालत्व यमेवाह । तावेवेति । चकारद्वयेन वा द्वयोर्ग्रहणम् ॥ ३ ॥

चतुर्धरी

पवनर्द्धिं वायोरधिकारमित्यन्वयः । ततोऽनन्तरं देवास्तां देवीं स्मरन्तीत्यन्वयः । चिरातीतेऽप्य वर्तमानतयाऽशेषु ज्ञाप्यते अद्याहं सोनिहन्यते अथाह वर्णानां विदितो महेश्वर इति । विनिर्धूता न्यक्कृताः ॥ ३ ॥

शान्तनवी

तावेवासुरौ पवनस्य वायोः ऋद्धिम् अधिकृतिम् (अस्खलितगतिं)ऐश्वर्यं च चक्रतुः । तथा तावेवासुर वह्नेः कर्म च अग्निव्यापारं चक्रतुः । तावेवान्येषां दिवौकसां देवानामधिकारानग्रहीष्टाम् । इदमर्धं क्वाप्येव दृश्यते ततस्ताभ्यामसुराभ्यां सकाशातः पराजिताः प्राप्तपराभवाः अत एव भ्रष्टराज्याः भ्रष्टाधिकाराः देवाः विनिर्धूताः स्वर्गा दूरीकृता आसन् । ताभ्यामसुराभ्यां विनिर्धूताः समुज्झितास्त्यक्ता इति भावः ॥ ३ ॥

नागोजीभट्टी

ताविति । पवनः ऋध्यतेऽनेनेति करणे क्तिन् । तेन तदधिकारमित्यर्थः ॥ ३ ॥

जगच्चन्द्रचन्द्रिका

तावेव पवनर्द्धिमिति ४ ॥ ३ ॥

दंशोद्धारः

॥ ३ ॥

मूलम्

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः । महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ४ ॥

गुप्तवती

चतुर्थश्लोकोत्तरार्धस्थाने श्लोकचतुष्टयमधिकं परे पठन्ति । 'तेषु तेष्वथ धिष्ण्येषु लोकेषु च महीपते। स्वस्या प्रथिता दैत्या अधिकारे नियोजिताः । ततो देवाः सहेन्द्रेण बिभ्राणा मानुषीं तनुम् । विचेरुरवनौ राजन्मनुजैः संगताः कृशाः । एवं निवसतां तत्र देवानाममितौजसाम् । गतमासीन्महाराज चत्वारिंशच्चतुर्युंगम् । ततो देवाः सहेन्द्रेण ब्रह्मणा च समेत्य वै । दुर्गां भगवतीं भक्त्या संस्मरन्तोपराजिताम्' इति ॥ ४ ॥

चतुर्धरी

त्रिदशाः तिस्रो जन्मयौवननाशलक्षणाः दशा अवस्था येषां देवानाम् । निराकृता निरासिताः ॥ ४॥

शान्तनवी

ताभ्यां शुम्भनिशुम्भाभ्यां हताधिकाराः अपहृतराज्याः निराकृताः निरस्ताः सर्वे त्रिदशाः देवाः तां प्रसिद्धाम् अपराजितां क ⟨…⟩ यपराजिताम् अपराभूताम् अपररजिताम् अपरैरनभिभूतां देवीं स्मरन्ति स्म स्मृतवन्तः । स्मातीतेव्ययम् । सरन्तीति पाठे स्मेत्यध्याहार्यं 'लट् स्मे' इति भूते लट् प्रयोगो ज्ञेयः । 'प्रत्यादिष्टो निरस्तः स्यात्प्रत्यात्यातो निराकृतः' अपराजिता नाम देवी ॥ ४ ॥

नागोजीभट्टी

हृतेति । आत्मसात्कृता इत्यर्थः । अधिकात्रिरावृत्ता दशा त्रिदशाः अधिकावृत्तरूपान्तभावेनकार्थाभावः । तेन त्रयस्त्रिंशदित्यर्थः । ते चार्का द्वादश रुद्रा एकादश वसवोऽष्टौ विश्वेदेवौ द्वाविति । एक एव त्रिशब्दत् न्त्रेणोभयार्थः । निराकृताः स्वर्गादपि निराकृताः निःसारिताः संस्मरन्ति स्मृतवन्तः । वर्तमानसामीप्ये भूते लट् ॥ ४ ॥

जगच्चन्द्रचन्द्रिका

हताधिकारा इति ५ ॥ ४ ॥

दंशोद्धारः

हताधिकारा इति । संस्मरन्तीति भूतेपि वर्तमानव्यपदेश उपचारात् । 'अद्य कंसो निहन्यते' इतिवत् ॥ ४ ॥

मूलम्

तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः । भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५ ॥

गुप्तवती

तयास्माकमिति । यथाशब्द इतिशब्दपर्यायः प्रकारार्थकत्वात् ॥ ५ ॥

चतुर्धरी

उत्तमचरितस्य कथं स्मरन्तीत्याह । तथेति । वरस्य कारणमाह । यथेति आपत्सु ⟨…⟩ तौ तत्क्ष णात् भवताम् अखिला आपदः नाशयिष्यामीत्यन्वयः ॥ ५ ॥

शान्तनवी

ताभ्यां निराकृताः देवाः कां बुद्धिमुपेत्य कं देशं गता इत्यत आह । यथा प्रागुक्तप्रकारेण आपत्सु परमापत्तिषु स्मृता सती तत्क्षणादेव भवतां देवानाम् अखिलाः परमापदः नाशयिष्यामीति तया देव्यास्माकं वरो दत्तोऽस्ति इति मतिं मनसि कृत्वा चेतसि निधाय देवाः हिमवन्तं नगेश्वरं नगाधिराजं जग्मुः ययुः । ततस्तत्र विष्णुमायां महामाया प्रतुष्टुवुः प्रकर्षेण भक्तिश्रद्धापूर्वकं स्तुतवन्तः । विष्णुमाया महामाया इति पर्यायौ । अथवा वेवेष्टि विष्णुः मानं मायः विष्णु मीयो मानं परिमाणं यस्याः सा तथोक्ता । सर्वव्यापकेत्यर्थः ः । प्रतुष्टुवुरिति । प्रः आरम्भे । स्तोतुमारब्धवन्तः इत्यर्थः ॥ ५ ॥

नागोजीभट्टी

तत्रैव हेतुमाह । तयेति । स्मृता सती अखिलाः परमापद इत्यन्वयः ॥ ५ ॥

जगच्चन्द्रचन्द्रिका

तयास्माकमिति ६ ॥ ५ ॥

दंशोद्धारः

स्मरणमाह । तयेत्यादि ॥ ५ ॥

मूलम्

इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् । जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ६ ॥

गुप्तवती

॥ ६ ॥

चतुर्धरी

तत्र हिमवन्तं प्रति । प्रतुष्टुवुरिति । प्रशब्दो भक्तिश्रद्धातिशयलक्षणं प्रकर्षमाचष्टे ॥ ६ ॥

शान्तनवी

अस्य व्याख्या पूर्वश्लोकेन सह कृतास्ति ॥ ६ ॥

नागोजीभट्टी

इतीति । भवान्या अभिव्यक्तिस्थानत्वाद्धिमवद्गमनम् । तत्र हिमवति शुम्भनिशुम्भदमन्याः सरस्वतीत्वेऽपि यथा विष्णुमायात्वं तथोक्तमुपक्रमे ॥ ६ ॥

जगच्चन्द्रचन्द्रिका

इति कृत्वेति ७ ॥ ६ ॥

दंशोद्धारः

इतीति । प्रतुष्टुवुरिति प्रशब्दः श्रद्धातिशयं सूचयति ॥ ६ ॥

मूलम्

देवा ऊचुः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥७ ॥

गुप्तवती

नमो देव्या इत्यथर्वशीर्षस्थो मन्त्रः । स्मेत्यव्ययम् । प्रार्थनायां वा लोट् ॥ ७ ॥

चतुर्धरी

देव्यै द्योतनशीलायै । महतो ब्रह्मादीनपि देवयति सर्गादिभिर्व्यवहारयतीति महादेवी तस्यै । शिवं कल्याणं तद्धेतुत्वाच्छिवा तस्यै । प्रकृत्यै मूलप्रकृतिरूपायै । सर्वशक्त्यै इत्यर्थः । भद्रमखिलप्राणिगणरक्षणं करोतीति भद्रा स्थितिशक्तिस्तस्यै । नियताः चित्तप्रणिधानभाजः स्म । स्म पादपूरणे ॥ ७ ॥

शान्तनवी

नमो देव्या इति । दीव्यति विजिगीष्यते देवी । तस्यै देव्यै नमोस्तु । महान् देवो महादेवः तस्य स्त्री महादेवी तस्यै महादेव्यै सततं नमः । शिवायै मङ्गलहेतवे भवान्यै सततं नमः । पुंयोगे तु शिवस्य स्त्री शिवा । प्रकृतिजगत्कारणं सत्त्वरजस्तमसां साम्यावस्था । यद्वा अष्टमन्त्रापेक्षया मूलमन्त्रात्मिका देवता प्रकृतिः । यद्वा प्रत्ययात्पूर्वा प्रकृतिः । यदाहुः । 'प्रकृतिः पार्वती साक्षात्प्रत्ययस्तु महेश्वरः । अर्धनारीश्वरः शब्दः कामधुग्वः प्रसीदतु' इति तस्यै भद्रायै नमः । भद्रा सर्वमङ्गला भद्ररूपेत्यर्थः । तां प्रसिद्धाम् अस्मद्वरदाम् अम्बिकाम् अम्बां नियताः जितेन्द्रियाः प्रणताः नम्रीभवामः । सशब्दः पादपूरणेऽव्ययं वा । नियत्यै प्रणतात्मनामिति पाठे भक्तिप्रह्वस्वभावानां पुंसां नियत्यै दिष्ट्यै नमः । भाग्यरूपायै नम इत्यर्थः । 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' ॥ ७ ॥

नागोजीभट्टी

द्योतितसार्वात्म्येन स्तुतिमाह । देवा ऊचुः । नम इति । देवी द्युत्यात्मिका । महादेवी महतां ब्रह्मादीनामपि स्वर्गादिव्यवहारप्रवर्तयित्री । शिवा कल्याणरूपा तद्धेतुत्वात् । प्रकृत्यै सृष्टिशक्त्यै । भद्रा रक्षणशक्तिः । नियताः समाहितचित्ताः प्रणताः स्म । स्मेति पादपूरणे ॥ ७ ॥

जगच्चन्द्रचन्द्रिका

ततो देवा ऊचुश्चैवाष्टमो मनुरिति । ततः सप्तमन्त्रानन्तरं च पुनः देवा ऊचुः स्वाहेत्येवाऽष्टमो मनुर्मन्त्रः प्रोक्ताः ८ । नमो देव्यादिकाः श्लोकाः पञ्च मन्त्राः प्रकीर्तिताः । नमो देवी आदिर्येषां ते नमो देव्यादिकाः श्लोकाः श्लोकरूपाः पञ्च मन्त्रास्तत्संख्याका मन्त्राः प्रकीर्तिता उक्ताः । तथाहि नमो देव्यै इति ९ ॥ ७ ॥

दंशोद्धारः

नमो देव्यै द्योतनशीलायै । महतो ब्रह्मादीनपि देवयति सृष्ट्यादिरूपेण क्रीडयति इति तथा । शिवं कल्याणं तद्धेतुत्वाच्छिवायै प्रकृत्यै मूलप्रकृतिरूपायै भद्रमखिलरक्षणं तद्देवत्वाद्भद्रायै नियताः प्रणिहितचित्ताः स्म । पादपूरणे स्म । अव्ययं वा ॥ ७ ॥

मूलम्

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥८ ॥

गुप्तवती

रौद्रो रसविशेषस्तद्वती रौद्रा । मत्वर्थीयोऽच् । धात्र्यै पोषकत्वादुपमात्रे । सुखायै अभेदेन सुखवत्यै शोभनेन्द्रियायै वा ॥ ८ ॥

चतुर्धरी

रौद्रायै दारुणायै संहतिशक्त्यै इति । नित्यायै कालानवच्छिन्नायै । गौर्यै गौरवर्णायै । धात्र्यै जगत्पोषिकायै । ज्योत्स्नायै प्रकाशरूपायै । इन्दुरूपिण्यै ज्योतीरूपायै । ज्योत्स्ना इन्दुरूपलक्षणत्वात् । सुखायै परमानन्दमय्यै ॥ ८ ॥

शान्तनवी

रुद्रस्यैव रौद्रम् उग्रं रूपमस्त्यस्याः ः सा रौद्री तस्यै रौद्र्यै नमः । रौद्रशब्दादर्शआदित्वादच् । 'नेर्धुवे' इत्यप् । नित्यायै कालत्रयावस्थितायै नमः । गुरी उद्यमे तुदादिः अनुदात्तेत् । गुरते गोरः । पचाद्यच् । इगुपधत्वात् को वा । गुर एव गौरः । 'प्रज्ञादिभ्यश्च' इति स्वार्थेण् । 'टिड्ढाणञ्' इति स्त्रियां ङीप् । यद्वा वर्णवाचित्वेन रूढत्वात् 'षिद्गौरादिभ्यश्च' इति निपातनात्साधुत्वे ङीप् । गौर्यै पार्वत्यै नमः । गौरी गौरवर्णयोगात् । यद्वा गुङ् अव्यक्ते शब्दे । अतः उणादौ 'ऋज्रेन्द्राग्र इत्यादिसूत्रेण रणि वृद्धौ निपातितायां गवते गौरः ।'गौरोऽहणे सिते पीते' । धात्र्यै धरण्यै नमोस्तु । धात्र्यै उपमात्रे च नमः । ‘धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि । ज्योतिःशास्त्रविशेषे स्याज्ज्योतिरक्षरतेजसोः । ज्योतिर्ना भास्करे क्लीबमभि खद्योतदृष्टिषु’ । ज्योतिरस्त्यस्यां ज्योत्स्ना । तस्यै ज्योत्स्नायै सततं नमः । चदि आह्लादने । चन्दति चन्द्रः । रूप रूपक्रियायाम् रूप रूपदर्शने च । चुरादिः । चन्द्रं रूपयति तच्छीला चन्द्ररूपिणी तस्यै चन्द्ररूपिण्यै सततं नमः । चन्द्रस्य रूपं करोति चन्द्र रूपिणीति च व्युत्पत्तिः । ‘सुख दुःख तत्क्रियायाम्’ सुखनं दुःखनं च तत्क्रिया । सुखयतीति सुखा । पचाद्यच् । सुखायै सुखकारिण्यै सततं नमोऽस्तु ॥ ८ ॥

नागोजीभट्टी

रौद्रायै इति संहारशक्त्यै । नित्या कालानवच्छिन्ना नित्याऽव्ययशक्तिरूपा च । गौरीति तद्व्र णाद्धात्री जगदाधारा ज्योत्स्ना चन्द्रकिरणा । इन्दुश्चन्द्रः । इदमुपलक्षणम् ज्योतीरूपस्य । सुखा परमानन्दरूपा ॥ ८ ॥

जगच्चन्द्रचन्द्रिका

रौद्रायै इति १० ॥ ८ ॥

दंशोद्धारः

रौद्रायै इति । संहारशक्त्यै नित्यायै कालानवच्छिन्नायै गौर्यै गौरवर्णायै धात्र्यै पोषिण्यै ज्योत्स्नायै प्रकाशकारिण्यै इन्दुरूपिण्यै ज्योतिःस्वरूपायै सुखायै आनन्दमय्यै ॥ ८ ॥ कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कूर्म्यै नमो नमः । नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ९

गुप्तवती

प्रणताद्वृद्धयै प्रणतानामावृद्धिरूपा । प्रणतौ सत्यामृद्धिरूपेति पद्द्वयं वा । कूर्मस्य विष्णोः स्त्री कूर्मी कुः पृथिवी तद्रूपा । ऊर्म्यो वीच्यो यस्यामिति वा । कुर्मं इति पाठे प्रणताः सन्तो वयं नमस्कुर्मं इत्यन्वय इति केचित् । भूभृतां गिरीणां राज्ञां वा ॥ ९ ॥

चतुर्धरी

कल्याण्यै कल्याणकारिण्यै । वृद्धयै उपचयकारिण्यै अणिमादिरूपायै नमोनमः कुर्मं इत्यन्वयः । नैर्ऋत्यै असुरशक्त्यै नैर्ऋतपदस्यासुरोपलक्षणत्वात् । अन्य आहु । निर्ऋतिर्लक्ष्मीः । स्वार्थेण् । भूभृतां लक्ष्म्यै राजश्रियै शर्वाण्यै शिवधर्मिण्यै । ते तुभ्यम् ॥ ९ ॥

शान्तनवी

कलासु साधुः कलया शुभात्मिका वाणी । कल्याणति कल्यं निरुक्तं वा अणति कथयति कल्याणी तस्यै कल्याण्यै नमः । अण शब्दार्थः । कर्मण्यण् । किंच जगद्भिः ऋद्धयै सिद्धयै च प्रणतां वन्दितां जगज्जननीं देवीं प्रति नमः नति कुर्मः । कुर्मीं इति पाठे । प्रणमन्तीति प्रणन्तः तेषां प्रणतामिति षष्ठीबहुवचनान्तं बोध्यम् । तथाच प्रणतां प्रणमतां ऋद्धयै सिद्धयै च नमः इत्यलवेश्वरभट्टः । कूर्म्यै कूर्मजातिशक्त्यै भूभारोद्धरणसमर्थंकूर्मशक्त्यै नमः । कौर्म्यं इति पाठे कूर्मसंबन्धिन्यै शक्त्यै नमः । निष्क्रान्ता ऋतेः सन्मार्गात् निर्ऋतिः अलक्ष्मीः ‘अन्यायोपार्जिता लक्ष्मीः स्यादलक्ष्मीस्तु निर्ऋतिः’ निर्ऋते रूपमाकृतिर्नैर्ऋती तस्यै नैर्ऋत्यै अलक्ष्मीरूपायै ते तुभ्यं शर्वाण्यै शंभुपत्न्यै नमोनमः । यद्वा निश्रिता ऋतिः सत्यता येन स निर्ऋतिः निर्ऋतेर्दिक्पालस्येयम् नैर्ऋती तस्यै नैर्ऋत्यै निर्ऋत्युपार्जितलक्ष्मीरूपायै ते तुभ्यं नमः । अथ च भुवं बिभ्रतीति भूभृतः आदिमण्डूकादयः कूर्मादिनागादिकुलपर्वतादिमनुप्रभृतिराजानः तेषां भूभृतां लक्ष्म्यै लक्ष्मीरूपायै ते तुभ्यं शम्भु पत्न्यै शर्वाण्यै नमोनमः । शर्वस्य स्त्री शर्वाणी । 'इन्द्रवरुण' इत्यादिना पुंयोगे ङीषानुकौ ॥ ९ ॥

नागोजीभट्टी

कल्याणी तत्कर्त्री । शर्वाणी शिवशक्तिः ॥ ९ ॥

जगच्चन्द्रचन्द्रिका

कल्याण्यै इति ११ ॥ ९ ॥

दंशोद्धारः

कल्याण्यै कल्याणरूपायै वृद्ध्यै उपचयरूपिण्यै सिद्ध्यै अणिमादिरूपायै नमः कुर्म इत्यन्वयः । कूर्म्यै इति पाठे कूर्मशक्त्यै नैर्ऋत्यै असुरशक्त्यै यद्वा अलक्ष्म्यै । 'स्यादलक्ष्मीस्तु निर्ऋतिः' इत्यमरः । स्वार्थेऽण् । भूभृतां लक्ष्म्यै राजलक्ष्म्यै । शर्वाण्यै शिवगृहिण्यै ॥ ९ ॥

मूलम्

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ १० ॥

गुप्तवती

दुर्गाया इति चरणत्रयं वक्त्रवृत्तस्य । चतुर्थंचरणः पथ्यायाः । पथ्यायुज्ज्योऽजिति पिङ्गलसूत्रे युक्प तस्य जातिव्यक्तिपक्षभेदेन द्वेधा हलायुधेन व्याख्यातस्य छन्दोभास्कराजेऽस्माभिः समर्थनात् । अतो न वृत्तभङ्ग इति भ्रमितव्यम् ॥ १० ॥

चतुर्धरी

दुर्गायै दुरधिगमायै । गत्यर्थानां ज्ञानार्थत्वात् दुर्गें संकटे पारयति पालयतीति दुर्गा । पारः प॰ रिच्छेदोऽस्या इति वा । देशकालानवच्छिन्नेति यावत् । दुर्गात्संसारात्पारयति पारं करोतीति वा तस्यै । सारायै सारो बलं तद्योगिन्यै सर्वकारिण्यै समस्तवस्तुजातस्वतन्त्रायै । ख्यातिर्यथानुभूतिः सत्त्वपुरुषान्यथाभेदज्ञानं ख्यातिरित्यन्यस्तद्रूपायै । कृष्णायै कृष्णधूम्रवर्णयोगिन्यै ॥ १० ॥ १ ‘प्रणतां बुद्धयै’ इति पाठः । २ ‘सिद्ध्यै कुर्मो’ इति वा पाठः ।

शान्तनवी

हे सर्वकारिणि देवि तुभ्यं दुर्गायै सततं नमः । दुःखेन गम्यते दुर्गो । यद्वा दुःखेन गच्छत्यस्यां सा गो । 'सदुरोरधिकरणं' इति वक्तव्यम् । गमेडिः । तथा हे सर्वकारिणि देवि तुभ्यं, दुर्गपारायै सततं नमः । दुर्गे पारे यस्याः हामायाह्यसिन्धोः सा दुर्गपारा । यद्वा 'पार तीर कर्मसमाप्तौ' पारयति पारा । दुर्गाणां कार्याणां पारा दुर्गपारा । यद्वा दुर्गाः राः पारयन्तो गणाः यस्याः सा दुर्गपारा नाम देवी । हे सर्वकारिणि हे देवि तुभ्यं सारायै संसारसारायै वरायै श्रेष्ठायै ततं नमोस्तु । हे सर्वकारिणि देवि तुभ्यं ख्यात्यै विख्यातरूपायै सततं नमः । हे सर्वकारिणि देवि तुभ्यं कृष्णायै कृष्णवर्णायै लरात्र्यै सततं नमः । तथैव हे सर्वकारिणि देवि तुभ्यं धूम्रायै धूम्रवर्णायै सततं नमः । सर्वं करोति इति सर्वकारणा त संबुद्धिः हे सर्वकारिणि । सर्वकारिण्यै इति पाठे सर्वकारिण्यै देव्यै सततं नम इत्यनुसंधेयम् ॥ १० ॥

नागोजीभट्टी

दुर्गायै इति । दुःखज्ञेयायै । दुर्गं दुरधिगमः परिच्छेदो यस्यास्तस्यै । दुर्गात्संसारात्पार करोतीति न सारो बल सद ⟨…⟩ यै सर्वकारिण्यै सर्वजनने स्वतन्त्रायै । प्रकृतिपुरुषयोर्भेदज्ञानं ख्यातिस्तद्रूपायै प्रसिद्ध्यै च । कृष्णा तद्गुणो ष्णशक्तित्व । धूम्रा तद्वर्णा ॥ १० ॥

जगच्चन्द्रचन्द्रिका

दुर्गायै इति १२ ॥ १० ॥

दंशोद्धारः

दुर्गायै इति । दुर्गायै दुर्ज्ञानायै दुर्गे संकटे पार्यति पालयति दुर्गपारा तस्य । यद्वा दुर्गः पारो ⟨…⟩ स्याः । देशकालाद्यनवच्छिन्नायै इत्यर्थः । दुर्गात्संसारात्पारयति पारं नयति इति वा । सारायै बलवत्यै । ख्यात्यै कीर्ति ⟨…⟩ रूपायै । कृष्णायै कृष्णवर्णायै धूम्रायै धूम्रवर्णायै ॥ १० ॥

मूलम्

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ११ ॥

गुप्तवती

सौम्यान् रौद्रांश्चातिकान्ताऽतिसौम्यातिरौद्रा । कृत्यै यज्ञरूपार्थभावनायै । वेदोक्तधर्मरूपिणीति यावत् । ⟨…⟩ त एव जगत्प्रतिष्ठेति विशेषणम् । 'धर्मो विश्वस्य जगतः प्रतिष्ठा' इति श्रुतेः ॥ ११ ॥

चतुर्धरी

अतिसौम्यायै विद्याभावेन संसारतापोच्छेदहेतुत्वात् । अतिरौद्रायै अविद्याभावेन संस्कारकारणत्वात् । जगत्प्रतिष्ठायै जगदधिष्ठानरूपायै । देव्यै देवशक्त्यै क्रियात्मिकायै ॥ ११ ॥

शान्तनवी

'सोमाट्ठण्' । सौम्यं सोमदेवताकं सुन्दरं मनोहरं च रूपम् । अत्यर्थं सौम्यं यस्याः सा अतिसौम्या । रुद्रदेवतकं रुद्रसंबन्धि वा रूपं रौद्रम् अत्यर्थं रौद्रं यस्याः सा अतिरौद्रा । ततश्च भजतामभजतां च 'यथाक्रमादतिसौम्या चासावतिरौद्रा चेति कर्मधारयः । तस्यै अतिसौम्यातिरौद्रायै वाङ् ⟨…⟩ मारूपायै त्रिशक्त्यात्मिकायै देव्यै नमोनमः । इति शक्तित्रयापेक्षं नमस्त्रयम् । सोमस्य भावः सौम्यम् । भावे ष्यञ् । रुद्रस्य भावः रौद्रम् । युवादित्वाद्भावे अण् । अतिकान्तं सौम्यं यया सा अतिसौम्या । अतिक्रान्तं रौद्रं यया सा अतिरौद्रा । ततः कर्मधारये सति तस्यै नम इत्यप्यनुसंधेयम् । जगतां प्राणभृतां प्रतिष्ठा आस्पदमाधारशक्तिस्थानं तस्यै जगत्प्रतिष्ठायै जगत्प्रतिष्ठास्पदायै नमोनमः । प्राणिनां प्राणधारणाय प्राणधारणार्थे यत्स्थानं मूलाधारसंज्ञं तत्प्रतिष्ठेत्युच्यते । 'आस्पदं प्रतिष्ठायाम् इत्यास्पदशब्दस्य पर्यायः प्रतिष्ठाशब्दः । दि ⟨…⟩ क्रीडादौ । दीव्यतीति देवी तस्यै क्रीडाविजिगीषाद्यर्थक्रियाकारिण्यै देव्यै नमः । करणं कृतिः प्रयत्नः । सर्गस्थितिप्रत्यवहारविषयः प्रयत्नोऽत्र विवक्षितः । तस्यै कृत्यै कृतिरूपायै प्रयत्नरूपायै नमः । नमस्यानां त्रित्वादिह नमस्त्रित्वम् । कृत्यै इति पाठे तृन्नन्तत्वात् जगदिति कर्म विवक्षितम् । जगत्कारणशीलायै देव्यै नम इत्यर्थः ॥ ११ ॥

नागोजीभट्टी

अतीति । विद्यात्वेन संसारशामकत्वादतिसौम्या । अविद्यारूपेण संसारहेतुत्वादतिरौद्रा । नमोनमः इत्येतदुक्तिपूर्वकं नताः नम्रा इत्यर्थः । जगत्प्रतिष्ठा जगदुपादानकारणम् । देव्यै देवशक्त्यै । कृतिः क्रिया ॥ ११ ॥

जगच्चन्द्रचन्द्रिका

अतिसौम्येति १३ ॥ ११ ॥

दंशोद्धारः

अतिसौम्येति । अतिसौम्यातिरौद्रायै भक्ताभक्तयोः । जगति प्रतिष्ठा यस्याः चिच्छक्तिरूपत्वात् । देव्यै देवशक्त्यै । कृत्यै क्रियात्मिकायै ॥ ११ ॥

मूलम्

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ १२ ॥

गुप्तवती

विष्णुमायेति वराहपुराणे मेघवृष्टिशस्योत्पत्त्यादीनि बहूनि कार्याणि विष्णुमायात्मकत्वेन महता ग्रन्थेन प्रदर्शितानि । कालिकापुराणे तु ‘अव्यक्तं व्यक्तरूपेण रजःसत्त्वतमोगुणैः । विभज्य यार्थं कुरुते विष्णुमायेति सोच्यते' इति संक्षिप्य स एवार्थः कथितः । इह लक्ष्म्या उत्तरं धृतिस्तुष्ट्युत्तरं पुष्टिश्चेति द्वयं तन्त्रान्तरसंमतम् । ये तु कीर्तिप्रज्ञामेधाश्रुतिस्फूर्तिप्रभृतयो बहवो मन्त्राः पठ्यन्ते ते तु तन्त्रत्रयस्यासंमताः । स्फूर्तिमेधे संमते एतेत्यन्ये । प्रकृततन्त्रेत्वेकविंशतिरेवेति वेद्यम् ॥ १२ ॥

चतुर्धरी

सर्वभूतेष्वशेषप्राणिषु या प्रसिद्धा विष्णुमूलाविद्या । इति शब्द उपपददर्शने । शब्दिता सर्वांगमेषु

जगच्चन्द्रचन्द्रिका

शक्तिः १२,१३,३४ ॥ १८ ॥

दंशोद्धारः

शक्तिः सामर्थ्यमुत्साहो वा ॥ १८ ॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ १

गुप्तवती

तृष्णा लोभः ॥ १९ ॥

चतुर्धरी

तृष्णा अनात्मीयस्वीकारेच्छा ॥ १९ ॥

शान्तनवी

सर्वाणि भूतानि पृथिव्यादीनि येषां देहानामारम्भकर्तृत्वेन सन्ति तानि सर्वभूतानि देहा भितृषा पिपासायाम् । ‘तृषिशुषिरसिभ्यः कित्’ इति नः । तृष्णा उपभोगनिमित्तकोऽभिलाषः । 'तृष्णाभिलषणं भोगे वनपिशाचिका’ ‘तृष्णे स्पृहापिपासे द्वे तद्रूपेहाम्बिका स्मृता' । तर्षणं तृष्णा स्पृहा । निरूढलक्षणत्वात् । इत्यष्टमी तृष्णा ॥ १९ ॥

नागोजीभट्टी

तृष्णा अनात्मीयस्वीकारेच्छा ॥ १९ ॥

जगच्चन्द्रचन्द्रिका

तृष्णेति ३५, ३६, ३७ ॥ १९ ॥

दंशोद्धारः

तृष्णा अनात्मीयजिघृक्षा ॥ १९ ॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ २

गुप्तवती

क्षान्तिः क्षमा ॥ २० ॥

चतुर्धरी

क्षान्तिरपकारिण्यप्यनपकारचिकीर्षा ॥ २० ॥

शान्तनवी

क्षमूष् सहने । षित्वात्स्त्रियां क्षमा । वाहुलकात्तु क्तिनि क्षान्तिः । ‘अनुनासिकस्य क्वि क्ङिति' इति दीर्घः । 'क्षान्तिः क्षमा तितिक्षा च मर्षश्च सहनार्थकाः’ । क्षान्तिस्तृष्णापारिपन्थिनी परप्रयुक्तापकारं प्र ⟨…⟩ प्रतिकूलवेदनां प्रत्युपेक्षा च । इति नवमी देवी क्षान्तिः ॥ २० ॥

नागोजीभट्टी

क्षान्तिः सत्यपि सामर्थ्येऽपकाराचिकीर्षा ॥ २० ॥

जगच्चन्द्रचन्द्रिका

क्षान्तिरिति ३८, ३९, ४० ॥ २० ॥

दंशोद्धारः

क्षान्तिरपकारिण्यनपकारः ॥ २० ॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ २१

गुप्तवती

जातिर्जन्म ब्रह्मसत्ता वा ॥ २१ ॥

चतुर्धरी

जातिरनेकेष्वेकाकारव्यवहारसाधनम् ॥ २१ ॥

शान्तनवी

नित्यैकानुगतप्रत्ययहेतुरनेकसमवायिनी जातिः । यथा मनुष्येषु मनुष्यत्वं गोषु गोत्वम् । ‘ज सामान्यजन्मनोः' । जायतेऽन्यथा भिन्नेष्वभिन्नाभिधानप्रयोगो जातिः । इति दशमी देवी जातिः ॥ २१ ॥

नागोजीभट्टी

जातिः गोत्वादिः ॥ २१ ॥

जगच्चन्द्रचन्द्रिका

जातिरिति ४१, ४२, ⟨…⟩ ३ ॥ २१ ॥

दंशोद्धारः

जातिरनेकेष्वेकाकारप्रत्यायिका ॥ २१ ॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ २२

गुप्तवती

लज्जा त्रपा ॥ २२ ॥ २२ ॥

चतुर्धरी

लज्जा स्वकार्यविषयान्यज्ञानभीः ॥

शान्तनवी

ओलस्जी व्रीडायाम् । स्त्रियाम् ‘गुरोश्च हलः’ इत्यप्रत्ययः । ‘झलां जश् झशि’ इति दः श्रु ⟨…⟩ स्त्रियाम् 'अजाद्यतष्टाप्' । कर्तव्याकारणनिमित्तम् अकार्यकरणनिमित्तमन्यतः स्वतो वा जनितं लज्जनं संकोचनं मनुष्यादि ⟨…⟩ लज्जेत्युच्यते इत्येकादशी लज्जा ॥ २२ ॥

नागोजीभट्टी

लज्जा स्वकार्यविषयान्यज्ञानभिन्ना ॥ २२ ॥

जगच्चन्द्रचन्द्रिका

लज्जेति ४४, ४५, ४६ ॥ २२ ॥

दंशोद्धारः

लज्जा चिकीर्षितविषये लोकभीः ॥ २२ ॥